Non-payment of debts
विश्वास-प्रस्तुतिः - 01
01 सपादपणा धर्म्या मासवृद्धिः पणशतस्य, पञ्चपणा व्यावहारिकी, दशपणा कान्तारगाणां, विंशतिपणा सामुद्राणाम्
मूलम् - 01

विश्वास-प्रस्तुतिः - 02
02 ततः परं कर्तुः कारयितुश्च पूर्वः साहसदण्डः, श्रोतॄणां एक एकं प्रत्यर्धदण्डः
मूलम् - 02
02 ततः परं कर्तुः कारयितुश्च पूर्वः साहसदण्डः, श्रोतॄणां एक एकं प्रत्यर्धदण्डः
विश्वास-प्रस्तुतिः - 03
03 राजन्ययोगक्षेमावहे तु धनिकधारणिकयोश्चरित्रं अवेक्षेत
मूलम् - 03
03 राजन्ययोगक्षेमावहे तु धनिकधारणिकयोश्चरित्रं अवेक्षेत
विश्वास-प्रस्तुतिः - 04
04 धान्यवृद्धिः सस्यनिष्पत्तावुपार्धा, परं मूल्यकृता वर्धेत
मूलम् - 04
04 धान्यवृद्धिः सस्यनिष्पत्तावुपार्धा, परं मूल्यकृता वर्धेत
विश्वास-प्रस्तुतिः - 05
05 प्रक्षेपवृद्धिरुदयाद् अर्धं सम्निधानसन्ना वार्षिकी देया
मूलम् - 05
05 प्रक्षेपवृद्धिरुदयाद् अर्धं सम्निधानसन्ना वार्षिकी देया
विश्वास-प्रस्तुतिः - 06
06 चिरप्रवासः स्तम्भप्रविष्टो वा मूल्यद्विगुणं दद्यात्
मूलम् - 06
06 चिरप्रवासः स्तम्भप्रविष्टो वा मूल्यद्विगुणं दद्यात्
विश्वास-प्रस्तुतिः - 07
07 अकृत्वा वृद्धिं साधयतो वर्धयतो वा, मूल्यं वा वृद्धिं आरोप्य श्रावयतो बन्धचतुर्गुणो दण्डः
मूलम् - 07
07 अकृत्वा वृद्धिं साधयतो वर्धयतो वा, मूल्यं वा वृद्धिं आरोप्य श्रावयतो बन्धचतुर्गुणो दण्डः
विश्वास-प्रस्तुतिः - 08
08 तुच्छश्रावणायां अभूतचतुर्गुणः
मूलम् - 08
08 तुच्छश्रावणायां अभूतचतुर्गुणः
विश्वास-प्रस्तुतिः - 09
09 तस्य त्रिभागं आदाता दद्यात्, शेषं प्रदाता
मूलम् - 09
09 तस्य त्रिभागं आदाता दद्यात्, शेषं प्रदाता
विश्वास-प्रस्तुतिः - 10
10 दीर्घसत्त्रव्याधिगुरुकुल उपरुद्धं बालं असारं वा नऋणं अनुवर्धेत
मूलम् - 10
10 दीर्घसत्त्रव्याधिगुरुकुल उपरुद्धं बालं असारं वा नऋणं अनुवर्धेत
विश्वास-प्रस्तुतिः - 11
11 मुच्यमानं ऋणं अप्रतिगृह्णतो द्वादशपणो दण्डः
मूलम् - 11
11 मुच्यमानं ऋणं अप्रतिगृह्णतो द्वादशपणो दण्डः
विश्वास-प्रस्तुतिः - 12
12 कारणापदेशेन निवृत्तवृद्धिकं अन्यत्र तिष्ठेत्
मूलम् - 12
12 कारणापदेशेन निवृत्तवृद्धिकं अन्यत्र तिष्ठेत्
विश्वास-प्रस्तुतिः - 13
13 दशवर्ष उपेक्षितं ऋणं अप्रतिग्राह्यं, अन्यत्र बालवृद्धव्याधितव्यसनिप्रोषितदेशत्यागराज्यविभ्रमेभ्यः
मूलम् - 13

विश्वास-प्रस्तुतिः - 14
14 प्रेतस्य पुत्राः कुसीदं दद्युः, दायादा वा रिक्थहराः, सहग्राहिणः, प्रतिभुवो वा
मूलम् - 14
14 प्रेतस्य पुत्राः कुसीदं दद्युः, दायादा वा रिक्थहराः, सहग्राहिणः, प्रतिभुवो वा
विश्वास-प्रस्तुतिः - 15
15 न प्रातिभाव्यं अन्यत्
मूलम् - 15
15 न प्रातिभाव्यं अन्यत्
विश्वास-प्रस्तुतिः - 16
16 असारं बालप्रातिभाव्यम्
मूलम् - 16
16 असारं बालप्रातिभाव्यम्
विश्वास-प्रस्तुतिः - 17
17 असङ्ख्यातदेशकालं तु पुत्राः पौत्रा दायादा वा रिक्थं हरमाणा दद्युः
मूलम् - 17
17 असङ्ख्यातदेशकालं तु पुत्राः पौत्रा दायादा वा रिक्थं हरमाणा दद्युः
विश्वास-प्रस्तुतिः - 18
18 जीवितविवाहभूमिप्रातिभाव्यं असङ्ख्यातदेशकालं तु पुत्राः पौत्रा वा वहेयुः
मूलम् - 18
18 जीवितविवाहभूमिप्रातिभाव्यं असङ्ख्यातदेशकालं तु पुत्राः पौत्रा वा वहेयुः
विश्वास-प्रस्तुतिः - 19
19 नानाऋणसमवाये तु न एकं द्वौ युगपद् अभिवदेयातां, अन्यत्र प्रतिष्ठमानात्
मूलम् - 19
19 नानाऋणसमवाये तु न एकं द्वौ युगपद् अभिवदेयातां, अन्यत्र प्रतिष्ठमानात्
विश्वास-प्रस्तुतिः - 20
20 तत्रापि गृहीतानुपूर्व्या राजश्रोत्रियद्रव्यं वा पूर्वं प्रतिपादयेत्
मूलम् - 20
20 तत्रापि गृहीतानुपूर्व्या राजश्रोत्रियद्रव्यं वा पूर्वं प्रतिपादयेत्
विश्वास-प्रस्तुतिः - 21
21 दम्पत्योः पितापुत्रयोः भ्रातॄणां चाविभक्तानां परस्पर।कृतं ऋणं असाध्यम्
मूलम् - 21
21 दम्पत्योः पितापुत्रयोः भ्रातॄणां चाविभक्तानां परस्पर।कृतं ऋणं असाध्यम्
विश्वास-प्रस्तुतिः - 22
22 अग्राह्याः कर्मकालेषु कर्षका राजपुरुषाश्च
मूलम् - 22
22 अग्राह्याः कर्मकालेषु कर्षका राजपुरुषाश्च
विश्वास-प्रस्तुतिः - 23
23 स्त्री चाप्रतिश्राविणी पतिकृतं ऋणं, अन्यत्र गोपालकार्धसीतिकेभ्यः
मूलम् - 23
23 स्त्री चाप्रतिश्राविणी पतिकृतं ऋणं, अन्यत्र गोपालकार्धसीतिकेभ्यः
विश्वास-प्रस्तुतिः - 24
24 पतिः तु ग्राह्यः स्त्रीकृतं ऋणं, अप्रतिविधाय प्रोषित इति
मूलम् - 24
24 पतिः तु ग्राह्यः स्त्रीकृतं ऋणं, अप्रतिविधाय प्रोषित इति
विश्वास-प्रस्तुतिः - 25
25 सम्प्रतिपत्तावुत्तमः
मूलम् - 25
25 सम्प्रतिपत्तावुत्तमः
विश्वास-प्रस्तुतिः - 26
26 अस्मप्रतिपत्तौ तु साक्षिणः प्रमाणं प्रात्ययिकाः शुचयोऽनुमता वा त्रयोऽवरार्ध्याः
मूलम् - 26
26 अस्मप्रतिपत्तौ तु साक्षिणः प्रमाणं प्रात्ययिकाः शुचयोऽनुमता वा त्रयोऽवरार्ध्याः
विश्वास-प्रस्तुतिः - 27
27 पक्षानुमतौ वा द्वौ, ऋणं प्रति न त्वेव एकः
मूलम् - 27
27 पक्षानुमतौ वा द्वौ, ऋणं प्रति न त्वेव एकः
विश्वास-प्रस्तुतिः - 28
28 प्रतिषिद्धाः स्यालसहायान्वर्थिधनिकधारणिकवैरिन्यङ्गधृतदण्डाः, पूर्वे चाव्यवहार्याः
मूलम् - 28
28 प्रतिषिद्धाः स्यालसहायान्वर्थिधनिकधारणिकवैरिन्यङ्गधृतदण्डाः, पूर्वे चाव्यवहार्याः
विश्वास-प्रस्तुतिः - 29
29 राजश्रोत्रियग्रामभृतककुष्ठिव्रणिनः पतितचण्डालकुत्सितकर्माणोऽन्धबधिरमूकाहंवादिनः स्त्रीराजपुरुषाश्च, अन्यत्र स्ववर्गेभ्यः
मूलम् - 29

विश्वास-प्रस्तुतिः - 30
30 पारुष्यस्तेयसङ्ग्रहणेषु तु वैरिस्यालसहायवर्जाः
मूलम् - 30
30 पारुष्यस्तेयसङ्ग्रहणेषु तु वैरिस्यालसहायवर्जाः
विश्वास-प्रस्तुतिः - 31
31 रहस्यव्यवहारेष्वेका स्त्री पुरुष उपश्रोता उपद्रष्टा वा साक्षी स्याद् राजतापसवर्जम्
मूलम् - 31
31 रहस्यव्यवहारेष्वेका स्त्री पुरुष उपश्रोता उपद्रष्टा वा साक्षी स्याद् राजतापसवर्जम्
विश्वास-प्रस्तुतिः - 32
32 स्वामिनो भृत्यानां ऋत्विग्।आचार्याः शिष्याणां मातापितरौ पुत्राणां चानिग्रहेण साक्ष्यं कुर्युः, तेसां इतरे वा
मूलम् - 32

विश्वास-प्रस्तुतिः - 33
33 परस्पराभियोगे च एषां उत्तमाः परा उक्ता दशबन्धं दद्युः, अवराः पञ्चबन्धम् इति साक्ष्य्ऽधिकारः ॥
मूलम् - 33
33 परस्पराभियोगे च एषां उत्तमाः परा उक्ता दशबन्धं दद्युः, अवराः पञ्चबन्धम् इति साक्ष्य्ऽधिकारः ॥
विश्वास-प्रस्तुतिः - 34
34 ब्राह्मण उदकुम्भाग्निसकाशे साक्षिणः परिगृह्णीयात्
मूलम् - 34
34 ब्राह्मण उदकुम्भाग्निसकाशे साक्षिणः परिगृह्णीयात्
विश्वास-प्रस्तुतिः - 35
35 तत्र ब्राह्मणं ब्रूयात् सत्यं ब्रूहि इति
मूलम् - 35
35 तत्र ब्राह्मणं ब्रूयात् सत्यं ब्रूहि इति
विश्वास-प्रस्तुतिः - 36
36 राजन्यं वैश्यं वा मा तव इष्टापूर्तफलं, कपालहस्तः शत्रुकुलं भिक्षाऽर्थी गच्छेः इति
मूलम् - 36
36 राजन्यं वैश्यं वा मा तव इष्टापूर्तफलं, कपालहस्तः शत्रुकुलं भिक्षाऽर्थी गच्छेः इति
विश्वास-प्रस्तुतिः - 37
37 शूद्रं जन्ममरणान्तरे यद् वः पुण्यफलं तद् राजानं गच्छेद्, राज्ञश्च किल्बिषं युष्मान् अन्यथावादे, दण्डश्चानुबद्धः, पश्चाद् अपि ज्ञायेत यथादृष्टश्रुतं, एकमन्त्राः सत्यं उपहरत इति
मूलम् - 37

विश्वास-प्रस्तुतिः - 38
38 अनुपहरतां सप्तरात्राद् ऊर्ध्वं द्वादशपणो दण्डः, त्रिपक्षाद् ऊर्ध्वं अभियोगं दद्युः
मूलम् - 38
38 अनुपहरतां सप्तरात्राद् ऊर्ध्वं द्वादशपणो दण्डः, त्रिपक्षाद् ऊर्ध्वं अभियोगं दद्युः
विश्वास-प्रस्तुतिः - 39
39 साक्षिभेदे यतो बहवः शुचयोऽनुमता वा ततो नियच्छेयुः, मध्यं वा गृह्णीयुः
मूलम् - 39
39 साक्षिभेदे यतो बहवः शुचयोऽनुमता वा ततो नियच्छेयुः, मध्यं वा गृह्णीयुः
विश्वास-प्रस्तुतिः - 40
40 तद् वा द्रव्यं राजा हरेत्
मूलम् - 40
40 तद् वा द्रव्यं राजा हरेत्
विश्वास-प्रस्तुतिः - 41
41 साक्षिणश्चेद् अभियोगाद् ऊनं ब्रूयुरतिरिक्तस्याभियोक्ता बन्धं दद्यात्
मूलम् - 41
41 साक्षिणश्चेद् अभियोगाद् ऊनं ब्रूयुरतिरिक्तस्याभियोक्ता बन्धं दद्यात्
विश्वास-प्रस्तुतिः - 42
42 अतिरिक्तं वा ब्रूयुः तद्ऽतिरिक्तं राजा हरेत्
मूलम् - 42
42 अतिरिक्तं वा ब्रूयुः तद्ऽतिरिक्तं राजा हरेत्
विश्वास-प्रस्तुतिः - 43
43 बालिश्याद् अभियोक्तुर्वा दुह्श्रुतं दुर्लिखितं प्रेताभिनिवेशं वा समीक्ष्य साक्षिप्रत्ययं एव स्यात्
मूलम् - 43

विश्वास-प्रस्तुतिः - 44
44 साक्षिबालिष्येष्वेव पृथग्ऽनुयोगे देशकालकार्याणां पूर्वमध्यम उत्तमा दण्डाः इत्यौशनसाः
मूलम् - 44
44 साक्षिबालिष्येष्वेव पृथग्ऽनुयोगे देशकालकार्याणां पूर्वमध्यम उत्तमा दण्डाः इत्यौशनसाः
विश्वास-प्रस्तुतिः - 45
45 कूटसाक्षिणो यं अर्थं अभूतं कुर्युर्भूतं वा नाशयेयुः तद् दशगुणं दण्डं दद्युः इति मानवाः
मूलम् - 45
45 कूटसाक्षिणो यं अर्थं अभूतं कुर्युर्भूतं वा नाशयेयुः तद् दशगुणं दण्डं दद्युः इति मानवाः
विश्वास-प्रस्तुतिः - 46
46 बालिश्याद् वा विसंवादयतां चित्रो घातः इति बार्हस्पत्याः
मूलम् - 46
46 बालिश्याद् वा विसंवादयतां चित्रो घातः इति बार्हस्पत्याः
विश्वास-प्रस्तुतिः - 47
47 न इति कौटिल्यः
मूलम् - 47
47 न इति कौटिल्यः
विश्वास-प्रस्तुतिः - 48
48 ध्रुवं हि साक्षिभिः श्रोतव्यम्
मूलम् - 48
48 ध्रुवं हि साक्षिभिः श्रोतव्यम्
विश्वास-प्रस्तुतिः - 49
49 अशृण्वतां चतुर्विंशतिपणो दण्डः, ततोऽर्धं अब्रुवाणानाम्
मूलम् - 49
49 अशृण्वतां चतुर्विंशतिपणो दण्डः, ततोऽर्धं अब्रुवाणानाम्
विश्वास-प्रस्तुतिः - 50
50ab देशकालाविदूरस्थान् साक्षिणः प्रतिपादयेत् ।
50chd दूरस्थान् अप्रसारान् वा स्वामिवाक्येन साधयेत् (इति)
मूलम् - 50