०५

Partition of inheritance
Orderof inheritance

विश्वास-प्रस्तुतिः - 01

01 अनीश्वराः पितृमन्तः स्थितपितृमातृकाः पुत्राः

मूलम् - 01

01 अनीश्वराः पितृमन्तः स्थितपितृमातृकाः पुत्राः

विश्वास-प्रस्तुतिः - 02

02 तेषां ऊर्ध्वं पितृतो दायविभागः पितृद्रव्याणाम्

मूलम् - 02

02 तेषां ऊर्ध्वं पितृतो दायविभागः पितृद्रव्याणाम्

विश्वास-प्रस्तुतिः - 03

03 स्वयं।आर्जितं अविभाज्यं, अन्यत्र पितृद्रव्याद् उत्थितेभ्यः

मूलम् - 03

03 स्वयं।आर्जितं अविभाज्यं, अन्यत्र पितृद्रव्याद् उत्थितेभ्यः

विश्वास-प्रस्तुतिः - 04

04 पितृद्रव्याद् अविभक्त उपगतानां पुत्राः पौत्रा वा आचतुर्थाद् इत्यंशभाजः

मूलम् - 04

04 पितृद्रव्याद् अविभक्त उपगतानां पुत्राः पौत्रा वा आचतुर्थाद् इत्यंशभाजः

विश्वास-प्रस्तुतिः - 05

05 तावद् अविच्छिन्नः पिण्डो भवति

मूलम् - 05

05 तावद् अविच्छिन्नः पिण्डो भवति

विश्वास-प्रस्तुतिः - 06

06 विच्छिन्नपिण्डाः सर्वे समं विभजेरन्

मूलम् - 06

06 विच्छिन्नपिण्डाः सर्वे समं विभजेरन्

विश्वास-प्रस्तुतिः - 07

07 अपितृद्रव्या विभक्तपितृद्रव्या वा सह जीवन्तः पुनर्विभजेरन्

मूलम् - 07

07 अपितृद्रव्या विभक्तपितृद्रव्या वा सह जीवन्तः पुनर्विभजेरन्

विश्वास-प्रस्तुतिः - 08

08 यतश्च उत्तिष्ठेत स द्व्य्ऽंशं लभेत

मूलम् - 08

08 यतश्च उत्तिष्ठेत स द्व्य्ऽंशं लभेत

विश्वास-प्रस्तुतिः - 09

09 द्रव्यं अपुत्रस्य सोदर्या भ्रातरः सहजीविनो वा हरेयुः कन्याश्च

मूलम् - 09

09 द्रव्यं अपुत्रस्य सोदर्या भ्रातरः सहजीविनो वा हरेयुः कन्याश्च

विश्वास-प्रस्तुतिः - 10

10 रिक्थं पुत्रवतः पुत्रा दुहितरो वा धर्मिष्ठेषु विवाहेषु जाताः

मूलम् - 10

10 रिक्थं पुत्रवतः पुत्रा दुहितरो वा धर्मिष्ठेषु विवाहेषु जाताः

विश्वास-प्रस्तुतिः - 11

11 तद्ऽभावे पिता धरमाणः

मूलम् - 11

11 तद्ऽभावे पिता धरमाणः

विश्वास-प्रस्तुतिः - 12

12 पित्र्ऽभावे भ्रातरो भ्रातृपुत्राश्च

मूलम् - 12

12 पित्र्ऽभावे भ्रातरो भ्रातृपुत्राश्च

विश्वास-प्रस्तुतिः - 13

13 अपितृका बहवोऽपि च भ्रातरो भ्रातृपुत्राश्च पितुरेकं अंशं हरेयुः

मूलम् - 13

13 अपितृका बहवोऽपि च भ्रातरो भ्रातृपुत्राश्च पितुरेकं अंशं हरेयुः

विश्वास-प्रस्तुतिः - 14

14 सोदर्याणां अनेकपितृकाणां पितृतो दायविभागः

मूलम् - 14

14 सोदर्याणां अनेकपितृकाणां पितृतो दायविभागः

विश्वास-प्रस्तुतिः - 15

15 पितृभ्रातृपुत्राणां पूर्वे विद्यमाने नापरं अवलम्बन्ते, ज्येष्ठे च कनिष्ठं अर्थग्राहिणम्

मूलम् - 15

15 पितृभ्रातृपुत्राणां पूर्वे विद्यमाने नापरं अवलम्बन्ते, ज्येष्ठे च कनिष्ठं अर्थग्राहिणम्

विश्वास-प्रस्तुतिः - 16

16 जीवद्विभागे पिता न एकं विशेषयेत्

मूलम् - 16

16 जीवद्विभागे पिता न एकं विशेषयेत्

विश्वास-प्रस्तुतिः - 17

17 न च एकं अकारणान्निर्विभजेत

मूलम् - 17

17 न च एकं अकारणान्निर्विभजेत

विश्वास-प्रस्तुतिः - 18

18 पितुरसत्यर्थे ज्येष्ठाः कनिष्ठान् अनुगृह्णीयुः, अन्यत्र मिथ्यावृत्तेभ्यः

मूलम् - 18

18 पितुरसत्यर्थे ज्येष्ठाः कनिष्ठान् अनुगृह्णीयुः, अन्यत्र मिथ्यावृत्तेभ्यः

विश्वास-प्रस्तुतिः - 19

19 प्राप्तव्यवहाराणां विभागः

मूलम् - 19

19 प्राप्तव्यवहाराणां विभागः

विश्वास-प्रस्तुतिः - 20

20 अप्राप्तव्यवहाराणां देयविशुद्धं मातृबन्धुषु ग्रामवृद्धेषु वा स्थापयेयुः आव्यवहारप्रापणात्, प्रोषितस्य वा

मूलम् - 20

20 अप्राप्तव्यवहाराणां देयविशुद्धं मातृबन्धुषु ग्रामवृद्धेषु वा स्थापयेयुः आव्यवहारप्रापणात्, प्रोषितस्य वा

विश्वास-प्रस्तुतिः - 21

21 सम्निविष्टसमं असम्निविष्टेभ्यो नैवेशनिकं दद्युः, कन्याभ्यश्च प्रादानिकम्

मूलम् - 21

21 सम्निविष्टसमं असम्निविष्टेभ्यो नैवेशनिकं दद्युः, कन्याभ्यश्च प्रादानिकम्

विश्वास-प्रस्तुतिः - 22

22 ऋणरिक्थयोः समो विभागः

मूलम् - 22

22 ऋणरिक्थयोः समो विभागः

विश्वास-प्रस्तुतिः - 23

23 उदपात्राण्यपि निष्किञ्चना विभजेरन् इत्याचार्याः

मूलम् - 23

23 उदपात्राण्यपि निष्किञ्चना विभजेरन् इत्याचार्याः

विश्वास-प्रस्तुतिः - 24

24 छलं एतद् इति कौटिल्यः

मूलम् - 24

24 छलं एतद् इति कौटिल्यः

विश्वास-प्रस्तुतिः - 25

25 सतोऽर्थस्य विभागो नासतः

मूलम् - 25

25 सतोऽर्थस्य विभागो नासतः

विश्वास-प्रस्तुतिः - 26

26 एतावान् अर्थः सामान्यः तस्य एतावान् प्रत्य्ऽंश इत्यनुभाष्य ब्रुवन् साक्षिषु विभागं कारयेत्

मूलम् - 26

26 एतावान् अर्थः सामान्यः तस्य एतावान् प्रत्य्ऽंश इत्यनुभाष्य ब्रुवन् साक्षिषु विभागं कारयेत्

विश्वास-प्रस्तुतिः - 27

27 दुर्विभक्तं अन्योन्यापहृतं अन्तर्हितं अविज्ञात उत्पन्नं वा पुनर्विभजेरन्

मूलम् - 27

27 दुर्विभक्तं अन्योन्यापहृतं अन्तर्हितं अविज्ञात उत्पन्नं वा पुनर्विभजेरन्

विश्वास-प्रस्तुतिः - 28

28 अदायादकं राजा हरेत् स्त्रीवृत्तिप्रेतकार्यवर्जं, अन्यत्र श्रोत्रियद्रव्यात्

मूलम् - 28

28 अदायादकं राजा हरेत् स्त्रीवृत्तिप्रेतकार्यवर्जं, अन्यत्र श्रोत्रियद्रव्यात्

विश्वास-प्रस्तुतिः - 29

29 तत् त्रैवेद्येभ्यः प्रयच्छेत्

मूलम् - 29

29 तत् त्रैवेद्येभ्यः प्रयच्छेत्

विश्वास-प्रस्तुतिः - 30

30 पतितः पतिताज् जातः क्लीबश्चानंशाः, जड उन्मत्तान्धकुष्ठिनश्च

मूलम् - 30

30 पतितः पतिताज् जातः क्लीबश्चानंशाः, जड उन्मत्तान्धकुष्ठिनश्च

विश्वास-प्रस्तुतिः - 31

31 सति भार्यार्थे तेषां अपत्यं अतद्विधं भागं हरेत्

मूलम् - 31

31 सति भार्यार्थे तेषां अपत्यं अतद्विधं भागं हरेत्

विश्वास-प्रस्तुतिः - 32

32 ग्रासाच्छादनं इतरे पतितवर्जाः

मूलम् - 32

32 ग्रासाच्छादनं इतरे पतितवर्जाः

विश्वास-प्रस्तुतिः - 33

33ab तेषां च कृतदाराणां लुप्ते प्रजनने सति ।
33chd सृजेयुर्बान्धवाः पुत्रांः तेषां अंशान् प्रकल्पयेत् (इति)

मूलम् - 33

33ab तेषां च कृतदाराणां लुप्ते प्रजनने सति ।
33chd सृजेयुर्बान्धवाः पुत्रांः तेषां अंशान् प्रकल्पयेत् (इति)