sale of immovable property Fixing of boundaries Enchroachment and Damage
विश्वास-प्रस्तुतिः - 01
01 ज्ञातिसामन्तधनिकाः क्रमेण भूमिपरिग्रहान् क्रेतुं अभ्याभवेयुः
मूलम् - 01
01 ज्ञातिसामन्तधनिकाः क्रमेण भूमिपरिग्रहान् क्रेतुं अभ्याभवेयुः
विश्वास-प्रस्तुतिः - 02
02 ततोऽन्ये बाह्याः
मूलम् - 02
02 ततोऽन्ये बाह्याः
विश्वास-प्रस्तुतिः - 03
03 सामन्तचत्वारिंशत्कुल्येषु गृहप्रतिमुखे वेश्म श्रावयेयुः, सामन्तग्रामवृद्धेषु क्षेत्रं आरामं सेतुबन्धं तटाकं आधारं वा मर्यादासु यथासेतुभोगं अनेनार्घेण कः क्रेता इति
मूलम् - 03

विश्वास-प्रस्तुतिः - 04
04 त्रिराघुषितं अव्याहतं क्रेता क्रेतुं लभेत
मूलम् - 04
04 त्रिराघुषितं अव्याहतं क्रेता क्रेतुं लभेत
विश्वास-प्रस्तुतिः - 05
05 स्पर्धया वा मूल्यवर्धने मूल्यवृद्धिः स-शुल्का कोशं गच्छेत्
मूलम् - 05
05 स्पर्धया वा मूल्यवर्धने मूल्यवृद्धिः स-शुल्का कोशं गच्छेत्
विश्वास-प्रस्तुतिः - 06
06 विक्रयप्रतिक्रोष्टा शुल्कं दद्यात्
मूलम् - 06
06 विक्रयप्रतिक्रोष्टा शुल्कं दद्यात्
विश्वास-प्रस्तुतिः - 07
07 अस्वामिप्रतिक्रोशे चतुर्विंशतिपणो दण्डः
मूलम् - 07
07 अस्वामिप्रतिक्रोशे चतुर्विंशतिपणो दण्डः
विश्वास-प्रस्तुतिः - 08
08 सप्तरात्राद् ऊर्ध्वं अनभिसरतः प्रतिक्रुष्टो विक्रीणीत
मूलम् - 08
08 सप्तरात्राद् ऊर्ध्वं अनभिसरतः प्रतिक्रुष्टो विक्रीणीत
विश्वास-प्रस्तुतिः - 09
09 प्रतिक्रुष्टातिक्रमे वास्तुनि द्विशतो दण्डः, अन्यत्र चतुर्विंशतिपणो दण्डः इति वास्तुविक्रयः ।
मूलम् - 09
09 प्रतिक्रुष्टातिक्रमे वास्तुनि द्विशतो दण्डः, अन्यत्र चतुर्विंशतिपणो दण्डः इति वास्तुविक्रयः ।
विश्वास-प्रस्तुतिः - 10
10 सीमविवादं ग्रामयोरुभयोः सामन्ता पञ्चग्रामी दशग्रामी वा सेतुभिः स्थावरैः कृत्रिमैर्वा कुर्यात्
मूलम् - 10
10 सीमविवादं ग्रामयोरुभयोः सामन्ता पञ्चग्रामी दशग्रामी वा सेतुभिः स्थावरैः कृत्रिमैर्वा कुर्यात्
विश्वास-प्रस्तुतिः - 11
11 कर्षकगोपालकवृद्धाः पूर्वभुक्तिका वा बाह्याः सेतूनां अभिज्ञा बहव एको वा निर्दिश्य सीमसेतून् विपरीतवेषाः सीमानं नयेयुः
मूलम् - 11

विश्वास-प्रस्तुतिः - 12
12 उद्दिष्टानां सेतूनां अदर्शने सहस्रं दण्डः ।
मूलम् - 12
12 उद्दिष्टानां सेतूनां अदर्शने सहस्रं दण्डः ।
विश्वास-प्रस्तुतिः - 13
13 तद् एव नीते सीमापहारिणां सेतुच्छिदां च कुर्यात्
मूलम् - 13
13 तद् एव नीते सीमापहारिणां सेतुच्छिदां च कुर्यात्
विश्वास-प्रस्तुतिः - 14
14 प्रनष्टसेतुभोगं वा सीमानं राजा यथा उपकारं विभजेत् इति सीमविवादः ।
मूलम् - 14
14 प्रनष्टसेतुभोगं वा सीमानं राजा यथा उपकारं विभजेत् इति सीमविवादः ।
विश्वास-प्रस्तुतिः - 15
15 क्षेत्रविवादं सामन्तग्रामवृद्धाः कुर्युः
मूलम् - 15
15 क्षेत्रविवादं सामन्तग्रामवृद्धाः कुर्युः
विश्वास-प्रस्तुतिः - 16
16 तेषां द्वैधीभावे यतो बहवः शुचयोऽनुमता वा ततो नियच्छेयुः मध्यं वा गृह्णीयुः
मूलम् - 16
16 तेषां द्वैधीभावे यतो बहवः शुचयोऽनुमता वा ततो नियच्छेयुः मध्यं वा गृह्णीयुः
विश्वास-प्रस्तुतिः - 17
17 तद्।उभयपरा उक्तं वास्तु राजा हरेत्, प्रनष्टस्वामिकं च
मूलम् - 17
17 तद्।उभयपरा उक्तं वास्तु राजा हरेत्, प्रनष्टस्वामिकं च
विश्वास-प्रस्तुतिः - 18
18 यथा उपकारं वा विभजेत्
मूलम् - 18
18 यथा उपकारं वा विभजेत्
विश्वास-प्रस्तुतिः - 19
19 प्रसह्यादाने वास्तुनि स्तेयदण्डः
मूलम् - 19
19 प्रसह्यादाने वास्तुनि स्तेयदण्डः
विश्वास-प्रस्तुतिः - 20
20 कारणादाने प्रयासं आजीवं च परिसङ्ख्याय बन्धं दद्यात् इति क्षेत्रविवादः ।
मूलम् - 20
20 कारणादाने प्रयासं आजीवं च परिसङ्ख्याय बन्धं दद्यात् इति क्षेत्रविवादः ।
विश्वास-प्रस्तुतिः - 21
21 मर्यादाऽपहरणे पूर्वः साहसदण्डः
मूलम् - 21
21 मर्यादाऽपहरणे पूर्वः साहसदण्डः
विश्वास-प्रस्तुतिः - 22
22 मर्यादाभेदे चतुर्विंशतिपणः
मूलम् - 22
22 मर्यादाभेदे चतुर्विंशतिपणः
विश्वास-प्रस्तुतिः - 23
23 तेन तपोवनविवीतमहापथश्मशानदेवकुलयजनपुण्यस्थानविवादा व्याख्याताः इति मर्यादास्थापनम् ।
मूलम् - 23
23 तेन तपोवनविवीतमहापथश्मशानदेवकुलयजनपुण्यस्थानविवादा व्याख्याताः इति मर्यादास्थापनम् ।
विश्वास-प्रस्तुतिः - 24
24 सर्व एव विवादाः सामन्तप्रत्ययाः
मूलम् - 24
24 सर्व एव विवादाः सामन्तप्रत्ययाः
विश्वास-प्रस्तुतिः - 25
25 विवीतस्थलकेदारषण्डखलवेश्मवाहनकोष्ठानां पूर्वम्पूर्वं आबाधं सहेत
मूलम् - 25
25 विवीतस्थलकेदारषण्डखलवेश्मवाहनकोष्ठानां पूर्वम्पूर्वं आबाधं सहेत
विश्वास-प्रस्तुतिः - 26
26 ब्रह्मसोमारण्यदेवयजनपुण्यस्थानवर्जाः स्थलप्रदेशाः
मूलम् - 26
26 ब्रह्मसोमारण्यदेवयजनपुण्यस्थानवर्जाः स्थलप्रदेशाः
विश्वास-प्रस्तुतिः - 27
27 आधारपरिवाहकेदार उपभोगैः परक्षेत्रकृष्टबीजहिंसायां यथा उपघातं मूल्यं दद्युः
मूलम् - 27
27 आधारपरिवाहकेदार उपभोगैः परक्षेत्रकृष्टबीजहिंसायां यथा उपघातं मूल्यं दद्युः
विश्वास-प्रस्तुतिः - 28
28 केदारारामसेतुबन्धानां परस्परहिंसायां हिंसाद्विगुणो दण्डः
मूलम् - 28
28 केदारारामसेतुबन्धानां परस्परहिंसायां हिंसाद्विगुणो दण्डः
विश्वास-प्रस्तुतिः - 29
29 पश्चान्निविष्टं अधरतटाकं न उपरितटाकस्य केदारं उदकेनाप्लावयेत्
मूलम् - 29
29 पश्चान्निविष्टं अधरतटाकं न उपरितटाकस्य केदारं उदकेनाप्लावयेत्
विश्वास-प्रस्तुतिः - 30
30 उपरिनिविष्टं नाधरतटाकस्य पूरास्रावं वारयेद्, अन्यत्र त्रिवर्ष उपरतकर्मणः
मूलम् - 30
30 उपरिनिविष्टं नाधरतटाकस्य पूरास्रावं वारयेद्, अन्यत्र त्रिवर्ष उपरतकर्मणः
विश्वास-प्रस्तुतिः - 31
31 तस्यातिक्रमे पूर्वः साहसदण्डः, तटाकवामनं च
मूलम् - 31
31 तस्यातिक्रमे पूर्वः साहसदण्डः, तटाकवामनं च
विश्वास-प्रस्तुतिः - 32
32 पञ्चवर्ष उपरतकर्मणः सेतुबन्धस्य स्वाम्यं लुप्येत, अन्यत्रापद्भ्यः
मूलम् - 32
32 पञ्चवर्ष उपरतकर्मणः सेतुबन्धस्य स्वाम्यं लुप्येत, अन्यत्रापद्भ्यः
विश्वास-प्रस्तुतिः - 33
33 तटाकसेतुबन्धानां नवप्रवर्तने पाञ्चवर्षिकः परिहारः, भग्न उत्सृष्टानां चातुर्वर्षिकः, समुपारूढानां त्रैवर्षिकः, स्थलस्य द्वैवर्षिकः
मूलम् - 33

विश्वास-प्रस्तुतिः - 34
34 स्वात्माधाने विक्रये च
मूलम् - 34
34 स्वात्माधाने विक्रये च
विश्वास-प्रस्तुतिः - 35
35 खातप्रावृत्तिं अनदीनिबन्धायतनतटाककेदारारामषण्डवापानां सस्यवर्णभाग उत्तरिकं अन्येभ्यो वा यथा उपकारं दद्युः
मूलम् - 35

विश्वास-प्रस्तुतिः - 36
36 प्रक्रयावक्रयाधिभागभोगनिषृष्ट उपभोक्तारश्च एषां प्रतिकुर्युः
मूलम् - 36
36 प्रक्रयावक्रयाधिभागभोगनिषृष्ट उपभोक्तारश्च एषां प्रतिकुर्युः
विश्वास-प्रस्तुतिः - 37
37 अर्पतीकारे हीनद्विगुणो दण्डः
मूलम् - 37
37 अर्पतीकारे हीनद्विगुणो दण्डः
विश्वास-प्रस्तुतिः - 38
38ab सेतुभ्यो मुञ्चतः तोयं अवारे षट्पणो दमः ।
38chd वारे वा तोयं अन्येषां प्रमादेन उपरुन्धतः (इति)
मूलम् - 38