१२

Deposits

विश्वास-प्रस्तुतिः - 01

01 उपनिधिरृणेन व्याख्यातः

मूलम् - 01

01 उपनिधिरृणेन व्याख्यातः

विश्वास-प्रस्तुतिः - 02

02 परचक्राटविकाभ्यां दुर्गराष्ट्रविलोपे वा, प्रतिरोधकैर्वा ग्रामसार्थव्रजविलोपे, चक्रयुक्तनाशे वा, ग्राममध्याग्न्य्।उदकाबाधे ज्वालावेग उपरुद्धे वा, नावि निमग्नायां मुषितायां वा स्वयं उपरूढो न उपनिधिं अभ्यावहेत्

मूलम् - 02

विश्वास-प्रस्तुतिः - 03

03 उपनिधिभोक्ता देशकालानुरूपं भोगवेतनं दद्यात्, द्वादशपणं च दण्डम्

मूलम् - 03

03 उपनिधिभोक्ता देशकालानुरूपं भोगवेतनं दद्यात्, द्वादशपणं च दण्डम्

विश्वास-प्रस्तुतिः - 04

04 उपभोगनिमित्तं नष्टं विनष्टं वाऽभ्यावहेत्, चतुर्विंशतिपणश्च दण्डः, अन्यथा वा निष्पतने

मूलम् - 04

04 उपभोगनिमित्तं नष्टं विनष्टं वाऽभ्यावहेत्, चतुर्विंशतिपणश्च दण्डः, अन्यथा वा निष्पतने

विश्वास-प्रस्तुतिः - 05

05 प्रेतं व्यसनगतं वा न उपनिधिं अभ्यावहेत्

मूलम् - 05

05 प्रेतं व्यसनगतं वा न उपनिधिं अभ्यावहेत्

विश्वास-प्रस्तुतिः - 06

06 आधानविक्रयापव्ययनेषु चास्य चतुर्गुणपञ्चबन्धो दण्डः

मूलम् - 06

06 आधानविक्रयापव्ययनेषु चास्य चतुर्गुणपञ्चबन्धो दण्डः

विश्वास-प्रस्तुतिः - 07

07 परिवर्तने निष्पातने वा मूल्यसमः

मूलम् - 07

07 परिवर्तने निष्पातने वा मूल्यसमः

विश्वास-प्रस्तुतिः - 08

08 तेनाधिप्रणाश उपभोगविक्रयाधानापहारा व्याख्याताः

मूलम् - 08

08 तेनाधिप्रणाश उपभोगविक्रयाधानापहारा व्याख्याताः

विश्वास-प्रस्तुतिः - 09

09 नाधिः स-उपकारः सीदेत्, न चास्य मूल्यं वर्धेत, अन्यत्र निसर्गात्

मूलम् - 09

09 नाधिः स-उपकारः सीदेत्, न चास्य मूल्यं वर्धेत, अन्यत्र निसर्गात्

विश्वास-प्रस्तुतिः - 10

10 निरुपकारः सीदेत्, मूल्यं चास्य वर्धेत

मूलम् - 10

10 निरुपकारः सीदेत्, मूल्यं चास्य वर्धेत

विश्वास-प्रस्तुतिः - 11

11 उपस्थितस्याधिं अप्रयच्छतो द्वादशण्पणो दण्डः

मूलम् - 11

11 उपस्थितस्याधिं अप्रयच्छतो द्वादशण्पणो दण्डः

विश्वास-प्रस्तुतिः - 12

12 प्रयोजकासम्निधाने वा ग्रामवृद्धेषु स्थापयित्वा निष्क्रयं आधिं प्रतिपद्येत

मूलम् - 12

12 प्रयोजकासम्निधाने वा ग्रामवृद्धेषु स्थापयित्वा निष्क्रयं आधिं प्रतिपद्येत

विश्वास-प्रस्तुतिः - 13

13 निवृत्तवृद्धिको वाऽऽधिः तत्कालकृतमूल्यः तत्र एवावतिष्ठेत, अनाशविनाशकरणाधिष्ठितो वा

मूलम् - 13

13 निवृत्तवृद्धिको वाऽऽधिः तत्कालकृतमूल्यः तत्र एवावतिष्ठेत, अनाशविनाशकरणाधिष्ठितो वा

विश्वास-प्रस्तुतिः - 14

14 धारणिकासम्निधाने वा विनाशभयाद् उद्गतार्घं धर्मस्थानुज्ञातो विक्रीणीत, आधिपालप्रत्ययो वा

मूलम् - 14

14 धारणिकासम्निधाने वा विनाशभयाद् उद्गतार्घं धर्मस्थानुज्ञातो विक्रीणीत, आधिपालप्रत्ययो वा

विश्वास-प्रस्तुतिः - 15

15 स्थावरः तु प्रयासभोग्यः फलभोग्यो वा प्रक्षेपवृद्धिमूल्यशुद्धं आजीवं अमूल्यक्षयेण उपनयेत्

मूलम् - 15

15 स्थावरः तु प्रयासभोग्यः फलभोग्यो वा प्रक्षेपवृद्धिमूल्यशुद्धं आजीवं अमूल्यक्षयेण उपनयेत्

विश्वास-प्रस्तुतिः - 16

16 अनिसृष्ट उपभोक्ता मूल्यशुद्धं आजीवं बन्धं च दद्यात्

मूलम् - 16

16 अनिसृष्ट उपभोक्ता मूल्यशुद्धं आजीवं बन्धं च दद्यात्

विश्वास-प्रस्तुतिः - 17

17 शेषं उपनिधिना व्याख्यातम्

मूलम् - 17

17 शेषं उपनिधिना व्याख्यातम्

विश्वास-प्रस्तुतिः - 18

18 एतेनादेशोऽन्वाधिश्च व्याख्यातौ

मूलम् - 18

18 एतेनादेशोऽन्वाधिश्च व्याख्यातौ

विश्वास-प्रस्तुतिः - 19

19 सार्थेनान्वाधिहस्तो वा प्रदिष्टां भूमिं अप्राप्तश्चोरैर्भग्न उत्सृष्टो वा नान्वाधिं अभ्यावहेत्

मूलम् - 19

19 सार्थेनान्वाधिहस्तो वा प्रदिष्टां भूमिं अप्राप्तश्चोरैर्भग्न उत्सृष्टो वा नान्वाधिं अभ्यावहेत्

विश्वास-प्रस्तुतिः - 20

20 अन्तरे वा मृतस्य दायादोऽपि नाभ्यावहेत्

मूलम् - 20

20 अन्तरे वा मृतस्य दायादोऽपि नाभ्यावहेत्

विश्वास-प्रस्तुतिः - 21

21 शेषं उपनिधिना व्यकह्यातम्

मूलम् - 21

21 शेषं उपनिधिना व्यकह्यातम्

विश्वास-प्रस्तुतिः - 22

22 याचितकं अवक्रीतकं वा यथाविधं गृह्णीयुः तथाविधं एवार्पयेयुः

मूलम् - 22

22 याचितकं अवक्रीतकं वा यथाविधं गृह्णीयुः तथाविधं एवार्पयेयुः

विश्वास-प्रस्तुतिः - 23

23 भ्रेष उपनिपाताभ्यां देशकाल उपरोधि दत्तं नष्टं विनष्टं वा नाभ्यावहेयुः

मूलम् - 23

23 भ्रेष उपनिपाताभ्यां देशकाल उपरोधि दत्तं नष्टं विनष्टं वा नाभ्यावहेयुः

विश्वास-प्रस्तुतिः - 24

24 शेषं उपनिधिना व्याख्यातम्

मूलम् - 24

24 शेषं उपनिधिना व्याख्यातम्

विश्वास-प्रस्तुतिः - 25

25 वैयावृत्यविक्रयः तु - वैयावृत्यकरा यथादेशकालं विक्रीणानाः पण्यं यथाजातं मूल्यं उदयं च दद्युः

मूलम् - 25

25 वैयावृत्यविक्रयः तु - वैयावृत्यकरा यथादेशकालं विक्रीणानाः पण्यं यथाजातं मूल्यं उदयं च दद्युः

विश्वास-प्रस्तुतिः - 26

26 देशकालातिपातने वा परिहीणं सम्प्रदानकालिकेनार्घेण मूल्यं उदयं च दद्युः

मूलम् - 26

26 देशकालातिपातने वा परिहीणं सम्प्रदानकालिकेनार्घेण मूल्यं उदयं च दद्युः

विश्वास-प्रस्तुतिः - 27

27 यथासम्भाषितं वा विक्रीणाना न उदयं अधिगच्छेयुः, मूल्यं एव दद्युः

मूलम् - 27

27 यथासम्भाषितं वा विक्रीणाना न उदयं अधिगच्छेयुः, मूल्यं एव दद्युः

विश्वास-प्रस्तुतिः - 28

28 अर्घपतने वा परिहीणं यथापरिहीणं मूल्यं ऊनं दद्युः

मूलम् - 28

28 अर्घपतने वा परिहीणं यथापरिहीणं मूल्यं ऊनं दद्युः

विश्वास-प्रस्तुतिः - 29

29 सांव्यवहारिकेषु वा प्रात्ययिकेष्वराजवाच्येषु भ्रेष उपनिपाताभ्यां नष्टं विनष्टं वा मूल्यं अपि न दद्युः

मूलम् - 29

विश्वास-प्रस्तुतिः - 30

30 देशकालान्तरितानां तु पण्यानां क्षयव्ययविशुद्धं मूल्यं उदयं च दद्युः, पण्यसमवायानां च प्रत्यंशम्

मूलम् - 30

30 देशकालान्तरितानां तु पण्यानां क्षयव्ययविशुद्धं मूल्यं उदयं च दद्युः, पण्यसमवायानां च प्रत्यंशम्

विश्वास-प्रस्तुतिः - 31

31 शेषं उपनिधिना व्याख्यातम्

मूलम् - 31

31 शेषं उपनिधिना व्याख्यातम्

विश्वास-प्रस्तुतिः - 32

32 एतेन वैयावृत्यविक्रयो व्याख्यातः

मूलम् - 32

32 एतेन वैयावृत्यविक्रयो व्याख्यातः

विश्वास-प्रस्तुतिः - 33

33 निक्षेपश्च उपनिधिना

मूलम् - 33

33 निक्षेपश्च उपनिधिना

विश्वास-प्रस्तुतिः - 34

34 तं अन्येन निक्ष्पितं अन्यस्यार्पयतो हीयेत

मूलम् - 34

34 तं अन्येन निक्ष्पितं अन्यस्यार्पयतो हीयेत

विश्वास-प्रस्तुतिः - 35

35 निक्षेपापहारे पूर्वापदानं निक्षेप्तारश्च प्रमाणम्

मूलम् - 35

35 निक्षेपापहारे पूर्वापदानं निक्षेप्तारश्च प्रमाणम्

विश्वास-प्रस्तुतिः - 36

36 अशुचयो हि कारवः

मूलम् - 36

36 अशुचयो हि कारवः

विश्वास-प्रस्तुतिः - 37

37 न एषां करणपूर्वो निक्षेपधर्मः

मूलम् - 37

37 न एषां करणपूर्वो निक्षेपधर्मः

विश्वास-प्रस्तुतिः - 38

38 करणहीनं निक्षेपं अपव्ययमानं गूढभित्तिन्यस्तान् साक्षिणो निक्षेप्ता रहसि प्रणिपातेन प्रज्ञापयेत्, वनान्ते वा मद्यप्रहवणविश्वासेन

मूलम् - 38

विश्वास-प्रस्तुतिः - 39

39 रहसि वृद्धो व्याधितो वा वैदेहकः कश्चित् कृतलक्षणं द्रव्यं अस्य हस्ते निक्षिप्यापगच्छेत्

मूलम् - 39

39 रहसि वृद्धो व्याधितो वा वैदेहकः कश्चित् कृतलक्षणं द्रव्यं अस्य हस्ते निक्षिप्यापगच्छेत्

विश्वास-प्रस्तुतिः - 40

40 तस्य प्रतिदेशेन पुत्रो भ्राता वाऽभिगम्य निक्षेपं याचेत

मूलम् - 40

40 तस्य प्रतिदेशेन पुत्रो भ्राता वाऽभिगम्य निक्षेपं याचेत

विश्वास-प्रस्तुतिः - 41

41 दाने शुचिः, अन्यथा निक्षेपं स्तेयदण्डं च दद्यात्

मूलम् - 41

41 दाने शुचिः, अन्यथा निक्षेपं स्तेयदण्डं च दद्यात्

विश्वास-प्रस्तुतिः - 42

42 प्रव्रज्याऽभिमुखो वा श्रद्धेयः कश्चित् कृतलक्षणं द्रव्यं अस्य हस्ते निक्षिप्य प्रतिष्ठेत

मूलम् - 42

42 प्रव्रज्याऽभिमुखो वा श्रद्धेयः कश्चित् कृतलक्षणं द्रव्यं अस्य हस्ते निक्षिप्य प्रतिष्ठेत

विश्वास-प्रस्तुतिः - 43

43 ततः कालान्तरागतो याचेत

मूलम् - 43

43 ततः कालान्तरागतो याचेत

विश्वास-प्रस्तुतिः - 44

44 दाने शुचिः, अन्यथा निक्षेपं स्तेयदण्डं च दद्यात्

मूलम् - 44

44 दाने शुचिः, अन्यथा निक्षेपं स्तेयदण्डं च दद्यात्

विश्वास-प्रस्तुतिः - 45

45 कृतलक्षणेन वा द्रव्येण प्रत्यानयेद् एनम्

मूलम् - 45

45 कृतलक्षणेन वा द्रव्येण प्रत्यानयेद् एनम्

विश्वास-प्रस्तुतिः - 46

46 बालिशजातीयो वा रात्रौ राजदायिकाक्षणभीतः सारं अस्य हस्ते निक्षिप्यापगच्छेत्

मूलम् - 46

46 बालिशजातीयो वा रात्रौ राजदायिकाक्षणभीतः सारं अस्य हस्ते निक्षिप्यापगच्छेत्

विश्वास-प्रस्तुतिः - 47

47 स एनं बन्धनागारगतो याचेत

मूलम् - 47

47 स एनं बन्धनागारगतो याचेत

विश्वास-प्रस्तुतिः - 48

48 दाने शुचिः, अन्यथा निक्षेपं स्तेयदण्डं च दद्यात्

मूलम् - 48

48 दाने शुचिः, अन्यथा निक्षेपं स्तेयदण्डं च दद्यात्

विश्वास-प्रस्तुतिः - 49

49 अभिज्ञानेन चास्य गृहे जनं उभयं याचेत

मूलम् - 49

49 अभिज्ञानेन चास्य गृहे जनं उभयं याचेत

विश्वास-प्रस्तुतिः - 50

50 अन्यतर्तादाने यथा उक्तं पुरस्तात्

मूलम् - 50

50 अन्यतर्तादाने यथा उक्तं पुरस्तात्

विश्वास-प्रस्तुतिः - 51

51 द्रव्यभोगानां आगमं चास्यानुयुञ्जीत, तस्य चार्थस्य व्यवहार उपलिङ्गनं, अभियोक्तुश्चार्थसामर्थ्यम्

मूलम् - 51

51 द्रव्यभोगानां आगमं चास्यानुयुञ्जीत, तस्य चार्थस्य व्यवहार उपलिङ्गनं, अभियोक्तुश्चार्थसामर्थ्यम्

विश्वास-प्रस्तुतिः - 52

52 एतेन मिथःसमवायो व्याख्यातः

मूलम् - 52

52 एतेन मिथःसमवायो व्याख्यातः

विश्वास-प्रस्तुतिः - 53

53ab तस्मात् साक्षिमद् अच्छन्नं कुर्यात् सम्यग्विभाषितम् ।
53chd स्वे परे वा जने कार्यं देशकालाग्रवर्णतः (इति)

मूलम् - 53