Rescission of sale and purchase
विश्वास-प्रस्तुतिः - 01
01 विक्रीय पण्यं अप्रयच्छतो द्वादशपणो दण्डः, अन्यत्र दोष उपनिपाताविषह्येभ्यः
मूलम् - 01
01 विक्रीय पण्यं अप्रयच्छतो द्वादशपणो दण्डः, अन्यत्र दोष उपनिपाताविषह्येभ्यः
विश्वास-प्रस्तुतिः - 02
02 पण्यदोषो दोषः
मूलम् - 02
02 पण्यदोषो दोषः
विश्वास-प्रस्तुतिः - 03
03 राजचोराग्न्य्।उदकबाध उपनिपातः
मूलम् - 03
03 राजचोराग्न्य्।उदकबाध उपनिपातः
विश्वास-प्रस्तुतिः - 04
04 बहुगुणहीनं आर्तकृतं वाऽविषह्यम्
मूलम् - 04
04 बहुगुणहीनं आर्तकृतं वाऽविषह्यम्
विश्वास-प्रस्तुतिः - 05
05 वैदेहकानां एकरात्रं अनुशयः, कर्षकाणां त्रिरात्रं, गोरक्षकाणां पञ्चरात्रम्
मूलम् - 05
05 वैदेहकानां एकरात्रं अनुशयः, कर्षकाणां त्रिरात्रं, गोरक्षकाणां पञ्चरात्रम्
विश्वास-प्रस्तुतिः - 06
06 व्यामिश्राणां उत्तमानां च वर्णानां वृत्तिविक्रये सप्तरात्रम्
मूलम् - 06
06 व्यामिश्राणां उत्तमानां च वर्णानां वृत्तिविक्रये सप्तरात्रम्
विश्वास-प्रस्तुतिः - 07
07 आतिपातिकानां पण्यानां अन्यत्राविक्रेयम् इत्यवरोधेनानुशयो देयः
मूलम् - 07
07 आतिपातिकानां पण्यानां अन्यत्राविक्रेयम् इत्यवरोधेनानुशयो देयः
विश्वास-प्रस्तुतिः - 08
08 तस्यातिक्रमे चतुर्विंशतिपणो दण्डः, पण्यदशभागो वा
मूलम् - 08
08 तस्यातिक्रमे चतुर्विंशतिपणो दण्डः, पण्यदशभागो वा
विश्वास-प्रस्तुतिः - 09
09 क्रीत्वा पण्यं अप्रतिगृह्णतो द्वादशपणो दण्डः, अन्यत्र दोष उपनिपाताविषह्येभ्यः
मूलम् - 09
09 क्रीत्वा पण्यं अप्रतिगृह्णतो द्वादशपणो दण्डः, अन्यत्र दोष उपनिपाताविषह्येभ्यः
विश्वास-प्रस्तुतिः - 10
10 समानश्चानुशयो विक्रेतुरनुशयेन
मूलम् - 10
10 समानश्चानुशयो विक्रेतुरनुशयेन
विश्वास-प्रस्तुतिः - 11
11 विवाहानां तु त्रयाणां पूर्वेषां वर्णानां पाणिग्रहणात् सिद्धं उपावर्तनं, शूद्राणां च प्रकर्मणः
मूलम् - 11
11 विवाहानां तु त्रयाणां पूर्वेषां वर्णानां पाणिग्रहणात् सिद्धं उपावर्तनं, शूद्राणां च प्रकर्मणः
विश्वास-प्रस्तुतिः - 12
12 वृत्तपाणिग्रहणयोरपि दोषं औपशायिकं दृष्ट्वा सिद्धं उपावर्तनम्
मूलम् - 12
12 वृत्तपाणिग्रहणयोरपि दोषं औपशायिकं दृष्ट्वा सिद्धं उपावर्तनम्
विश्वास-प्रस्तुतिः - 13
13 न त्वेवाभिप्रजातयोः
मूलम् - 13
13 न त्वेवाभिप्रजातयोः
विश्वास-प्रस्तुतिः - 14
14 कन्यादोषं औपशायिकं अनाख्याय प्रयच्छतः कन्यां षण्ँअवतिर्दण्डः, शुल्कस्त्रीधनप्रतिदानं च
मूलम् - 14
14 कन्यादोषं औपशायिकं अनाख्याय प्रयच्छतः कन्यां षण्ँअवतिर्दण्डः, शुल्कस्त्रीधनप्रतिदानं च
विश्वास-प्रस्तुतिः - 15
15 वरयितुर्वा वरदोषं अनाख्याय विन्दतो द्विगुणः, शुल्कस्त्रीधननाशश्च
मूलम् - 15
15 वरयितुर्वा वरदोषं अनाख्याय विन्दतो द्विगुणः, शुल्कस्त्रीधननाशश्च
विश्वास-प्रस्तुतिः - 16
16 द्विपदचतुष्पदानां तु कुण्ठव्याधिताशुचीनां उत्साहस्वास्थ्यशुचीनां आख्याने द्वादशपणो दण्डः
मूलम् - 16
16 द्विपदचतुष्पदानां तु कुण्ठव्याधिताशुचीनां उत्साहस्वास्थ्यशुचीनां आख्याने द्वादशपणो दण्डः
विश्वास-प्रस्तुतिः - 17
17 आत्रिपक्षाद् इति चतुष्पदानां उपावर्तनं, आसंवत्सराद् इति मनुष्याणाम्
मूलम् - 17
17 आत्रिपक्षाद् इति चतुष्पदानां उपावर्तनं, आसंवत्सराद् इति मनुष्याणाम्
विश्वास-प्रस्तुतिः - 18
18 तावता हि कालेन शक्यं शौचाशौचे ज्ञातुम्
मूलम् - 18
18 तावता हि कालेन शक्यं शौचाशौचे ज्ञातुम्
विश्वास-प्रस्तुतिः - 19
19ab दाता प्रतिग्रहीता च स्यातां न उपहतौ यथा ।
19chd दाने क्रये वाऽनुशयं तथा कुर्युः सभासदः (इति)
मूलम् - 19