Law concerning slaves and labourers
विश्वास-प्रस्तुतिः - 01
01 उदरदासवर्जं आर्यप्राणं अप्राप्तव्यवहारं शूद्रं विक्रयाधानं नयतः स्वजनस्य द्वादशपणो दण्डः, वैश्यं द्विगुणः, क्षत्रियं त्रिगुणः, ब्राह्मणं चतुर्गुणः
मूलम् - 01

विश्वास-प्रस्तुतिः - 02
02 परजनस्य पूर्वमध्यम उत्तमवधा दण्डाः, क्रेतृश्रोतॄणां च
मूलम् - 02
02 परजनस्य पूर्वमध्यम उत्तमवधा दण्डाः, क्रेतृश्रोतॄणां च
विश्वास-प्रस्तुतिः - 03
03 म्लेच्छानां अदोषः प्रजां विक्रेतुं आधातुं वा
मूलम् - 03
03 म्लेच्छानां अदोषः प्रजां विक्रेतुं आधातुं वा
विश्वास-प्रस्तुतिः - 04
04 न त्वेवार्यस्य दासभावः
मूलम् - 04
04 न त्वेवार्यस्य दासभावः
विश्वास-प्रस्तुतिः - 05
05 अथवाऽऽर्यं आधाय कुलबन्धन आर्याणां आपदि, निष्क्रयं चाधिगम्य बालं साहाय्यदातारं वा पूर्वं निष्क्रीणीरन्
मूलम् - 05

विश्वास-प्रस्तुतिः - 06
06 सकृद्।आत्माधाता निष्पतितः सीदेत्, द्विरन्येनाहितकः, सकृद् उभौ परविषयाभिमुखौ
मूलम् - 06
06 सकृद्।आत्माधाता निष्पतितः सीदेत्, द्विरन्येनाहितकः, सकृद् उभौ परविषयाभिमुखौ
विश्वास-प्रस्तुतिः - 07
07 वित्तापहारिणो वा दासस्यार्यभावं अपहरतोऽर्धदण्डः
मूलम् - 07
07 वित्तापहारिणो वा दासस्यार्यभावं अपहरतोऽर्धदण्डः
विश्वास-प्रस्तुतिः - 08
08 निष्पतितप्रेतव्यसनिनां आधाता मूल्यं भजेत
मूलम् - 08
08 निष्पतितप्रेतव्यसनिनां आधाता मूल्यं भजेत
विश्वास-प्रस्तुतिः - 09
09 प्रेतविण्मूत्र उच्छिष्टग्राहणं आहितस्य नग्नस्नापनं दण्डप्रेषणं अतिक्रमणं च स्त्रीणां मूल्यनाशकरं, धात्रीपरिचारिकार्धसीतिक उपचारिकाणां च मोक्षकरम्
मूलम् - 09

विश्वास-प्रस्तुतिः - 10
10 सिद्धं उपचारकस्याभिप्रजातस्यापक्रमणम्
मूलम् - 10
10 सिद्धं उपचारकस्याभिप्रजातस्यापक्रमणम्
विश्वास-प्रस्तुतिः - 11
11 धात्रीं आहितिकां वाऽकामां स्ववशां गच्छतः पूर्वः साहसदण्डः, परवशां मध्यमः
मूलम् - 11
11 धात्रीं आहितिकां वाऽकामां स्ववशां गच्छतः पूर्वः साहसदण्डः, परवशां मध्यमः
विश्वास-प्रस्तुतिः - 12
12 कन्यां आहितिकां वा स्वयं अन्येन वा दुषयतो मूल्यनाशः शुल्कं तद्द्वुगुणश्च दण्डः
मूलम् - 12
12 कन्यां आहितिकां वा स्वयं अन्येन वा दुषयतो मूल्यनाशः शुल्कं तद्द्वुगुणश्च दण्डः
विश्वास-प्रस्तुतिः - 13
13 आत्मविक्रयिणः प्रजां आर्यां विद्यात्
मूलम् - 13
13 आत्मविक्रयिणः प्रजां आर्यां विद्यात्
विश्वास-प्रस्तुतिः - 14
14 आत्माधिगतं स्वामिकर्माविरुद्धं लभेत, पित्र्यं च दायम्
मूलम् - 14
14 आत्माधिगतं स्वामिकर्माविरुद्धं लभेत, पित्र्यं च दायम्
विश्वास-प्रस्तुतिः - 15
15 मूल्येन चार्यत्वं गच्छेत्
मूलम् - 15
15 मूल्येन चार्यत्वं गच्छेत्
विश्वास-प्रस्तुतिः - 16
16 तेन उदरदासाहितकौ व्याख्यातौ
मूलम् - 16
16 तेन उदरदासाहितकौ व्याख्यातौ
विश्वास-प्रस्तुतिः - 17
17 प्रक्षेपानुरूपश्चास्य निष्क्रयः
मूलम् - 17
17 प्रक्षेपानुरूपश्चास्य निष्क्रयः
विश्वास-प्रस्तुतिः - 18
18 दण्डप्रणीतः कर्मणा दण्डं उपनयेत्
मूलम् - 18
18 दण्डप्रणीतः कर्मणा दण्डं उपनयेत्
विश्वास-प्रस्तुतिः - 19
19 आर्यप्राणो ध्वजाहृतः कर्मकालानुरूपेण मूल्यार्धेन वा विमुच्येत
मूलम् - 19
19 आर्यप्राणो ध्वजाहृतः कर्मकालानुरूपेण मूल्यार्धेन वा विमुच्येत
विश्वास-प्रस्तुतिः - 20
20 गृहेजातदायागतलब्धक्रीतानां अन्यतमं दासं ऊनाष्टवर्षं विबन्धुं अकामं नीचे कर्मणि विदेशे दासीं वा सगर्भां अप्रतिविहितगर्भभर्मण्यां विक्रयाधानं नयतः पूर्वः साहसदण्डः, क्रेतृश्रोतॄणां च
मूलम् - 20

विश्वास-प्रस्तुतिः - 21
21 दासं अनुरूपेण निष्क्रयेणार्यं अकुर्वतो द्वादशपणो दण्डः, संरोधश्चाकरणात्
मूलम् - 21
21 दासं अनुरूपेण निष्क्रयेणार्यं अकुर्वतो द्वादशपणो दण्डः, संरोधश्चाकरणात्
विश्वास-प्रस्तुतिः - 22
22 दासद्रव्यस्य ज्ञातयो दायादाः, तेषां अभावे स्वामी
मूलम् - 22
22 दासद्रव्यस्य ज्ञातयो दायादाः, तेषां अभावे स्वामी
विश्वास-प्रस्तुतिः - 23
23 स्वामिनः स्वस्यां दास्यां जातं समातृकं अदासं विद्यात्
मूलम् - 23
23 स्वामिनः स्वस्यां दास्यां जातं समातृकं अदासं विद्यात्
विश्वास-प्रस्तुतिः - 24
24 गृह्या चेत् कुटुम्बार्थचिन्तनी माता भ्राता भगिनी चास्या अदासाः स्युः
मूलम् - 24
24 गृह्या चेत् कुटुम्बार्थचिन्तनी माता भ्राता भगिनी चास्या अदासाः स्युः
विश्वास-प्रस्तुतिः - 25
25 दासं दासीं वा निष्क्रीय पुनर्विक्रयाधानं नयतो द्वादशपणो दण्डः, अन्यत्र स्वयंवादिभ्यः इति दासकल्पः ।
मूलम् - 25

विश्वास-प्रस्तुतिः - 26
26 कर्मकरस्य कर्मसम्बन्धं आसन्ना विद्युः
मूलम् - 26
26 कर्मकरस्य कर्मसम्बन्धं आसन्ना विद्युः
विश्वास-प्रस्तुतिः - 27
27 यथासम्भाषितं वेतनं लभेत, कर्मकालानुरूपं असम्भाषितवेतनः
मूलम् - 27
27 यथासम्भाषितं वेतनं लभेत, कर्मकालानुरूपं असम्भाषितवेतनः
विश्वास-प्रस्तुतिः - 28
28 कर्षकः सस्यानां गोपालकः सर्पिषां वैदेहकः पण्यानां आत्मना व्यवहृतानां दशभागं असम्भाषितवेतनो लभेत
मूलम् - 28
28 कर्षकः सस्यानां गोपालकः सर्पिषां वैदेहकः पण्यानां आत्मना व्यवहृतानां दशभागं असम्भाषितवेतनो लभेत
विश्वास-प्रस्तुतिः - 29
29 सम्भाषितवेतनः तु यथासम्भाषितम्
मूलम् - 29
29 सम्भाषितवेतनः तु यथासम्भाषितम्
विश्वास-प्रस्तुतिः - 30
30 कारुशिल्पिकुशीलवचिकित्सकवाग्जीवनपरिचारकादिराशाकारिकवर्गः तु यथाऽन्यः तद्विधः कुर्याद् यथा वा कुशलाः कल्पयेयुः तथा वेतनं लभेत
मूलम् - 30

विश्वास-प्रस्तुतिः - 31
31 साक्षिप्रत्ययं एव स्यात्
मूलम् - 31
31 साक्षिप्रत्ययं एव स्यात्
विश्वास-प्रस्तुतिः - 32
32 साक्षिणां अभावे यतः कर्म ततोऽनुयुञ्जीत
मूलम् - 32
32 साक्षिणां अभावे यतः कर्म ततोऽनुयुञ्जीत
विश्वास-प्रस्तुतिः - 33
33 वेतनादाने दशबन्धो दण्डः, षट्पणो वा
मूलम् - 33
33 वेतनादाने दशबन्धो दण्डः, षट्पणो वा
विश्वास-प्रस्तुतिः - 34
34 अपव्ययमाने द्वादशपणो दण्डः, पञ्चबन्धो वा
मूलम् - 34
34 अपव्ययमाने द्वादशपणो दण्डः, पञ्चबन्धो वा
विश्वास-प्रस्तुतिः - 35
35 नदीवेगज्वालास्तेनव्याल उपरुद्धः सर्वस्वपुत्रदारात्मदानेनार्तः त्रातारं आहूय निष्तीर्णः कुशलप्रदिष्टं वेतनं दद्यात्
मूलम् - 35

विश्वास-प्रस्तुतिः - 36
36 तेन सर्वत्रार्तदानानुशया व्याख्याताः
मूलम् - 36
36 तेन सर्वत्रार्तदानानुशया व्याख्याताः
विश्वास-प्रस्तुतिः - 37
37ab लभेत पुंश्चली भोगं सङ्गमस्य उपलिङ्गनात् ।
37chd अतियाच्ना तु जीयेत दौर्मत्याविनयेन वा (इति)
मूलम् - 37