Leaving home, goi.g away(with a man), Short absence from home, Long absence from home
विश्वास-प्रस्तुतिः - 01
01 पतिकुलान्निष्पतितायाः स्त्रियाः षट्पणो दण्डः, अन्यत्र विप्रकारात्
मूलम् - 01
01 पतिकुलान्निष्पतितायाः स्त्रियाः षट्पणो दण्डः, अन्यत्र विप्रकारात्
विश्वास-प्रस्तुतिः - 02
02 प्रतिषिद्धायां द्वादशपणः
मूलम् - 02
02 प्रतिषिद्धायां द्वादशपणः
विश्वास-प्रस्तुतिः - 03
03 प्रतिवेशगृहातिगतायाः षट्पणः
मूलम् - 03
03 प्रतिवेशगृहातिगतायाः षट्पणः
विश्वास-प्रस्तुतिः - 04
04 प्रातिवेशिकभिक्षुकवैदेहकानां अवकाशभिक्षापण्यदाने द्वादशपणो दण्डः
मूलम् - 04
04 प्रातिवेशिकभिक्षुकवैदेहकानां अवकाशभिक्षापण्यदाने द्वादशपणो दण्डः
विश्वास-प्रस्तुतिः - 05
05 प्रतिषिद्धानां पूर्वः साहसदण्डः
मूलम् - 05
05 प्रतिषिद्धानां पूर्वः साहसदण्डः
विश्वास-प्रस्तुतिः - 06
06 परगृहातिगतायाश्चतुर्विंशतिपणः
मूलम् - 06
06 परगृहातिगतायाश्चतुर्विंशतिपणः
विश्वास-प्रस्तुतिः - 07
07 परभार्याऽवकाशदाने शत्यो दण्डः, अन्यत्रापद्भ्यः
मूलम् - 07
07 परभार्याऽवकाशदाने शत्यो दण्डः, अन्यत्रापद्भ्यः
विश्वास-प्रस्तुतिः - 08
08 वारणाज्ञानयोर्निर्दोषः
मूलम् - 08
08 वारणाज्ञानयोर्निर्दोषः
विश्वास-प्रस्तुतिः - 09
09 पतिविप्रकारात् पतिज्ञातिसुखावस्थग्रामिकान्वाधिभिक्षुकीज्ञातिकुलानां अन्यतमं अपुरुषं गन्तुं अदोषः इति आचार्याः
मूलम् - 09

विश्वास-प्रस्तुतिः - 10
10 स-पुरुषं वा ज्ञातिकुलम्
मूलम् - 10
10 स-पुरुषं वा ज्ञातिकुलम्
विश्वास-प्रस्तुतिः - 11
11 कुतो हि साध्वीजनस्यच्छलम्
मूलम् - 11
11 कुतो हि साध्वीजनस्यच्छलम्
विश्वास-प्रस्तुतिः - 12
12 सुखं एतद् अवबोद्धुं, इति कौटिल्यः
मूलम् - 12
12 सुखं एतद् अवबोद्धुं, इति कौटिल्यः
विश्वास-प्रस्तुतिः - 13
13 प्रेतव्याधिव्यसनगर्भनिमित्तं अप्रतिषिद्धं एव ज्ञातिकुलगमनम्
मूलम् - 13
13 प्रेतव्याधिव्यसनगर्भनिमित्तं अप्रतिषिद्धं एव ज्ञातिकुलगमनम्
विश्वास-प्रस्तुतिः - 14
14 तन्निमित्तं वारयतो द्वादशपणो दण्डः
मूलम् - 14
14 तन्निमित्तं वारयतो द्वादशपणो दण्डः
विश्वास-प्रस्तुतिः - 15
15 तत्रापि गूहमाना स्त्रीधनं जीयेत, ज्ञातयो वा छादयन्तः शुल्कशेषम् इति निष्पतनं ।
मूलम् - 15
15 तत्रापि गूहमाना स्त्रीधनं जीयेत, ज्ञातयो वा छादयन्तः शुल्कशेषम् इति निष्पतनं ।
विश्वास-प्रस्तुतिः - 16
16 पतिकुलान्निष्पत्य ग्रामान्तरगमने द्वादशपणो दण्डः स्थाप्याऽऽभरणलोपश्च
मूलम् - 16
16 पतिकुलान्निष्पत्य ग्रामान्तरगमने द्वादशपणो दण्डः स्थाप्याऽऽभरणलोपश्च
विश्वास-प्रस्तुतिः - 17
17 गम्येन वा पुंसा सह प्रस्थाने चतुर्विंशतिपणः सर्वधर्मलोपश्च, अन्यत्र भर्मदानतीर्थगमनाभ्याम्
मूलम् - 17
17 गम्येन वा पुंसा सह प्रस्थाने चतुर्विंशतिपणः सर्वधर्मलोपश्च, अन्यत्र भर्मदानतीर्थगमनाभ्याम्
विश्वास-प्रस्तुतिः - 18
18 पुंसः पूर्वः साहसदण्डः तुल्यश्रेयसोः, पापीयसो मध्यमः
मूलम् - 18
18 पुंसः पूर्वः साहसदण्डः तुल्यश्रेयसोः, पापीयसो मध्यमः
विश्वास-प्रस्तुतिः - 19
19 बन्धुर्ऽदण्ड्यः
मूलम् - 19
19 बन्धुर्ऽदण्ड्यः
विश्वास-प्रस्तुतिः - 20
20 प्रतिषेधेऽर्धदण्डाः
मूलम् - 20
20 प्रतिषेधेऽर्धदण्डाः
विश्वास-प्रस्तुतिः - 21
21 पथि व्यन्तरे गूढदेशाभिगमने मैथुनार्थेन शङ्कितप्रतिषिद्धायां वा पथ्य्ऽनुसरणे सङ्ग्रहणं विद्यात्
मूलम् - 21
21 पथि व्यन्तरे गूढदेशाभिगमने मैथुनार्थेन शङ्कितप्रतिषिद्धायां वा पथ्य्ऽनुसरणे सङ्ग्रहणं विद्यात्
विश्वास-प्रस्तुतिः - 22
22 तालावचरचारणमत्स्यबन्धकलुब्धकगोपालकशौण्डिकानां अन्येषां च प्रसृष्टस्त्रीकाणां पथ्य्ऽनुसरणं अदोषः
मूलम् - 22
22 तालावचरचारणमत्स्यबन्धकलुब्धकगोपालकशौण्डिकानां अन्येषां च प्रसृष्टस्त्रीकाणां पथ्य्ऽनुसरणं अदोषः
विश्वास-प्रस्तुतिः - 23
23 प्रतिषिद्धे वा नयतः पुंसः स्त्रियो वा गच्छन्त्याः त एवार्धदण्डाः इति पथ्य्ऽनुसरणम् ।
मूलम् - 23
23 प्रतिषिद्धे वा नयतः पुंसः स्त्रियो वा गच्छन्त्याः त एवार्धदण्डाः इति पथ्य्ऽनुसरणम् ।
विश्वास-प्रस्तुतिः - 24
24 ह्रस्वप्रवासिनां शूद्रवैश्यक्षत्रियब्राह्मणानां भार्याः संवत्सर उत्तरं कालं आकाङ्क्षेरन् अप्रजाताः, संवत्सराधिकं प्रजाताः
मूलम् - 24

विश्वास-प्रस्तुतिः - 25
25 प्रतिविहिता द्विगुणं कालम्
मूलम् - 25
25 प्रतिविहिता द्विगुणं कालम्
विश्वास-प्रस्तुतिः - 26
26 अप्रतिविहिताः सुखावस्था बिभृयुः, परं चत्वारि वर्षाण्यष्टौ वा ज्ञातयः
मूलम् - 26
26 अप्रतिविहिताः सुखावस्था बिभृयुः, परं चत्वारि वर्षाण्यष्टौ वा ज्ञातयः
विश्वास-प्रस्तुतिः - 27
27 ततो यथादत्तं आदाय प्रमुञ्चेयुः
मूलम् - 27
27 ततो यथादत्तं आदाय प्रमुञ्चेयुः
विश्वास-प्रस्तुतिः - 28
28 ब्राह्मणं अधीयानं दशवर्षाण्यप्रजाता, द्वादश प्रजाता, राजपुरुषं आयुःक्षयाद् आकाङ्क्षेत
मूलम् - 28
28 ब्राह्मणं अधीयानं दशवर्षाण्यप्रजाता, द्वादश प्रजाता, राजपुरुषं आयुःक्षयाद् आकाङ्क्षेत
विश्वास-प्रस्तुतिः - 29
29 सवर्णतश्च प्रजाता नापवादं लभेत
मूलम् - 29
29 सवर्णतश्च प्रजाता नापवादं लभेत
विश्वास-प्रस्तुतिः - 30
30 कुटुम्ब।ऋद्धिलोपे वा सुखावस्थैर्विमुक्ता यथा इष्टं विन्देत, जीवितार्थं आपद्गता वा
मूलम् - 30
30 कुटुम्ब।ऋद्धिलोपे वा सुखावस्थैर्विमुक्ता यथा इष्टं विन्देत, जीवितार्थं आपद्गता वा
विश्वास-प्रस्तुतिः - 31
31 धर्मविवाहात् कुमारी परिग्रहीतारं अनाख्याय प्रोषितं अश्रूयमाणं सप्त तीर्थान्याकाङ्क्षेत, संवत्सरं श्रूयमाणम्
मूलम् - 31

विश्वास-प्रस्तुतिः - 32
32 आख्याय प्रोषितं अश्रूयमाणं पञ्च तीर्थान्याकाङ्क्षेत, दश श्रूयमाणम्
मूलम् - 32
32 आख्याय प्रोषितं अश्रूयमाणं पञ्च तीर्थान्याकाङ्क्षेत, दश श्रूयमाणम्
विश्वास-प्रस्तुतिः - 33
33 एकदेशदत्तशुल्कं त्रीणि तीर्थान्यश्रूयमाणं, श्रूयमाणं सप्त तीर्थान्याकाङ्क्षेत
मूलम् - 33
33 एकदेशदत्तशुल्कं त्रीणि तीर्थान्यश्रूयमाणं, श्रूयमाणं सप्त तीर्थान्याकाङ्क्षेत
विश्वास-प्रस्तुतिः - 34
34 दत्तशुल्कं पञ्च तीर्थान्यश्रूयमाणं, दश श्रूयमाणम्
मूलम् - 34
34 दत्तशुल्कं पञ्च तीर्थान्यश्रूयमाणं, दश श्रूयमाणम्
विश्वास-प्रस्तुतिः - 35
35 ततः परं धर्मस्थैर्विसृष्टा यथा इष्टं विन्देत
मूलम् - 35
35 ततः परं धर्मस्थैर्विसृष्टा यथा इष्टं विन्देत
विश्वास-प्रस्तुतिः - 36
36 तीर्थ उपरोधो हि धर्मवध इति कौटिल्यः इति ह्रस्वप्रवासः ॥
मूलम् - 36
36 तीर्थ उपरोधो हि धर्मवध इति कौटिल्यः इति ह्रस्वप्रवासः ॥
विश्वास-प्रस्तुतिः - 37
37 दीर्घप्रवासिनः प्रव्रजितस्य प्रेतस्य वा भार्या सप्त तीर्थान्याकाङ्क्षेत, संवत्सरं प्रजाता
मूलम् - 37
37 दीर्घप्रवासिनः प्रव्रजितस्य प्रेतस्य वा भार्या सप्त तीर्थान्याकाङ्क्षेत, संवत्सरं प्रजाता
विश्वास-प्रस्तुतिः - 38
38 ततः पतिसोदर्यं गच्छेत्
मूलम् - 38
38 ततः पतिसोदर्यं गच्छेत्
विश्वास-प्रस्तुतिः - 39
39 बहुषु प्रत्यासन्नं धार्मिकं भर्मसमर्थं कनिष्ठं अभार्यं वा
मूलम् - 39
39 बहुषु प्रत्यासन्नं धार्मिकं भर्मसमर्थं कनिष्ठं अभार्यं वा
विश्वास-प्रस्तुतिः - 40
40 तद्ऽभावेऽप्यसोदर्यं सपिण्डं कुल्यं वाऽऽसन्नम्
मूलम् - 40
40 तद्ऽभावेऽप्यसोदर्यं सपिण्डं कुल्यं वाऽऽसन्नम्
विश्वास-प्रस्तुतिः - 41
41 एतेषां एष एव क्रमः
मूलम् - 41
41 एतेषां एष एव क्रमः
विश्वास-प्रस्तुतिः - 42
42ab एतान् उत्क्रम्य दायादान् वेदने जारकर्मणि ।
42chd जारस्त्रीदातृवेत्तारः सम्प्राप्ताः सङ्ग्रहात्ययम् (इति)
मूलम् - 42