Damage to pastures, fields and roads
विश्वास-प्रस्तुतिः - 01
01 कर्म उदकमार्गं उचितं रुन्धतः कुर्वतोऽनुचितं वा पूर्वः साहसदण्डः, सेतुकूपपुण्यस्थानचैत्यदेवायतनानि च परभूमौ निवेशयतः
मूलम् - 01

विश्वास-प्रस्तुतिः - 02
02 पूर्वानुवृत्तं धर्मसेतुं आधानं विक्रयं वा नयतो नाययतो वा मध्यमः साहसदण्डः, श्रोतॄणां उत्तमः, अन्यत्र भग्न उत्सृष्टात्
मूलम् - 02

विश्वास-प्रस्तुतिः - 03
03 स्वाम्यभावे ग्रामाः पुण्यशीला वा प्रतिकुर्युः
मूलम् - 03
03 स्वाम्यभावे ग्रामाः पुण्यशीला वा प्रतिकुर्युः
विश्वास-प्रस्तुतिः - 04
04 पथिप्रमाणं दुर्गनिवेशे व्याख्यातम्
मूलम् - 04
04 पथिप्रमाणं दुर्गनिवेशे व्याख्यातम्
विश्वास-प्रस्तुतिः - 05
05 क्षुद्रपशुमनुष्यपथं रुन्धतो द्वादशपणो दण्डः, महापशुपथं चतुर्विंशतिपणः, हस्तिक्षेत्रपथं चतुष्पञ्चाशत्पणः, सेतुवनपथं षट्शतः, श्मशानग्रामपथं द्विशतः, द्रोणमुखपथं पञ्चशतः, स्थानीयराष्ट्रविवीतपथं साहस्रः
मूलम् - 05

विश्वास-प्रस्तुतिः - 06
06 अतिकर्षणे च एषां दण्डचतुर्था दण्डाः
मूलम् - 06
06 अतिकर्षणे च एषां दण्डचतुर्था दण्डाः
विश्वास-प्रस्तुतिः - 07
07 कर्षणे पूर्व उक्ताः
मूलम् - 07
07 कर्षणे पूर्व उक्ताः
विश्वास-प्रस्तुतिः - 08
08 क्षेत्रिकस्याक्षिपतः क्षेत्रं उपवासस्य वा त्यजतो बीजकाले द्वादशपणो दण्डः, अन्यत्र दोष उपनिपाताविषह्येभ्यः
मूलम् - 08

विश्वास-प्रस्तुतिः - 09
09 करदाः करदेष्वाधानं विक्रयं वा कुर्युः, ब्रह्मदेयिका ब्रह्मदेयिकेषु
मूलम् - 09
09 करदाः करदेष्वाधानं विक्रयं वा कुर्युः, ब्रह्मदेयिका ब्रह्मदेयिकेषु
विश्वास-प्रस्तुतिः - 10
10 अन्यथा पूर्वः साहसदण्डः
मूलम् - 10
10 अन्यथा पूर्वः साहसदण्डः
विश्वास-प्रस्तुतिः - 11
11 करदस्य वाऽकरदग्रामं प्रविशतः
मूलम् - 11
11 करदस्य वाऽकरदग्रामं प्रविशतः
विश्वास-प्रस्तुतिः - 12
12 करदं तु प्रविशतः सर्वद्रव्येषु प्राकाम्यं स्यात्, अन्यत्रागारात्
मूलम् - 12
12 करदं तु प्रविशतः सर्वद्रव्येषु प्राकाम्यं स्यात्, अन्यत्रागारात्
विश्वास-प्रस्तुतिः - 13
13 तद् अप्यस्मै दद्यात्
मूलम् - 13
13 तद् अप्यस्मै दद्यात्
विश्वास-प्रस्तुतिः - 14
14 अनादेयं अकृषतोऽन्यः पञ्चवर्षाण्युपभुज्य प्रयासनिष्क्रयेण दद्यात्
मूलम् - 14
14 अनादेयं अकृषतोऽन्यः पञ्चवर्षाण्युपभुज्य प्रयासनिष्क्रयेण दद्यात्
विश्वास-प्रस्तुतिः - 15
15 अकरदाः परत्र वसन्तो भोगं उपजीवेयुः
मूलम् - 15
15 अकरदाः परत्र वसन्तो भोगं उपजीवेयुः
विश्वास-प्रस्तुतिः - 16
16 ग्रामार्थेन ग्रामिकं व्रजन्तं उपवासाः पर्यायेणानुगच्छेयुः
मूलम् - 16
16 ग्रामार्थेन ग्रामिकं व्रजन्तं उपवासाः पर्यायेणानुगच्छेयुः
विश्वास-प्रस्तुतिः - 17
17 अननुगच्छन्तः पणार्धपणिकं योजनं दद्युः
मूलम् - 17
17 अननुगच्छन्तः पणार्धपणिकं योजनं दद्युः
विश्वास-प्रस्तुतिः - 18
18 ग्रामिकस्य ग्रामाद् अस्तेनपारदारिकं निरस्यतश्चतुर्विंशतिपणो दण्डः, ग्रामस्य उत्तमः
मूलम् - 18
18 ग्रामिकस्य ग्रामाद् अस्तेनपारदारिकं निरस्यतश्चतुर्विंशतिपणो दण्डः, ग्रामस्य उत्तमः
विश्वास-प्रस्तुतिः - 19
19 निरस्तस्य प्रवेशो ह्यभिगमेन व्याख्यातः
मूलम् - 19
19 निरस्तस्य प्रवेशो ह्यभिगमेन व्याख्यातः
विश्वास-प्रस्तुतिः - 20
20 स्तम्भैः समन्ततो ग्रामाद् धनुःशतापकृष्टं उपसालं कारयेत्
मूलम् - 20
20 स्तम्भैः समन्ततो ग्रामाद् धनुःशतापकृष्टं उपसालं कारयेत्
विश्वास-प्रस्तुतिः - 21
21 पशुप्रचारार्थं विवीतं आलवनेन उपजीवेयुः
मूलम् - 21
21 पशुप्रचारार्थं विवीतं आलवनेन उपजीवेयुः
विश्वास-प्रस्तुतिः - 22
22 विवीतं भक्षयित्वाऽपसृतानां उष्ट्रमहिषाणां पादिकं रूपं गृह्णीयुः, गवाश्वखराणां चार्धपादिकं, क्षुद्रपशूनां षोडशभागिकम्
मूलम् - 22

विश्वास-प्रस्तुतिः - 23
23 भक्षयित्वा निषण्णानां एत एव द्विगुणा दण्डाः, परिवसतां चतुर्गुणाः
मूलम् - 23
23 भक्षयित्वा निषण्णानां एत एव द्विगुणा दण्डाः, परिवसतां चतुर्गुणाः
विश्वास-प्रस्तुतिः - 24
24 ग्रामदेववृषा वाऽनिर्दशाहा वा धेनुरुक्षाणो गोवृषाश्चादण्ड्याः
मूलम् - 24
24 ग्रामदेववृषा वाऽनिर्दशाहा वा धेनुरुक्षाणो गोवृषाश्चादण्ड्याः
विश्वास-प्रस्तुतिः - 25
25 सस्यभक्षणे सस्य उपघातं निष्पत्तितः परिसङ्ख्याय द्विगुणं दापयेत्
मूलम् - 25
25 सस्यभक्षणे सस्य उपघातं निष्पत्तितः परिसङ्ख्याय द्विगुणं दापयेत्
विश्वास-प्रस्तुतिः - 26
26 स्वामिनश्चानिवेद्य चारयतो द्वादशपणो दण्डः, प्रमुञ्चतश्चतुर्विंशतिपणः
मूलम् - 26
26 स्वामिनश्चानिवेद्य चारयतो द्वादशपणो दण्डः, प्रमुञ्चतश्चतुर्विंशतिपणः
विश्वास-प्रस्तुतिः - 27
27 पालिनां अर्धदण्डाः
मूलम् - 27
27 पालिनां अर्धदण्डाः
विश्वास-प्रस्तुतिः - 28
28 तद् एव षण्डभक्षणे कुर्यात्
मूलम् - 28
28 तद् एव षण्डभक्षणे कुर्यात्
विश्वास-प्रस्तुतिः - 29
29 वाटभेदे द्विगुणः वेश्मखलवलयगतानां च धान्यानां भक्षणे
मूलम् - 29
29 वाटभेदे द्विगुणः वेश्मखलवलयगतानां च धान्यानां भक्षणे
विश्वास-प्रस्तुतिः - 30
30 हिंसाप्रतीकारं कुर्यात्
मूलम् - 30
30 हिंसाप्रतीकारं कुर्यात्
विश्वास-प्रस्तुतिः - 31
31 अभयवनमृगाः परिगृहीता वा भक्षयन्तः स्वामिनो निवेद्य यथाऽवध्याः तथा प्रतिषेद्धव्याः
मूलम् - 31
31 अभयवनमृगाः परिगृहीता वा भक्षयन्तः स्वामिनो निवेद्य यथाऽवध्याः तथा प्रतिषेद्धव्याः
विश्वास-प्रस्तुतिः - 32
32 पशवो रश्मिप्रतोदाभ्यां वारयितव्याः
मूलम् - 32
32 पशवो रश्मिप्रतोदाभ्यां वारयितव्याः
विश्वास-प्रस्तुतिः - 33
33 तेषां अन्यथा हिंसायां दण्डपारुष्यदण्डाः
मूलम् - 33
33 तेषां अन्यथा हिंसायां दण्डपारुष्यदण्डाः
विश्वास-प्रस्तुतिः - 34
34 प्रार्थयमाना दृष्टापराधा वा सर्व उपायैर्नियन्तव्याः इति क्षेत्रपथहिंसा ।
मूलम् - 34
34 प्रार्थयमाना दृष्टापराधा वा सर्व उपायैर्नियन्तव्याः इति क्षेत्रपथहिंसा ।
विश्वास-प्रस्तुतिः - 35
35 कर्षकस्य ग्रामं अभ्युपेत्याकुर्वतो ग्राम एवात्ययं हरेत्
मूलम् - 35
35 कर्षकस्य ग्रामं अभ्युपेत्याकुर्वतो ग्राम एवात्ययं हरेत्
विश्वास-प्रस्तुतिः - 36
36 कर्माकरणे कर्मवेतनद्विगुणं, हिरण्यादाने प्रत्यंशद्विगुणं, भक्ष्यपेयादाने च प्रहवणेषु द्विगुणं अंशं दद्यात्
मूलम् - 36

विश्वास-प्रस्तुतिः - 37
37 प्रेक्षायां अनंशदः, स-स्वजनो न प्रेक्षेत
मूलम् - 37
37 प्रेक्षायां अनंशदः, स-स्वजनो न प्रेक्षेत
विश्वास-प्रस्तुतिः - 38
38 प्रच्छन्नश्रवण ईक्षणे च सर्वहिते च कर्मणि निग्रहेण द्विगुणं अंशं दद्यात्
मूलम् - 38
38 प्रच्छन्नश्रवण ईक्षणे च सर्वहिते च कर्मणि निग्रहेण द्विगुणं अंशं दद्यात्
विश्वास-प्रस्तुतिः - 39
39 सर्वहितं एकस्य ब्रुवतः कुर्युराज्ञाम्
मूलम् - 39
39 सर्वहितं एकस्य ब्रुवतः कुर्युराज्ञाम्
विश्वास-प्रस्तुतिः - 40
40 अकरणे द्वादशपणो दण्डः
मूलम् - 40
40 अकरणे द्वादशपणो दण्डः
विश्वास-प्रस्तुतिः - 41
41 तं चेत् सम्भूय वा हन्युः पृथग् एषां अपराधद्विगुणो दण्डः
मूलम् - 41
41 तं चेत् सम्भूय वा हन्युः पृथग् एषां अपराधद्विगुणो दण्डः
विश्वास-प्रस्तुतिः - 42
42 उपहन्तृषु विशिष्टः
मूलम् - 42
42 उपहन्तृषु विशिष्टः
विश्वास-प्रस्तुतिः - 43
43 ब्राह्मणश्च एषां ज्यैष्ठ्यं नियम्येत
मूलम् - 43
43 ब्राह्मणश्च एषां ज्यैष्ठ्यं नियम्येत
विश्वास-प्रस्तुतिः - 44
44 प्रहवणेषु च एषां ब्राह्मणा नाकामाः कुर्युः, अंशं च लभेरन्
मूलम् - 44
44 प्रहवणेषु च एषां ब्राह्मणा नाकामाः कुर्युः, अंशं च लभेरन्
विश्वास-प्रस्तुतिः - 45
45 तेन देशजातिकुलसङ्घानां समयस्यानपाकर्म व्याख्यातम्
मूलम् - 45
45 तेन देशजातिकुलसङ्घानां समयस्यानपाकर्म व्याख्यातम्
विश्वास-प्रस्तुतिः - 46
46ab राजा देशहितान् सेतून् कुर्वतां पथि सङ्क्रमान् ।
46chd ग्रामशोभाश्च रक्षाश्च तेषां प्रियहितं चरेत् (इति)
मूलम् - 46