Division into shares
विश्वास-प्रस्तुतिः - 01
01 एकस्त्रीपुत्राणां ज्येष्ठांशः - ब्राह्मणानां अजाः, क्षत्रियाणां अश्वाः, वैश्यानां गावः, शूद्राणां अवयः
मूलम् - 01

विश्वास-प्रस्तुतिः - 02
02 काणलङ्गाः तेषां मध्यमांशः, भिन्नवर्णाः कनिष्ठांशः
मूलम् - 02
02 काणलङ्गाः तेषां मध्यमांशः, भिन्नवर्णाः कनिष्ठांशः
विश्वास-प्रस्तुतिः - 03
03 चतुष्पदाभावे रत्नवर्जानां दशानां भागं द्रव्याणां एकं ज्येष्ठो हरेत्
मूलम् - 03
03 चतुष्पदाभावे रत्नवर्जानां दशानां भागं द्रव्याणां एकं ज्येष्ठो हरेत्
विश्वास-प्रस्तुतिः - 04
04 प्रतिमुक्तस्वधापाशो हि भवति
मूलम् - 04
04 प्रतिमुक्तस्वधापाशो हि भवति
विश्वास-प्रस्तुतिः - 05
05 इत्यौशनसो विभागः
मूलम् - 05
05 इत्यौशनसो विभागः
विश्वास-प्रस्तुतिः - 06
06 पितुः परिवापाद् यानं आभरणं च ज्येष्ठांशः, शयनासनं भुक्तकांस्यं च मध्यमांशः, कृष्णं धान्यायसं गृहपरिवापो गोशकटं च कनिष्ठांशः
मूलम् - 06

विश्वास-प्रस्तुतिः - 07
07 शेषद्रव्याणां एकद्रव्यस्य वा समो विभागः
मूलम् - 07
07 शेषद्रव्याणां एकद्रव्यस्य वा समो विभागः
विश्वास-प्रस्तुतिः - 08
08 अदायादा भगिन्यः, मातुः परिवापाद् भुक्तकांस्याभरणभागिन्यः
मूलम् - 08
08 अदायादा भगिन्यः, मातुः परिवापाद् भुक्तकांस्याभरणभागिन्यः
विश्वास-प्रस्तुतिः - 09
09 मानुषहीनो ज्येष्ठः तृतीयं अंशं ज्येष्ठांशाल्लभेत, चतुर्थं अन्यायवृत्तिः, निवृत्तधर्मकार्यो वा
मूलम् - 09
09 मानुषहीनो ज्येष्ठः तृतीयं अंशं ज्येष्ठांशाल्लभेत, चतुर्थं अन्यायवृत्तिः, निवृत्तधर्मकार्यो वा
विश्वास-प्रस्तुतिः - 10
10 कामाचारः सर्वं जीयेत
मूलम् - 10
10 कामाचारः सर्वं जीयेत
विश्वास-प्रस्तुतिः - 11
11 तेन मध्यमकनिष्ठौ व्याख्यातौ
मूलम् - 11
11 तेन मध्यमकनिष्ठौ व्याख्यातौ
विश्वास-प्रस्तुतिः - 12
12 तयोर्मानुष उपेतो ज्येष्ठांशाद् अर्धं लभेत
मूलम् - 12
12 तयोर्मानुष उपेतो ज्येष्ठांशाद् अर्धं लभेत
विश्वास-प्रस्तुतिः - 13
13 नानास्त्रीपुत्राणां तु संस्कृतासंस्कृतयोः कन्याकृतक्षतयोरभावे च एकस्याः पुत्रयोर्यमयोर्वा पूर्वजन्मना ज्येष्ठभावः
मूलम् - 13

विश्वास-प्रस्तुतिः - 14
14 सूतमागधव्रात्यरथकाराणां ऐश्वर्यतो विभागः
मूलम् - 14
14 सूतमागधव्रात्यरथकाराणां ऐश्वर्यतो विभागः
विश्वास-प्रस्तुतिः - 15
15 शेषाः तं उपजीवेयुः
मूलम् - 15
15 शेषाः तं उपजीवेयुः
विश्वास-प्रस्तुतिः - 16
16 अनीश्वराः समविभागाः
मूलम् - 16
16 अनीश्वराः समविभागाः
विश्वास-प्रस्तुतिः - 17
17 चातुर्वर्ण्यपुत्राणां ब्राह्मणीपुत्रश्चतुरोऽंशान् हरेत्, क्षत्रियापुत्रस्त्रीन् अंशान्, वैश्यापुत्रो द्वावंशौ, एकं शूद्रापुत्रः
मूलम् - 17

विश्वास-प्रस्तुतिः - 18
18 तेन त्रिवर्णद्विवर्णपुत्रविभागः क्षत्रियवैश्ययोर्व्याख्यातः
मूलम् - 18
18 तेन त्रिवर्णद्विवर्णपुत्रविभागः क्षत्रियवैश्ययोर्व्याख्यातः
विश्वास-प्रस्तुतिः - 19
19 ब्राह्मणस्यानन्तरापुत्रः तुल्यांशः
मूलम् - 19
19 ब्राह्मणस्यानन्तरापुत्रः तुल्यांशः
विश्वास-प्रस्तुतिः - 20
20 क्षत्रियवैश्ययोरर्धांशः तुल्यांशो वा मानुष उपेतः
मूलम् - 20
20 क्षत्रियवैश्ययोरर्धांशः तुल्यांशो वा मानुष उपेतः
विश्वास-प्रस्तुतिः - 21
21 तुल्यातुल्ययोरेकपुत्रः सर्वं हरेत्, बन्धूंश्च बिभृयात्
मूलम् - 21
21 तुल्यातुल्ययोरेकपुत्रः सर्वं हरेत्, बन्धूंश्च बिभृयात्
विश्वास-प्रस्तुतिः - 22
22 ब्राह्मणानां तु पारशवः तृतीयं अंशं लभेत, द्वावंशौ सपिण्डः कुल्यो वाऽऽसन्नः, स्वधादानहेतोः
मूलम् - 22
22 ब्राह्मणानां तु पारशवः तृतीयं अंशं लभेत, द्वावंशौ सपिण्डः कुल्यो वाऽऽसन्नः, स्वधादानहेतोः
विश्वास-प्रस्तुतिः - 23
23 तद्ऽभावे पितुराचार्योऽन्तेवासी वा
मूलम् - 23
23 तद्ऽभावे पितुराचार्योऽन्तेवासी वा
विश्वास-प्रस्तुतिः - 24
24ab क्षेत्रे वा जनयेद् अस्य नियुक्तः क्षेत्रजं सुतम् ।
24chd मातृबन्धुः सगोत्रो वा तस्मै तत् प्रदिशेद् धनम् (इति)
मूलम् - 24