Duties of servants
Undertaking in partnership
विश्वास-प्रस्तुतिः - 01
01 गृहीत्वा वेतनं कर्माकुर्वतो भृतकस्य द्वादशपणो दण्डः, संरोधश्चाकरणात्
मूलम् - 01
01 गृहीत्वा वेतनं कर्माकुर्वतो भृतकस्य द्वादशपणो दण्डः, संरोधश्चाकरणात्
विश्वास-प्रस्तुतिः - 02
02 अशक्तः कुत्सिते कर्मणि व्याधौ व्यसने वाऽनुशयं लभेत, परेण वा कारयितुम्
मूलम् - 02
02 अशक्तः कुत्सिते कर्मणि व्याधौ व्यसने वाऽनुशयं लभेत, परेण वा कारयितुम्
विश्वास-प्रस्तुतिः - 03
03 तस्यव्ययकर्मणा लभेत भर्ता वा कारयितुम्
मूलम् - 03
03 तस्यव्ययकर्मणा लभेत भर्ता वा कारयितुम्
विश्वास-प्रस्तुतिः - 04
04 नान्यः त्वया कारयितव्यो, मया वा नान्यस्य कर्तव्यम् इत्यवरोधे भर्तुरकारयतो भृतकस्याकुर्वतो वा द्वादशपणो दण्डः
मूलम् - 04

विश्वास-प्रस्तुतिः - 05
05 कर्मनिष्ठापने भर्तुरन्यत्र गृहीतवेतनो नासकामः कुर्यात्
मूलम् - 05
05 कर्मनिष्ठापने भर्तुरन्यत्र गृहीतवेतनो नासकामः कुर्यात्
विश्वास-प्रस्तुतिः - 06
06 उपस्थितं अकारयतः कृतं एव विद्याद् इत्याचार्याः
मूलम् - 06
06 उपस्थितं अकारयतः कृतं एव विद्याद् इत्याचार्याः
विश्वास-प्रस्तुतिः - 07
07 न इति कौटिल्यः
मूलम् - 07
07 न इति कौटिल्यः
विश्वास-प्रस्तुतिः - 08
08 कृतस्य वेतनं नाकृतस्यास्ति
मूलम् - 08
08 कृतस्य वेतनं नाकृतस्यास्ति
विश्वास-प्रस्तुतिः - 09
09 स चेद् अल्पं अपि कारयित्वा न कारयेत् कृतं एवास्य विद्यात्
मूलम् - 09
09 स चेद् अल्पं अपि कारयित्वा न कारयेत् कृतं एवास्य विद्यात्
विश्वास-प्रस्तुतिः - 10
10 देशकालातिपातनेन कर्मणां अन्यथाकरणे वा नासकामः कृतं अनुमन्येत
मूलम् - 10
10 देशकालातिपातनेन कर्मणां अन्यथाकरणे वा नासकामः कृतं अनुमन्येत
विश्वास-प्रस्तुतिः - 11
11 सम्भाषिताद् अधिकक्रियायां प्रयासं न मोघं कुर्यात्
मूलम् - 11
11 सम्भाषिताद् अधिकक्रियायां प्रयासं न मोघं कुर्यात्
विश्वास-प्रस्तुतिः - 12
12 तेन सङ्घभृता व्याख्याताः
मूलम् - 12
12 तेन सङ्घभृता व्याख्याताः
विश्वास-प्रस्तुतिः - 13
13 तेषां आधिः सप्तरात्रं आसीत
मूलम् - 13
13 तेषां आधिः सप्तरात्रं आसीत
विश्वास-प्रस्तुतिः - 14
14 ततोऽन्यं उपस्थापयेत्, कर्मनिष्पाकं च
मूलम् - 14
14 ततोऽन्यं उपस्थापयेत्, कर्मनिष्पाकं च
विश्वास-प्रस्तुतिः - 15
15 न चानिवेद्य भर्तुः सङ्घः कञ्चित् परिहरेद् उपनयेद् वा
मूलम् - 15
15 न चानिवेद्य भर्तुः सङ्घः कञ्चित् परिहरेद् उपनयेद् वा
विश्वास-प्रस्तुतिः - 16
16 तस्यातिक्रमे चतुर्विंशतिपणो दण्डः
मूलम् - 16
16 तस्यातिक्रमे चतुर्विंशतिपणो दण्डः
विश्वास-प्रस्तुतिः - 17
17 सङ्घेन परिहृतस्यार्धदण्डः इति भृतकाधिकारः ॥
मूलम् - 17
17 सङ्घेन परिहृतस्यार्धदण्डः इति भृतकाधिकारः ॥
विश्वास-प्रस्तुतिः - 18
18 सङ्घभृताः सम्भूयसमुत्थातारो वा यथासम्भाषितं वेतनं समं वा विभजेरन्
मूलम् - 18
18 सङ्घभृताः सम्भूयसमुत्थातारो वा यथासम्भाषितं वेतनं समं वा विभजेरन्
विश्वास-प्रस्तुतिः - 19
19 कर्षणवैदेहका वा सस्यपण्यारम्भपर्यवसानान्तरे सन्नस्य यथाकृतस्य कर्मणः प्रत्यंशं दद्युः
मूलम् - 19
19 कर्षणवैदेहका वा सस्यपण्यारम्भपर्यवसानान्तरे सन्नस्य यथाकृतस्य कर्मणः प्रत्यंशं दद्युः
विश्वास-प्रस्तुतिः - 20
20 पुरुष उपस्थाने समग्रं अंशं दद्युः
मूलम् - 20
20 पुरुष उपस्थाने समग्रं अंशं दद्युः
विश्वास-प्रस्तुतिः - 21
21 संसिद्धे तु उद्धृतपण्ये सन्नस्य तदानीं एव प्रत्यंशं दद्युः
मूलम् - 21
21 संसिद्धे तु उद्धृतपण्ये सन्नस्य तदानीं एव प्रत्यंशं दद्युः
विश्वास-प्रस्तुतिः - 22
22 सामान्या हि पथिसिद्धिश्चासिद्धिश्च
मूलम् - 22
22 सामान्या हि पथिसिद्धिश्चासिद्धिश्च
विश्वास-प्रस्तुतिः - 23
23 प्रक्रान्ते तु कर्मणि स्वस्थस्यापक्रामतो द्वादशपणो दण्डः
मूलम् - 23
23 प्रक्रान्ते तु कर्मणि स्वस्थस्यापक्रामतो द्वादशपणो दण्डः
विश्वास-प्रस्तुतिः - 24
24 न च प्राकाम्यं अपक्रमणे
मूलम् - 24
24 न च प्राकाम्यं अपक्रमणे
विश्वास-प्रस्तुतिः - 25
25 चोरं त्वभयपूर्वं कर्मणः प्रत्यंशेन ग्राहयेद्, दद्यात् प्रत्यंशं अभयं च
मूलम् - 25
25 चोरं त्वभयपूर्वं कर्मणः प्रत्यंशेन ग्राहयेद्, दद्यात् प्रत्यंशं अभयं च
विश्वास-प्रस्तुतिः - 26
26 पुनःस्तेये प्रवासनं, अन्यत्रगमने च
मूलम् - 26
26 पुनःस्तेये प्रवासनं, अन्यत्रगमने च
विश्वास-प्रस्तुतिः - 27
27 महाऽपराधे तु दूष्यवद् आचरेत्
मूलम् - 27
27 महाऽपराधे तु दूष्यवद् आचरेत्
विश्वास-प्रस्तुतिः - 28
28 याजकाः स्वाप्रचारद्रव्यवर्जं यथासम्भाषितं वेतनं समं वा विभजेरन्
मूलम् - 28
28 याजकाः स्वाप्रचारद्रव्यवर्जं यथासम्भाषितं वेतनं समं वा विभजेरन्
विश्वास-प्रस्तुतिः - 29
29 अग्निष्टोमादिषु च क्रतुषु दीक्षणाद् ऊर्ध्वं तृतीयं अंशं, मध्यम उपसद ऊर्ध्वं अर्धं अंशं, सुत्ये प्रातःसवनाद् ऊर्ध्वं पाद ऊनं अंशम्
मूलम् - 29

विश्वास-प्रस्तुतिः - 30
30 माध्यन्दिनात् सवनाद् ऊर्ध्वं समग्रं अंशं लभेत
मूलम् - 30
30 माध्यन्दिनात् सवनाद् ऊर्ध्वं समग्रं अंशं लभेत
विश्वास-प्रस्तुतिः - 31
31 नीता हि दक्षिणा भवन्ति
मूलम् - 31
31 नीता हि दक्षिणा भवन्ति
विश्वास-प्रस्तुतिः - 32
32 बृहस्पतिसववर्जं प्रतिसवनं हि दक्षिणा दीयन्ते
मूलम् - 32
32 बृहस्पतिसववर्जं प्रतिसवनं हि दक्षिणा दीयन्ते
विश्वास-प्रस्तुतिः - 33
33 तेनाहर्गणदक्षिणा व्याख्याताः
मूलम् - 33
33 तेनाहर्गणदक्षिणा व्याख्याताः
विश्वास-प्रस्तुतिः - 34
34 सनानां आदशाहोरात्रात्शेषभृताः कर्म कुर्युः, अन्ये वा स्वप्रत्ययाः
मूलम् - 34
34 सनानां आदशाहोरात्रात्शेषभृताः कर्म कुर्युः, अन्ये वा स्वप्रत्ययाः
विश्वास-प्रस्तुतिः - 35
35 कर्मण्यसमाप्ते तु यजमानः सीदेद्, ऋत्विजः कर्म समापय्य दक्षिणां हरेयुः
मूलम् - 35
35 कर्मण्यसमाप्ते तु यजमानः सीदेद्, ऋत्विजः कर्म समापय्य दक्षिणां हरेयुः
विश्वास-प्रस्तुतिः - 36
36 असमाप्ते तु कर्मणि याज्यं याजकं वा त्यजतः पूर्वः साहसदण्डः
मूलम् - 36
36 असमाप्ते तु कर्मणि याज्यं याजकं वा त्यजतः पूर्वः साहसदण्डः
विश्वास-प्रस्तुतिः - 37
37ab अनाहिताग्निः शतगुरुयज्वा च सहस्रगुः ।
37chd सुरापो वृषलीभर्ता ब्रह्महा गुरुतल्पगः
मूलम् - 37
37ab अनाहिताग्निः शतगुरुयज्वा च सहस्रगुः ।
37chd सुरापो वृषलीभर्ता ब्रह्महा गुरुतल्पगः
विश्वास-प्रस्तुतिः - 38
38ab असत्प्रतिग्रहे युक्तः स्तेनः कुत्सितयाजकः ।
38chd अदोषः त्यक्तुं अन्योन्यं कर्मसङ्करनिश्चयात् (इति)
मूलम् - 38