Classification of sons
विश्वास-प्रस्तुतिः - 01
01 परपरिग्रहे बीजं उत्सृष्टं क्षेत्रिणः इत्याचार्याः
मूलम् - 01
01 परपरिग्रहे बीजं उत्सृष्टं क्षेत्रिणः इत्याचार्याः
विश्वास-प्रस्तुतिः - 02
02 माता भस्त्रा, यस्य रेतः तस्यापत्यम् इत्यपरे
मूलम् - 02
02 माता भस्त्रा, यस्य रेतः तस्यापत्यम् इत्यपरे
विश्वास-प्रस्तुतिः - 03
03 विद्यमानं उभयं इति कौटिल्यः
मूलम् - 03
03 विद्यमानं उभयं इति कौटिल्यः
विश्वास-प्रस्तुतिः - 04
04 स्वयञ्जातः कृतक्रियायां औरसः
मूलम् - 04
04 स्वयञ्जातः कृतक्रियायां औरसः
विश्वास-प्रस्तुतिः - 05
05 तेन तुल्यः पुत्रिकापुत्रः
मूलम् - 05
05 तेन तुल्यः पुत्रिकापुत्रः
विश्वास-प्रस्तुतिः - 06
06 सगोत्रेणान्यगोत्रेण वा नियुक्तेन क्षेत्रजातः क्षेत्रजः पुत्रः
मूलम् - 06
06 सगोत्रेणान्यगोत्रेण वा नियुक्तेन क्षेत्रजातः क्षेत्रजः पुत्रः
विश्वास-प्रस्तुतिः - 07
07 जनयितुरसत्यन्यस्मिन् पुत्रे स एव द्विपितृको द्विगोत्रो वा द्वयोरपि स्वधारिक्थभाग् भवति
मूलम् - 07
07 जनयितुरसत्यन्यस्मिन् पुत्रे स एव द्विपितृको द्विगोत्रो वा द्वयोरपि स्वधारिक्थभाग् भवति
विश्वास-प्रस्तुतिः - 08
08 तत्सधर्मा बन्धूनां गृहे गूढजातः तु गूढजः
मूलम् - 08
08 तत्सधर्मा बन्धूनां गृहे गूढजातः तु गूढजः
विश्वास-प्रस्तुतिः - 09
09 बन्धुना उत्सृष्टोऽपविद्धः संस्कर्तुः पुत्रः
मूलम् - 09
09 बन्धुना उत्सृष्टोऽपविद्धः संस्कर्तुः पुत्रः
विश्वास-प्रस्तुतिः - 10
10 कन्यागर्भः कानीनः
मूलम् - 10
10 कन्यागर्भः कानीनः
विश्वास-प्रस्तुतिः - 11
11 सगर्भ ऊढायाः सह ऊढः
मूलम् - 11
11 सगर्भ ऊढायाः सह ऊढः
विश्वास-प्रस्तुतिः - 12
12 पुनर्भूतायाः पौनर्भवः
मूलम् - 12
12 पुनर्भूतायाः पौनर्भवः
विश्वास-प्रस्तुतिः - 13
13 स्वयञ्जातः पितुर्बन्धूनां च दायादः
मूलम् - 13
13 स्वयञ्जातः पितुर्बन्धूनां च दायादः
विश्वास-प्रस्तुतिः - 14
14 परजातः संस्कर्तुरेव न बन्धूनाम्
मूलम् - 14
14 परजातः संस्कर्तुरेव न बन्धूनाम्
विश्वास-प्रस्तुतिः - 15
15 तत्सधर्मा मातापितृभ्यां अद्भिर्मुक्तो दत्तः
मूलम् - 15
15 तत्सधर्मा मातापितृभ्यां अद्भिर्मुक्तो दत्तः
विश्वास-प्रस्तुतिः - 16
16 स्वयं बन्धुभिर्वा पुत्रभाव उपगत उपगतः
मूलम् - 16
16 स्वयं बन्धुभिर्वा पुत्रभाव उपगत उपगतः
विश्वास-प्रस्तुतिः - 17
17 पुत्रत्वेऽधिकृतः कृतकः
मूलम् - 17
17 पुत्रत्वेऽधिकृतः कृतकः
विश्वास-प्रस्तुतिः - 18
18 परिक्रीतः क्रीतः इति ।
मूलम् - 18
18 परिक्रीतः क्रीतः इति ।
विश्वास-प्रस्तुतिः - 19
19 औरसे तु उत्पन्ने सवर्णाः तृतीयांशहराः, असवर्णा ग्रासाच्छादनभागिनः
मूलम् - 19
19 औरसे तु उत्पन्ने सवर्णाः तृतीयांशहराः, असवर्णा ग्रासाच्छादनभागिनः
विश्वास-प्रस्तुतिः - 20
20 ब्राह्मणक्षत्रिययोरनन्तरापुत्राः सवर्णाः, एकान्तरा असवर्णाः
मूलम् - 20
20 ब्राह्मणक्षत्रिययोरनन्तरापुत्राः सवर्णाः, एकान्तरा असवर्णाः
विश्वास-प्रस्तुतिः - 21
21 ब्राह्मणस्य वैश्यायां अम्बष्ठः, शूद्रायां निषादः पारशवो वा
मूलम् - 21
21 ब्राह्मणस्य वैश्यायां अम्बष्ठः, शूद्रायां निषादः पारशवो वा
विश्वास-प्रस्तुतिः - 22
22 क्षत्रियस्य शूद्रायां उग्रः
मूलम् - 22
22 क्षत्रियस्य शूद्रायां उग्रः
विश्वास-प्रस्तुतिः - 23
23 शूद्र एव वैश्यस्य
मूलम् - 23
23 शूद्र एव वैश्यस्य
विश्वास-प्रस्तुतिः - 24
24 सवर्णासु च एषां अचरितव्रतेभ्यो जाता व्रात्याः
मूलम् - 24
24 सवर्णासु च एषां अचरितव्रतेभ्यो जाता व्रात्याः
विश्वास-प्रस्तुतिः - 25
25 इत्यनुलोमाः
मूलम् - 25
25 इत्यनुलोमाः
विश्वास-प्रस्तुतिः - 26
26 शूद्राद् आयोगवक्षत्तचण्डालाः
मूलम् - 26
26 शूद्राद् आयोगवक्षत्तचण्डालाः
विश्वास-प्रस्तुतिः - 27
27 वैश्यान् मागधवैदेहकौ
मूलम् - 27
27 वैश्यान् मागधवैदेहकौ
विश्वास-प्रस्तुतिः - 28
28 क्षत्रियात् सूतः
मूलम् - 28
28 क्षत्रियात् सूतः
विश्वास-प्रस्तुतिः - 29
29 पौराणिकः त्वन्यः सूतो मागधश्च, ब्रह्मक्षत्राद् विशेषः
मूलम् - 29
29 पौराणिकः त्वन्यः सूतो मागधश्च, ब्रह्मक्षत्राद् विशेषः
विश्वास-प्रस्तुतिः - 30
30 त एते प्रतिलोमाः स्वधर्मातिक्रमाद् राज्ञः सम्भवन्ति
मूलम् - 30
30 त एते प्रतिलोमाः स्वधर्मातिक्रमाद् राज्ञः सम्भवन्ति
विश्वास-प्रस्तुतिः - 31
31 उग्रान्नैषाद्यां कुक्कुटः, विपर्यये पुल्कसः
मूलम् - 31
31 उग्रान्नैषाद्यां कुक्कुटः, विपर्यये पुल्कसः
विश्वास-प्रस्तुतिः - 32
32 वैदेहिकायां अम्बष्ठाद् वैणः, विपर्यये कुशीलवः
मूलम् - 32
32 वैदेहिकायां अम्बष्ठाद् वैणः, विपर्यये कुशीलवः
विश्वास-प्रस्तुतिः - 33
33 क्षत्तायां उग्रात्श्वपाकः
मूलम् - 33
33 क्षत्तायां उग्रात्श्वपाकः
विश्वास-प्रस्तुतिः - 34
34 इत्येतेऽन्ये चान्तरालाः
मूलम् - 34
34 इत्येतेऽन्ये चान्तरालाः
विश्वास-प्रस्तुतिः - 35
35 कर्मणा वैश्यो रथकारः
मूलम् - 35
35 कर्मणा वैश्यो रथकारः
विश्वास-प्रस्तुतिः - 36
36 तेषां स्वयोनौ विवाहः, पूर्वापरगामित्वं वृत्तानुवृत्तं च
मूलम् - 36
36 तेषां स्वयोनौ विवाहः, पूर्वापरगामित्वं वृत्तानुवृत्तं च
विश्वास-प्रस्तुतिः - 37
37 शूद्रसधर्माणो वा, अन्यत्र चण्डालेभ्यः
मूलम् - 37
37 शूद्रसधर्माणो वा, अन्यत्र चण्डालेभ्यः
विश्वास-प्रस्तुतिः - 38
38 केवलं एवं वर्तमानः स्वर्गं आप्नोति राजा, नरकं अन्यथा
मूलम् - 38
38 केवलं एवं वर्तमानः स्वर्गं आप्नोति राजा, नरकं अन्यथा
विश्वास-प्रस्तुतिः - 39
39 सर्वेषां अन्तरालानां समो विभागः
मूलम् - 39
39 सर्वेषां अन्तरालानां समो विभागः
विश्वास-प्रस्तुतिः - 40
40ab देशस्य जात्याः सङ्घस्य धर्मो ग्रामस्य वाऽपि यः ।
40chd उचितः तस्य तेन एव दायधर्मं प्रकल्पयेत् (इति)
मूलम् - 40
40ab देशस्य जात्याः सङ्घस्य धर्मो ग्रामस्य वाऽपि यः ।
40chd उचितः तस्य तेन एव दायधर्मं प्रकल्पयेत् (इति)