Immovable property
Dwelling-places
विश्वास-प्रस्तुतिः - 01
01 सामन्तप्रत्यया वास्तुविवादाः
मूलम् - 01
01 सामन्तप्रत्यया वास्तुविवादाः
विश्वास-प्रस्तुतिः - 02
02 गृहं क्षेत्रं आरामः सेतुबन्धः तटाकं आधारो वा वास्तुः
मूलम् - 02
02 गृहं क्षेत्रं आरामः सेतुबन्धः तटाकं आधारो वा वास्तुः
विश्वास-प्रस्तुतिः - 03
03 कर्णकीलायससम्बन्धोऽनुगृहं सेतुः
मूलम् - 03
03 कर्णकीलायससम्बन्धोऽनुगृहं सेतुः
विश्वास-प्रस्तुतिः - 04
04 यथासेतुभोगं वेश्म कारयेत्
मूलम् - 04
04 यथासेतुभोगं वेश्म कारयेत्
विश्वास-प्रस्तुतिः - 05
05 अभूतं वा परकुड्याद् अपक्रम्य द्वावरत्नी त्रिपदीं वा देशबन्धं कारयेत्
मूलम् - 05
05 अभूतं वा परकुड्याद् अपक्रम्य द्वावरत्नी त्रिपदीं वा देशबन्धं कारयेत्
विश्वास-प्रस्तुतिः - 06
06 अवस्करं भ्रमं उदपानं वा न गृह उचिताद् अन्यत्र, अन्यत्र सूतिकाकूपाद् आनिर्दशाहाद् इति
मूलम् - 06
06 अवस्करं भ्रमं उदपानं वा न गृह उचिताद् अन्यत्र, अन्यत्र सूतिकाकूपाद् आनिर्दशाहाद् इति
विश्वास-प्रस्तुतिः - 07
07 तस्यातिक्रमे पूर्वः साहसदण्डः
मूलम् - 07
07 तस्यातिक्रमे पूर्वः साहसदण्डः
विश्वास-प्रस्तुतिः - 08
08 तेन इन्धनावघातनकृतं कल्याणकृत्येष्वाचाम उदकमार्गाश्च व्याख्याताः
मूलम् - 08
08 तेन इन्धनावघातनकृतं कल्याणकृत्येष्वाचाम उदकमार्गाश्च व्याख्याताः
विश्वास-प्रस्तुतिः - 09
09 त्रिपदीप्रतिक्रान्तं अध्यर्धं अरत्निं वा गाढप्रसृतं उदकमार्गं प्रस्रवणप्रपातं वा कारयेत्
मूलम् - 09
09 त्रिपदीप्रतिक्रान्तं अध्यर्धं अरत्निं वा गाढप्रसृतं उदकमार्गं प्रस्रवणप्रपातं वा कारयेत्
विश्वास-प्रस्तुतिः - 10
10 तस्यातिक्रमे चतुष्पञ्चाशत्पणो दण्डः
मूलम् - 10
10 तस्यातिक्रमे चतुष्पञ्चाशत्पणो दण्डः
विश्वास-प्रस्तुतिः - 11
11 एकपदीप्रतिक्रान्तं अरत्निं वा चक्रिचतुष्पदस्थानं अग्निष्ठं उदञ्जरस्थानं रोचनीं कुट्टनीं वा कारयेत्
मूलम् - 11

विश्वास-प्रस्तुतिः - 12
12 तस्यातिक्रमे चतुर्विंशतिपणो दण्डः
मूलम् - 12
12 तस्यातिक्रमे चतुर्विंशतिपणो दण्डः
विश्वास-प्रस्तुतिः - 13
13 सर्ववास्तुकयोः प्राक्षिप्तकयोर्वा शालयोः किष्कुरन्तरिका त्रिपदी वा
मूलम् - 13
13 सर्ववास्तुकयोः प्राक्षिप्तकयोर्वा शालयोः किष्कुरन्तरिका त्रिपदी वा
विश्वास-प्रस्तुतिः - 14
14 तयोश्चतुर्ऽङ्गुलं नीप्रान्तरम् नीव्रान्तरम्? समारूढकं वा
मूलम् - 14
14 तयोश्चतुर्ऽङ्गुलं नीप्रान्तरम् नीव्रान्तरम्? समारूढकं वा
विश्वास-प्रस्तुतिः - 15
15 किष्कुमात्रं आणिद्वारं अन्तरिकायां खण्डफुल्लार्थं असम्पातं कारयेत्
मूलम् - 15
15 किष्कुमात्रं आणिद्वारं अन्तरिकायां खण्डफुल्लार्थं असम्पातं कारयेत्
विश्वास-प्रस्तुतिः - 16
16 प्रकाशार्थं अल्पं ऊर्ध्वं वातायनं कारयेत्
मूलम् - 16
16 प्रकाशार्थं अल्पं ऊर्ध्वं वातायनं कारयेत्
विश्वास-प्रस्तुतिः - 17
17 तद्ऽवसिते वेश्मनिच्छादयेत्
मूलम् - 17
17 तद्ऽवसिते वेश्मनिच्छादयेत्
विश्वास-प्रस्तुतिः - 18
18 सम्भूय वा गृहस्वामिनो यथा इष्टं कारयेयुः, अनिष्टं वारयेयुः
मूलम् - 18
18 सम्भूय वा गृहस्वामिनो यथा इष्टं कारयेयुः, अनिष्टं वारयेयुः
विश्वास-प्रस्तुतिः - 19
19 वानलट्याश्च ऊर्ध्वं आवार्यभागं कटप्रच्छन्नं अवमर्शभित्तिं वा कारयेद् वर्षाबाधभयात्
मूलम् - 19
19 वानलट्याश्च ऊर्ध्वं आवार्यभागं कटप्रच्छन्नं अवमर्शभित्तिं वा कारयेद् वर्षाबाधभयात्
विश्वास-प्रस्तुतिः - 20
20 तस्यातिक्रमे पूर्वः साहसदण्डः, प्रतिलोमद्वारवातायनबाधायां च, अन्यत्र राजमार्गरथ्याभ्यः
मूलम् - 20
20 तस्यातिक्रमे पूर्वः साहसदण्डः, प्रतिलोमद्वारवातायनबाधायां च, अन्यत्र राजमार्गरथ्याभ्यः
विश्वास-प्रस्तुतिः - 21
21 खातसोपानप्रणालीनिश्रेण्य्ऽवस्करभागैर्बहिर्बाधायां भोगनिग्रहे च
मूलम् - 21
21 खातसोपानप्रणालीनिश्रेण्य्ऽवस्करभागैर्बहिर्बाधायां भोगनिग्रहे च
विश्वास-प्रस्तुतिः - 22
22 परकुड्यं उदकेन उपघ्नतो द्वादशपणो दण्डः, मूत्रपुरीष उपघाते द्विगुणः
मूलम् - 22
22 परकुड्यं उदकेन उपघ्नतो द्वादशपणो दण्डः, मूत्रपुरीष उपघाते द्विगुणः
विश्वास-प्रस्तुतिः - 23
23 प्रणालीमोक्षो वर्षति, अन्यथा द्वादशपणो दण्डः
मूलम् - 23
23 प्रणालीमोक्षो वर्षति, अन्यथा द्वादशपणो दण्डः
विश्वास-प्रस्तुतिः - 24
24 प्रतिषिद्धस्य च वसतः, निरस्यतश्चावक्रयिणं अन्यत्र पारुष्यस्तेयसाहससङ्ग्रहणमिथ्याभोगेभ्यः
मूलम् - 24
24 प्रतिषिद्धस्य च वसतः, निरस्यतश्चावक्रयिणं अन्यत्र पारुष्यस्तेयसाहससङ्ग्रहणमिथ्याभोगेभ्यः
विश्वास-प्रस्तुतिः - 25
25 स्वयंऽभिप्रस्थितो वर्षावक्रयशेषं दद्यात्
मूलम् - 25
25 स्वयंऽभिप्रस्थितो वर्षावक्रयशेषं दद्यात्
विश्वास-प्रस्तुतिः - 26
26 सामान्ये वेश्मनि साहाय्यं अप्रयच्छतः, सामान्यं उपरुन्धतो भोगं च गृहे द्वादशपणो दण्डः
मूलम् - 26
26 सामान्ये वेश्मनि साहाय्यं अप्रयच्छतः, सामान्यं उपरुन्धतो भोगं च गृहे द्वादशपणो दण्डः
विश्वास-प्रस्तुतिः - 27
27 विनाशयतः तद्द्विगुणः
मूलम् - 27
27 विनाशयतः तद्द्विगुणः
विश्वास-प्रस्तुतिः - 28
28ab कोष्ठकाङ्गणवर्चानां अग्निकुट्टनशालयोः ।
28chd विवृतानां च सर्वेषां सामान्यो भोग इष्यते (इति)
मूलम् - 28