०१

Filing of law-suits

विश्वास-प्रस्तुतिः - 01

01 धर्मस्थाः त्रयः त्रयोऽमात्या जनपदसन्धिसङ्ग्रहणद्रोणमुखस्थानीयेषु व्यावहारिकान् अर्थान् कुर्युः

मूलम् - 01

01 धर्मस्थाः त्रयः त्रयोऽमात्या जनपदसन्धिसङ्ग्रहणद्रोणमुखस्थानीयेषु व्यावहारिकान् अर्थान् कुर्युः

विश्वास-प्रस्तुतिः - 02

02 तिरोहितान्तर्ऽगारनक्तारण्य उपध्य्।उपह्वरकृतांश्च व्यवहारान् प्रतिषेधयेयुः

मूलम् - 02

02 तिरोहितान्तर्ऽगारनक्तारण्य उपध्य्।उपह्वरकृतांश्च व्यवहारान् प्रतिषेधयेयुः

विश्वास-प्रस्तुतिः - 03

03 कर्तुः कारयितुः पूर्वः साहसदण्डः

मूलम् - 03

03 कर्तुः कारयितुः पूर्वः साहसदण्डः

विश्वास-प्रस्तुतिः - 04

04 श्रोतॄणां एक एकं प्रत्यर्धदण्डाः

मूलम् - 04

04 श्रोतॄणां एक एकं प्रत्यर्धदण्डाः

विश्वास-प्रस्तुतिः - 05

05 श्रद्धेयानां तु द्रव्यव्यपनयः

मूलम् - 05

05 श्रद्धेयानां तु द्रव्यव्यपनयः

विश्वास-प्रस्तुतिः - 06

06 परोक्षेणाधिक।ऋणग्रहणं अवक्तव्यकरा वा तिरोहिताः सिध्येयुः

मूलम् - 06

06 परोक्षेणाधिक।ऋणग्रहणं अवक्तव्यकरा वा तिरोहिताः सिध्येयुः

विश्वास-प्रस्तुतिः - 07

07 दायनिक्षेप उपनिधिविवाहयुक्ताः स्त्रीणां अनिष्कासिनीनां व्याधितानां चामूढसञ्ज्ञानां अन्तर्ऽगारकृताः सिध्येयुः

मूलम् - 07

विश्वास-प्रस्तुतिः - 08

08 साहसानुप्रवेशकलहविवाहराजनियोगयुक्ताः पूर्वरात्रव्यवहारिणां च रात्रिकृताः सिध्येयुः

मूलम् - 08

08 साहसानुप्रवेशकलहविवाहराजनियोगयुक्ताः पूर्वरात्रव्यवहारिणां च रात्रिकृताः सिध्येयुः

विश्वास-प्रस्तुतिः - 09

09 सार्थव्रजाश्रमव्याधचारणमध्येष्वरण्यचराणां अरण्यकृताः सिध्येयुः

मूलम् - 09

09 सार्थव्रजाश्रमव्याधचारणमध्येष्वरण्यचराणां अरण्यकृताः सिध्येयुः

विश्वास-प्रस्तुतिः - 10

10 गूढाजीविषु च उपधिकृताः सिध्येयुः

मूलम् - 10

10 गूढाजीविषु च उपधिकृताः सिध्येयुः

विश्वास-प्रस्तुतिः - 11

11 मिथःसमवाये च उपह्वरकृताः सिध्येयुः

मूलम् - 11

11 मिथःसमवाये च उपह्वरकृताः सिध्येयुः

विश्वास-प्रस्तुतिः - 12

12 अतोऽन्यथा न सिध्येयुः, अपाश्रयवद्भिश्च कृताः, पितृमता पुत्रेण, पित्रा पुत्रवता, निष्कुलेन भ्रात्रा, कनिष्ठेनाविभक्तांशेन, पतिमत्या पुत्रवत्या च स्त्रिया, दासाहितकाभ्यां, अप्राप्तातीतव्यवहाराभ्यां, अभिशस्तप्रव्रजितन्यङ्गव्यसनिभिश्च, अन्यत्र निषृष्टव्यवहारेभ्यः

मूलम् - 12

विश्वास-प्रस्तुतिः - 13

13 तत्रापि क्रुद्धेनार्तेन मत्तेन उन्मत्तेनावगृहीतेन वा कृता व्यवहारा न सिध्येयुः

मूलम् - 13

13 तत्रापि क्रुद्धेनार्तेन मत्तेन उन्मत्तेनावगृहीतेन वा कृता व्यवहारा न सिध्येयुः

विश्वास-प्रस्तुतिः - 14

14 कर्तृकारयितृश्रोतॄणां पृथग् यथा उक्ता दण्डाः

मूलम् - 14

14 कर्तृकारयितृश्रोतॄणां पृथग् यथा उक्ता दण्डाः

विश्वास-प्रस्तुतिः - 15

15 स्वे स्वे तु वर्गे देशे काले च स्वकरणकृताः सम्पूर्णाचाराः शुद्धदेशा दृष्टरूपलक्षणप्रमाणगुणाः सर्वव्यवहाराः सिध्येयुः

मूलम् - 15

विश्वास-प्रस्तुतिः - 16

16 पश्चिमं च एषां करणं आदेशाधिवर्जं श्रद्धेयम् इति व्यवहारस्थापना ।

मूलम् - 16

16 पश्चिमं च एषां करणं आदेशाधिवर्जं श्रद्धेयम् इति व्यवहारस्थापना ।

विश्वास-प्रस्तुतिः - 17

17 संवत्सरं ऋतुं मासं पक्षं दिवसं करणं अधिकरणं ऋणं वेदकावेदकयोः कृतसमर्थावस्थयोर्देशग्रामजातिगोत्रनामकर्माणि चाभिलिख्य वादिप्रतिवादिप्रश्नान् अर्थानुपूर्व्या निवेशयेत्

मूलम् - 17

विश्वास-प्रस्तुतिः - 18

18 निविष्टांश्चावेक्षेत

मूलम् - 18

18 निविष्टांश्चावेक्षेत

विश्वास-प्रस्तुतिः - 19

19 निबद्धं वादं उत्सृज्यान्यं वादं सङ्क्रामति, पूर्व उक्तं पश्चिमेनार्थेन नाभिसन्धत्ते, परवाक्यं अनभिग्राह्यं अभिग्राह्यावतिष्ठते, प्रतिज्ञाय देशं निर्दिश इत्युक्ते न निर्दिशति, हीनदेशं अदेशं वा निर्दिशति, निर्दिष्टाद् देशाद् अन्यं देशं उपस्थापयति, उपस्थिते देशेऽर्थवचनं न एवं इत्यपव्ययते, साक्षिभिरवधृतं न इच्छति, असम्भाष्ये देशे साक्षिभिर्मिथः सम्भाषते, इति परा उक्तहेतवः

मूलम् - 19

विश्वास-प्रस्तुतिः - 20

20 परा उक्तदण्डः पञ्चबन्धः

मूलम् - 20

20 परा उक्तदण्डः पञ्चबन्धः

विश्वास-प्रस्तुतिः - 21

21 स्वयंवादिदण्डो दशबन्धः

मूलम् - 21

21 स्वयंवादिदण्डो दशबन्धः

विश्वास-प्रस्तुतिः - 22

22 पुरुषभृतिरष्टांशः

मूलम् - 22

22 पुरुषभृतिरष्टांशः

विश्वास-प्रस्तुतिः - 23

23 पथिभक्तं अर्घविशेषतः

मूलम् - 23

23 पथिभक्तं अर्घविशेषतः

विश्वास-प्रस्तुतिः - 24

24 तद् उभयं नियम्यो दद्यात्

मूलम् - 24

24 तद् उभयं नियम्यो दद्यात्

विश्वास-प्रस्तुतिः - 25

25 अभियुक्तो न प्रत्यभियुञ्जीत, अन्यत्र कलहसाहससार्थसमवायेभ्यः

मूलम् - 25

25 अभियुक्तो न प्रत्यभियुञ्जीत, अन्यत्र कलहसाहससार्थसमवायेभ्यः

विश्वास-प्रस्तुतिः - 26

26 न चाभियुक्तेऽभियोगेऽस्ति

मूलम् - 26

26 न चाभियुक्तेऽभियोगेऽस्ति

विश्वास-प्रस्तुतिः - 27

27 अभियोक्ता चेत् प्रत्युक्तः तद्ऽहरेव न प्रतिब्रूयात् परा उक्तः स्यात्

मूलम् - 27

27 अभियोक्ता चेत् प्रत्युक्तः तद्ऽहरेव न प्रतिब्रूयात् परा उक्तः स्यात्

विश्वास-प्रस्तुतिः - 28

28 कृतकार्यविनिश्चयो ह्यभियोक्ता नाभियुक्तः

मूलम् - 28

28 कृतकार्यविनिश्चयो ह्यभियोक्ता नाभियुक्तः

विश्वास-प्रस्तुतिः - 29

29 तस्याप्रतिब्रुवतः त्रिरात्रं सप्तरात्रं इति

मूलम् - 29

29 तस्याप्रतिब्रुवतः त्रिरात्रं सप्तरात्रं इति

विश्वास-प्रस्तुतिः - 30

30 अत ऊर्ध्वं त्रिपणावरार्ध्यं द्वादशपणपरं दण्डं कुर्यात्

मूलम् - 30

30 अत ऊर्ध्वं त्रिपणावरार्ध्यं द्वादशपणपरं दण्डं कुर्यात्

विश्वास-प्रस्तुतिः - 31

31 त्रिपक्षाद् ऊर्ध्वं अप्रतिब्रुवतः परा उक्तदण्डं कृत्वा यान्यस्य द्रव्याणि स्युः ततोऽभियोक्तारं प्रतिपादयेद्, अन्यत्र वृत्त्य्।उपकरणेभ्यः

मूलम् - 31

विश्वास-प्रस्तुतिः - 32

32 तद् एव निष्पततोऽभियुक्तस्य कुर्यात्

मूलम् - 32

32 तद् एव निष्पततोऽभियुक्तस्य कुर्यात्

विश्वास-प्रस्तुतिः - 33

33 अभियोक्तुर्निष्पातसमकालः परा उक्तभावः

मूलम् - 33

33 अभियोक्तुर्निष्पातसमकालः परा उक्तभावः

विश्वास-प्रस्तुतिः - 34

34 प्रेतस्य व्यसनिनो वा साक्षिवचनं असारम्

मूलम् - 34

34 प्रेतस्य व्यसनिनो वा साक्षिवचनं असारम्

विश्वास-प्रस्तुतिः - 35

35 अभियोक्ता दण्डं दत्त्वा कर्म कारयेत्

मूलम् - 35

35 अभियोक्ता दण्डं दत्त्वा कर्म कारयेत्

विश्वास-प्रस्तुतिः - 36

36 आधिं वा स कामं प्रवेशयेत्

मूलम् - 36

36 आधिं वा स कामं प्रवेशयेत्

विश्वास-प्रस्तुतिः - 37

37 रक्षोघ्नरक्षितं वा कर्मणा प्रतिपादयेद्, अन्यत्र ब्राह्मणात्

मूलम् - 37

37 रक्षोघ्नरक्षितं वा कर्मणा प्रतिपादयेद्, अन्यत्र ब्राह्मणात्

विश्वास-प्रस्तुतिः - 38

38ab चतुर्वर्णाश्रमस्यायं लोकस्याचाररक्षणात् ।
38chd नश्यतां सर्वधर्माणां राजा धर्मप्रवर्तकः

मूलम् - 38

38ab चतुर्वर्णाश्रमस्यायं लोकस्याचाररक्षणात् ।
38chd नश्यतां सर्वधर्माणां राजा धर्मप्रवर्तकः

विश्वास-प्रस्तुतिः - 39

39ab धर्मश्च व्यवहारश्च चरित्रं राजशासनम् ।
39chd विवादार्थश्चतुष्पादः पश्चिमः पूर्वबाधकः

मूलम् - 39

39ab धर्मश्च व्यवहारश्च चरित्रं राजशासनम् ।
39chd विवादार्थश्चतुष्पादः पश्चिमः पूर्वबाधकः

विश्वास-प्रस्तुतिः - 40

40ab तत्र सत्ये स्थितो धर्मो व्यवहारः तु साक्षिषु ।
40chd चरित्रं सङ्ग्रहे पुंसां राज्ञां आज्ञा तु शासनम्

मूलम् - 40

विश्वास-प्रस्तुतिः - 41

41ab राज्ञः स्वधर्मः स्वर्गाय प्रजा धर्मेण रक्षितुः ।
41chd अरक्षितुर्वा क्षेप्तुर्वा मिथ्यादण्डं अतोऽन्यथा

मूलम् - 41

विश्वास-प्रस्तुतिः - 42

42ab दण्डो हि केवलो लोकं परं च इमं च रक्षति ।
42chd राज्ञा पुत्रे च शत्रौ च यथादोषं समं धृतः

मूलम् - 42

42ab दण्डो हि केवलो लोकं परं च इमं च रक्षति ।
42chd राज्ञा पुत्रे च शत्रौ च यथादोषं समं धृतः

विश्वास-प्रस्तुतिः - 43

43ab अनुशासद्द् हि धर्मेण व्यवहारेण संस्थया ।
43chd न्यायेन च चतुर्थेन चतुर्ऽन्तां वा महीं जयेत्

मूलम् - 43

43ab अनुशासद्द् हि धर्मेण व्यवहारेण संस्थया ।
43chd न्यायेन च चतुर्थेन चतुर्ऽन्तां वा महीं जयेत्

विश्वास-प्रस्तुतिः - 44

44ab संस्था या धर्मशास्त्रेण शास्त्रं वा व्यावहारिकम् ।
44chd यस्मिन्न् अर्थे विरुध्येत धर्मेणार्थं विनिर्णयेत्

मूलम् - 44

विश्वास-प्रस्तुतिः - 45

45ab शास्त्रं विप्रतिपद्येत धर्मे न्यायेन केनचित् ।
45chd न्यायः तत्र प्रमाणं स्यात् तत्र पाठो हि नश्यति

मूलम् - 45

विश्वास-प्रस्तुतिः - 46

46ab दृष्टदोषः स्वयंवादः स्वपक्षपरपक्षयोः ।
46chd अनुयोगार्जवं हेतुः शपथश्चार्थसाधकः

मूलम् - 46

46ab दृष्टदोषः स्वयंवादः स्वपक्षपरपक्षयोः ।
46chd अनुयोगार्जवं हेतुः शपथश्चार्थसाधकः

विश्वास-प्रस्तुतिः - 47

47ab पूर्व उत्तरार्थव्याघाते साक्षिवक्तव्यकारणे ।
47chd चारहस्ताच्च निष्पाते प्रदेष्टव्यः पराजयः (इति)

मूलम् - 47