०२

Concerning marriage
(i) Law of marriage (I) Rules concerning women property(Ii) Concerning supersession (of a wife) by a second marriage

विश्वास-प्रस्तुतिः - 01

01 विवाहपूर्वो व्यवहारः

मूलम् - 01

01 विवाहपूर्वो व्यवहारः

विश्वास-प्रस्तुतिः - 02

02 कन्यादानं कन्यां अलङ्कृत्य ब्राह्मो विवाहः

मूलम् - 02

02 कन्यादानं कन्यां अलङ्कृत्य ब्राह्मो विवाहः

विश्वास-प्रस्तुतिः - 03

03 सहधर्मचर्या प्राजापत्यः

मूलम् - 03

03 सहधर्मचर्या प्राजापत्यः

विश्वास-प्रस्तुतिः - 04

04 गोमिथुनादानाद् आर्षः

मूलम् - 04

04 गोमिथुनादानाद् आर्षः

विश्वास-प्रस्तुतिः - 05

05 अन्तर्वेद्यां ऋत्विजे दानाद् दैवः

मूलम् - 05

05 अन्तर्वेद्यां ऋत्विजे दानाद् दैवः

विश्वास-प्रस्तुतिः - 06

06 मिथःसमवायाद् गान्धर्वः

मूलम् - 06

06 मिथःसमवायाद् गान्धर्वः

विश्वास-प्रस्तुतिः - 07

07 शुल्कादानाद् आसुरः

मूलम् - 07

07 शुल्कादानाद् आसुरः

विश्वास-प्रस्तुतिः - 08

08 प्रसह्यादानाद् राक्षसः

मूलम् - 08

08 प्रसह्यादानाद् राक्षसः

विश्वास-प्रस्तुतिः - 09

09 सुप्तमत्तादानात् पैशाचः

मूलम् - 09

09 सुप्तमत्तादानात् पैशाचः

विश्वास-प्रस्तुतिः - 10

10 पितृप्रमाणाश्चत्वारः पूर्वे धर्म्याः, मातापितृप्रमाणाः शेषाः

मूलम् - 10

10 पितृप्रमाणाश्चत्वारः पूर्वे धर्म्याः, मातापितृप्रमाणाः शेषाः

विश्वास-प्रस्तुतिः - 11

11 तौ हि शुल्कहरौ दुहितुः, अन्यतराभावेऽन्यतरो वा

मूलम् - 11

11 तौ हि शुल्कहरौ दुहितुः, अन्यतराभावेऽन्यतरो वा

विश्वास-प्रस्तुतिः - 12

12 द्वितीयं शुल्कं स्त्री हरेत

मूलम् - 12

12 द्वितीयं शुल्कं स्त्री हरेत

विश्वास-प्रस्तुतिः - 13

13 सर्वेषां प्रीत्य्।आरोपणं अप्रतिषिद्धम् इति विवाहधर्मः ।

मूलम् - 13

13 सर्वेषां प्रीत्य्।आरोपणं अप्रतिषिद्धम् इति विवाहधर्मः ।

विश्वास-प्रस्तुतिः - 14

14 वृत्तिराबन्ध्यं वा स्त्रीधनम्

मूलम् - 14

14 वृत्तिराबन्ध्यं वा स्त्रीधनम्

विश्वास-प्रस्तुतिः - 15

15 परद्विसाहस्रा स्थाप्या वृत्तिः, आबन्ध्यानियमः

मूलम् - 15

15 परद्विसाहस्रा स्थाप्या वृत्तिः, आबन्ध्यानियमः

विश्वास-प्रस्तुतिः - 16

16 तद् आत्मपुत्रस्नुषाभर्मणि प्रवासाप्रतिविधाने च भार्याया भोक्तुं अदोषः, प्रतिरोधकव्याधिदुर्भिक्षभयप्रतीकारे धर्मकार्ये च पत्युः, सम्भूय वा दम्पत्योर्मिथुनं प्रजातयोः

मूलम् - 16

16 तद् आत्मपुत्रस्नुषाभर्मणि प्रवासाप्रतिविधाने च भार्याया भोक्तुं अदोषः, प्रतिरोधकव्याधिदुर्भिक्षभयप्रतीकारे धर्मकार्ये च पत्युः, सम्भूय वा दम्पत्योर्मिथुनं प्रजातयोः

विश्वास-प्रस्तुतिः - 17

17 त्रिवर्ष उपभुक्तं च धर्मिष्ठेषु विवाहेषु नानुयुञ्जीत

मूलम् - 17

17 त्रिवर्ष उपभुक्तं च धर्मिष्ठेषु विवाहेषु नानुयुञ्जीत

विश्वास-प्रस्तुतिः - 18

18 गान्धर्वासुर उपभुक्तं स-वृद्धिकं उभयं दाप्येत, राक्षसपैशाच उपभुक्तं स्तेयं दद्यात्

मूलम् - 18

18 गान्धर्वासुर उपभुक्तं स-वृद्धिकं उभयं दाप्येत, राक्षसपैशाच उपभुक्तं स्तेयं दद्यात्

विश्वास-प्रस्तुतिः - 19

19 मृते भर्तरि धर्मकामा तदानीं एव स्थाप्याभरणं शुल्कशेषं च लभेत

मूलम् - 19

19 मृते भर्तरि धर्मकामा तदानीं एव स्थाप्याभरणं शुल्कशेषं च लभेत

विश्वास-प्रस्तुतिः - 20

20 लब्ध्वा वा विन्दमाना स-वृद्धिकं उभयं दाप्येत

मूलम् - 20

20 लब्ध्वा वा विन्दमाना स-वृद्धिकं उभयं दाप्येत

विश्वास-प्रस्तुतिः - 21

21 कुटुम्बकामा तु श्वशुरपतिदत्तं निवेशकाले लभेत

मूलम् - 21

21 कुटुम्बकामा तु श्वशुरपतिदत्तं निवेशकाले लभेत

विश्वास-प्रस्तुतिः - 22

22 निवेशकालं हि दीर्घप्रवासे व्याख्यास्यामः

मूलम् - 22

22 निवेशकालं हि दीर्घप्रवासे व्याख्यास्यामः

विश्वास-प्रस्तुतिः - 23

23 श्वशुरप्रातिलोम्येन वा निविष्टा श्वशुरपतिदत्तं जीयेत

मूलम् - 23

23 श्वशुरप्रातिलोम्येन वा निविष्टा श्वशुरपतिदत्तं जीयेत

विश्वास-प्रस्तुतिः - 24

24 ज्ञातिहस्ताद्ऽभिमृष्टाया ज्ञातयो यथागृहीतं दद्युः

मूलम् - 24

24 ज्ञातिहस्ताद्ऽभिमृष्टाया ज्ञातयो यथागृहीतं दद्युः

विश्वास-प्रस्तुतिः - 25

25 न्याय उपगतायाः प्रतिपत्ता स्त्रीधनं गोपयेत्

मूलम् - 25

25 न्याय उपगतायाः प्रतिपत्ता स्त्रीधनं गोपयेत्

विश्वास-प्रस्तुतिः - 26

26 पतिदायं विन्दमाना जीयेत

मूलम् - 26

26 पतिदायं विन्दमाना जीयेत

विश्वास-प्रस्तुतिः - 27

27 धर्मकामा भुञ्जीत

मूलम् - 27

27 धर्मकामा भुञ्जीत

विश्वास-प्रस्तुतिः - 28

28 पुत्रवती विन्दमाना स्त्रीधनं जीयेत

मूलम् - 28

28 पुत्रवती विन्दमाना स्त्रीधनं जीयेत

विश्वास-प्रस्तुतिः - 29

29 तत् तु स्त्रीधनं पुत्रा हरेयुः

मूलम् - 29

29 तत् तु स्त्रीधनं पुत्रा हरेयुः

विश्वास-प्रस्तुतिः - 30

30 पुत्रभरणार्थं वा विन्दमाना पुत्रार्थं स्फातीकुर्यात्

मूलम् - 30

30 पुत्रभरणार्थं वा विन्दमाना पुत्रार्थं स्फातीकुर्यात्

विश्वास-प्रस्तुतिः - 31

31 बहुपुरुषप्रजानां पुत्राणां यथापितृदत्तं स्त्रीधनं अवस्थापयेत्

मूलम् - 31

31 बहुपुरुषप्रजानां पुत्राणां यथापितृदत्तं स्त्रीधनं अवस्थापयेत्

विश्वास-प्रस्तुतिः - 32

32 कामकरणीयं अपि स्त्रीधनं विन्दमाना पुत्रसंस्थं कुर्यात्

मूलम् - 32

32 कामकरणीयं अपि स्त्रीधनं विन्दमाना पुत्रसंस्थं कुर्यात्

विश्वास-प्रस्तुतिः - 33

33 अपुत्रा पतिशयनं पालयन्ती गुरुसमीपे स्त्रीधनं आयुःक्षयाद् भुञ्जीत

मूलम् - 33

33 अपुत्रा पतिशयनं पालयन्ती गुरुसमीपे स्त्रीधनं आयुःक्षयाद् भुञ्जीत

विश्वास-प्रस्तुतिः - 34

34 आपद्ऽर्थं हि स्त्रीधनम्

मूलम् - 34

34 आपद्ऽर्थं हि स्त्रीधनम्

विश्वास-प्रस्तुतिः - 35

35 ऊर्ध्वं दायादं गच्छेत्

मूलम् - 35

35 ऊर्ध्वं दायादं गच्छेत्

विश्वास-प्रस्तुतिः - 36

36 जीवति भर्तरि मृतायाः पुत्रा दुहितरश्च स्त्रीधनं विभजेरन्, अपुत्राया दुहितरः, तद्ऽभावे भर्ता

मूलम् - 36

36 जीवति भर्तरि मृतायाः पुत्रा दुहितरश्च स्त्रीधनं विभजेरन्, अपुत्राया दुहितरः, तद्ऽभावे भर्ता

विश्वास-प्रस्तुतिः - 37

37 शुल्कं अन्वाधेयं अन्यद् वा बन्धुभिर्दत्तं बान्धवा हरेयुः इति स्त्रीधनकल्पः ।

मूलम् - 37

37 शुल्कं अन्वाधेयं अन्यद् वा बन्धुभिर्दत्तं बान्धवा हरेयुः इति स्त्रीधनकल्पः ।

विश्वास-प्रस्तुतिः - 38

38 वर्षाण्यष्टावप्रजायमानां अपुत्रां वन्ध्यां चाकाङ्क्षेत, दश निन्दुं, द्वादश कन्याप्रसविनीम्

मूलम् - 38

38 वर्षाण्यष्टावप्रजायमानां अपुत्रां वन्ध्यां चाकाङ्क्षेत, दश निन्दुं, द्वादश कन्याप्रसविनीम्

विश्वास-प्रस्तुतिः - 39

39 ततः पुत्रार्थी द्वितीयां विन्देत

मूलम् - 39

39 ततः पुत्रार्थी द्वितीयां विन्देत

विश्वास-प्रस्तुतिः - 40

40 तस्यातिक्रमे शुल्कं स्त्रीधनं अर्धं चाधिवेदनिकं दद्यात्, चतुर्विंशतिपणपरं च दण्डम्

मूलम् - 40

40 तस्यातिक्रमे शुल्कं स्त्रीधनं अर्धं चाधिवेदनिकं दद्यात्, चतुर्विंशतिपणपरं च दण्डम्

विश्वास-प्रस्तुतिः - 41

41 शुल्कं स्त्रीधनं अशुल्कस्त्रीधनायाः तत्प्रमाणं आधिवेदनिकं अनुरूपां च वृत्तिं दत्त्वा बह्वीरपि विन्देत

मूलम् - 41

41 शुल्कं स्त्रीधनं अशुल्कस्त्रीधनायाः तत्प्रमाणं आधिवेदनिकं अनुरूपां च वृत्तिं दत्त्वा बह्वीरपि विन्देत

विश्वास-प्रस्तुतिः - 42

42 पुत्रार्था हि स्त्रियः

मूलम् - 42

42 पुत्रार्था हि स्त्रियः

विश्वास-प्रस्तुतिः - 43

43 तीर्थसमवाये चासां यथाविवाहं पूर्व ऊढां जीवत्पुत्रां वा पूर्वं गच्छेत्

मूलम् - 43

43 तीर्थसमवाये चासां यथाविवाहं पूर्व ऊढां जीवत्पुत्रां वा पूर्वं गच्छेत्

विश्वास-प्रस्तुतिः - 44

44 तीर्थगूहनागमने षण्ँअवतिर्दण्डः

मूलम् - 44

44 तीर्थगूहनागमने षण्ँअवतिर्दण्डः

विश्वास-प्रस्तुतिः - 45

45 पुत्रवतीं धर्मकामां वन्ध्यां निन्दुं नीरजस्कां वा नाकामां उपेयात्

मूलम् - 45

45 पुत्रवतीं धर्मकामां वन्ध्यां निन्दुं नीरजस्कां वा नाकामां उपेयात्

विश्वास-प्रस्तुतिः - 46

46 न चाकामः पुरुषः कुष्ठिनीं उन्मत्तां वा गच्छेत्

मूलम् - 46

46 न चाकामः पुरुषः कुष्ठिनीं उन्मत्तां वा गच्छेत्

विश्वास-प्रस्तुतिः - 47

47 स्त्री तु पुत्रार्थं एवम्भूतं वा उपगच्छेत्

मूलम् - 47

47 स्त्री तु पुत्रार्थं एवम्भूतं वा उपगच्छेत्

विश्वास-प्रस्तुतिः - 48

48ab नीचत्वं परदेशं वा प्रस्थितो राजकिल्बिषी ।
48chd प्राणाभिहन्ता पतितः त्याज्यः क्लीबोऽपि वा पतिः (इति)

मूलम् - 48

48ab नीचत्वं परदेशं वा प्रस्थितो राजकिल्बिषी ।
48chd प्राणाभिहन्ता पतितः त्याज्यः क्लीबोऽपि वा पतिः (इति)