३६

Rules for the city-superintendent

विश्वास-प्रस्तुतिः - 01

01 समाहर्तृवन्नागरिको नगरं चिन्तयेत्

मूलम् - 01

01 समाहर्तृवन्नागरिको नगरं चिन्तयेत्

विश्वास-प्रस्तुतिः - 02

02 दशकुलीं गोपो विंशतिकुलीं चत्वारिंशत्कुलीं वा

मूलम् - 02

02 दशकुलीं गोपो विंशतिकुलीं चत्वारिंशत्कुलीं वा

विश्वास-प्रस्तुतिः - 03

03 स तस्यां स्त्रीपुरुषाणां जातिगोत्रनामकर्मभिः जङ्घाग्रं आयव्ययौ च विद्यात्

मूलम् - 03

03 स तस्यां स्त्रीपुरुषाणां जातिगोत्रनामकर्मभिः जङ्घाग्रं आयव्ययौ च विद्यात्

विश्वास-प्रस्तुतिः - 04

04 एवं दुर्गचतुर्भागं स्थानिकश्चिन्तयेत्

मूलम् - 04

04 एवं दुर्गचतुर्भागं स्थानिकश्चिन्तयेत्

विश्वास-प्रस्तुतिः - 05

05 धर्मावसथिनः पाषण्डिपथिकान् आवेद्य वासयेयुः, स्वप्रत्ययाश्च तपस्विनः श्रोत्रियांश्च

मूलम् - 05

05 धर्मावसथिनः पाषण्डिपथिकान् आवेद्य वासयेयुः, स्वप्रत्ययाश्च तपस्विनः श्रोत्रियांश्च

विश्वास-प्रस्तुतिः - 06

06 कारुशिल्पिनः स्वकर्मस्थानेषु स्वजनं वासयेयुः, वैदेहकाश्चान्योन्यं स्वकर्मस्थानेषु

मूलम् - 06

06 कारुशिल्पिनः स्वकर्मस्थानेषु स्वजनं वासयेयुः, वैदेहकाश्चान्योन्यं स्वकर्मस्थानेषु

विश्वास-प्रस्तुतिः - 07

07 पण्यानां अदेशकालविक्रेतारं अस्वकरणं च निवेदयेयुः

मूलम् - 07

07 पण्यानां अदेशकालविक्रेतारं अस्वकरणं च निवेदयेयुः

विश्वास-प्रस्तुतिः - 08

08 शौण्डिकपाक्वमांसिकाउदनिकरूपाजीवाः परिज्ञातं आवासयेयुः

मूलम् - 08

08 शौण्डिकपाक्वमांसिकाउदनिकरूपाजीवाः परिज्ञातं आवासयेयुः

विश्वास-प्रस्तुतिः - 09

09 अतिव्ययकर्तारं अत्याहितकर्माणं च निवेदयेयुः

मूलम् - 09

09 अतिव्ययकर्तारं अत्याहितकर्माणं च निवेदयेयुः

विश्वास-प्रस्तुतिः - 10

10 चिकित्सकः प्रच्छन्नव्रणप्रतीकारकारयितारं अपथ्यकारिणं च गृहस्वामी च निवेद्य गोपस्थानिकयोर्मुच्येत, अन्यथा तुल्यदोषः स्यात्

मूलम् - 10

विश्वास-प्रस्तुतिः - 11

11 प्रस्थितागतौ च निवेदयेत्, अन्यथा रात्रिदोषं भजेत

मूलम् - 11

11 प्रस्थितागतौ च निवेदयेत्, अन्यथा रात्रिदोषं भजेत

विश्वास-प्रस्तुतिः - 12

12 क्षेमरात्रिषु त्रिपणं दद्यात्

मूलम् - 12

12 क्षेमरात्रिषु त्रिपणं दद्यात्

विश्वास-प्रस्तुतिः - 13

13 पथिक उत्पथिकाश्च बहिर्ऽन्तश्च नगरस्य देवगृहपुण्यस्थानवनश्मशानेषु स-व्रणं अनिष्ट उपकरणं उद्भाण्डीकृतं आविग्नं अतिस्वप्नं अध्वक्लान्तं अपूर्वं वा गृह्णीयुः

मूलम् - 13

विश्वास-प्रस्तुतिः - 14

14 एवं अभ्यन्तरे शून्यनिवेशावेशनशौण्डिकाउदनिकपाक्वमांसिकद्यूतपाषण्डावासेषु विचयं कुर्युः

मूलम् - 14

14 एवं अभ्यन्तरे शून्यनिवेशावेशनशौण्डिकाउदनिकपाक्वमांसिकद्यूतपाषण्डावासेषु विचयं कुर्युः

विश्वास-प्रस्तुतिः - 15

15 अग्निप्रतीकारं च ग्रीष्मे

मूलम् - 15

15 अग्निप्रतीकारं च ग्रीष्मे

विश्वास-प्रस्तुतिः - 16

16 मध्यमयोरह्नश्चतुर्भागयोरष्टभागोऽग्निदण्डः

मूलम् - 16

16 मध्यमयोरह्नश्चतुर्भागयोरष्टभागोऽग्निदण्डः

विश्वास-प्रस्तुतिः - 17

17 बहिर्ऽधिश्रयणं वा कुर्युः

मूलम् - 17

17 बहिर्ऽधिश्रयणं वा कुर्युः

विश्वास-प्रस्तुतिः - 18

18 पादः पञ्चघटीनां कुम्भद्रोणिनिह्श्रेणीपरशुशूर्पाङ्कुशकचग्रहणीदृतीनां चाकरणे

मूलम् - 18

18 पादः पञ्चघटीनां कुम्भद्रोणिनिह्श्रेणीपरशुशूर्पाङ्कुशकचग्रहणीदृतीनां चाकरणे

विश्वास-प्रस्तुतिः - 19

19 तृणकटच्छन्नान्यपनयेत्

मूलम् - 19

19 तृणकटच्छन्नान्यपनयेत्

विश्वास-प्रस्तुतिः - 20

20 अग्निजीविन एकस्थान् वासयेत्

मूलम् - 20

20 अग्निजीविन एकस्थान् वासयेत्

विश्वास-प्रस्तुतिः - 21

21 स्वगृहप्रद्वारेषु गृहस्वामिनो वसेयुः असम्पातिनो रात्रौ

मूलम् - 21

21 स्वगृहप्रद्वारेषु गृहस्वामिनो वसेयुः असम्पातिनो रात्रौ

विश्वास-प्रस्तुतिः - 22

22 रथ्यासु कुटव्रजाः सहस्रं तिष्ठेयुः, चतुष्पथद्वारराजपरिग्रहेषु च

मूलम् - 22

22 रथ्यासु कुटव्रजाः सहस्रं तिष्ठेयुः, चतुष्पथद्वारराजपरिग्रहेषु च

विश्वास-प्रस्तुतिः - 23

23 प्रदीप्तं अनभिधावतो गृहस्वामिनो द्वादशपणो दण्डः, षट्पणोऽवक्रयिणः

मूलम् - 23

23 प्रदीप्तं अनभिधावतो गृहस्वामिनो द्वादशपणो दण्डः, षट्पणोऽवक्रयिणः

विश्वास-प्रस्तुतिः - 24

24 प्रमादाद् दीप्तेषु चतुष्पञ्चाशत्पणो दण्डः

मूलम् - 24

24 प्रमादाद् दीप्तेषु चतुष्पञ्चाशत्पणो दण्डः

विश्वास-प्रस्तुतिः - 25

25 प्रदीपिकोऽग्निना वध्यः

मूलम् - 25

25 प्रदीपिकोऽग्निना वध्यः

विश्वास-प्रस्तुतिः - 26

26 पांसुन्यासे रथ्यायां अष्टभागो दण्डः, पङ्क उदकसम्निरोधे पादः

मूलम् - 26

26 पांसुन्यासे रथ्यायां अष्टभागो दण्डः, पङ्क उदकसम्निरोधे पादः

विश्वास-प्रस्तुतिः - 27

27 राजमार्गे द्विगुणः

मूलम् - 27

27 राजमार्गे द्विगुणः

विश्वास-प्रस्तुतिः - 28

28 पण्यस्थान उदकस्थानदेवगृहराजपरिग्रहेषु पण उत्तरा विष्टादण्डाः, मूत्रेष्वर्धदण्डाः

मूलम् - 28

28 पण्यस्थान उदकस्थानदेवगृहराजपरिग्रहेषु पण उत्तरा विष्टादण्डाः, मूत्रेष्वर्धदण्डाः

विश्वास-प्रस्तुतिः - 29

29 भैषज्यव्याधिभयनिमित्तं अदण्ड्याः

मूलम् - 29

29 भैषज्यव्याधिभयनिमित्तं अदण्ड्याः

विश्वास-प्रस्तुतिः - 30

30 मार्जारश्वनकुलसर्पप्रेतानां नगरस्यान्तर्।उत्सर्गे त्रिपणो दण्डः, खर उष्ट्राश्वतराश्वप्रेतानां षट्पणः, मनुष्यप्रेतानां पञ्चाशत्पणः

मूलम् - 30

विश्वास-प्रस्तुतिः - 31

31 मार्गविपर्यासे शवद्वाराद् अन्यतश्च शवनिर्णयने पूर्वः साहसदण्डः

मूलम् - 31

31 मार्गविपर्यासे शवद्वाराद् अन्यतश्च शवनिर्णयने पूर्वः साहसदण्डः

विश्वास-प्रस्तुतिः - 32

32 द्वाःस्थानां द्विशतम्

मूलम् - 32

32 द्वाःस्थानां द्विशतम्

विश्वास-प्रस्तुतिः - 33

33 श्मशानाद् अन्यत्र न्यासे दहने च द्वादशपणो दण्डः

मूलम् - 33

33 श्मशानाद् अन्यत्र न्यासे दहने च द्वादशपणो दण्डः

विश्वास-प्रस्तुतिः - 34

34 विषण्णालिकं उभयतोरात्रं यामतूर्यम्

मूलम् - 34

34 विषण्णालिकं उभयतोरात्रं यामतूर्यम्

विश्वास-प्रस्तुतिः - 35

35 तूर्यशब्दे राज्ञो गृहाभ्याशे सपादपणंऽक्षणताडनं प्रथमपश्चिमयामिकं, मध्यमयामिकं द्विगुणं, अन्तश्चतुर्गुणम्

मूलम् - 35

विश्वास-प्रस्तुतिः - 36

36 शङ्कनीये देशे लिङ्गे पूर्वापदाने च गृहीतं अनुयुञ्जीत

मूलम् - 36

36 शङ्कनीये देशे लिङ्गे पूर्वापदाने च गृहीतं अनुयुञ्जीत

विश्वास-प्रस्तुतिः - 37

37 राजपरिग्रह उपगमने नगररक्षाऽऽरोहणे च मध्यमः साहसदण्डः

मूलम् - 37

37 राजपरिग्रह उपगमने नगररक्षाऽऽरोहणे च मध्यमः साहसदण्डः

विश्वास-प्रस्तुतिः - 38

38 सूतिकाचिकित्सकप्रेतप्रदीपयाननागरिकतूर्यप्रेक्षाऽग्निनिमित्तं मुद्राभिश्चाग्राह्याः

मूलम् - 38

38 सूतिकाचिकित्सकप्रेतप्रदीपयाननागरिकतूर्यप्रेक्षाऽग्निनिमित्तं मुद्राभिश्चाग्राह्याः

विश्वास-प्रस्तुतिः - 39

39 चाररात्रिषु प्रच्छन्नविपरीतवेषाः प्रव्रजिता दण्डशस्त्रहस्ताश्च मनुष्या दोषतो दण्ड्याः

मूलम् - 39

39 चाररात्रिषु प्रच्छन्नविपरीतवेषाः प्रव्रजिता दण्डशस्त्रहस्ताश्च मनुष्या दोषतो दण्ड्याः

विश्वास-प्रस्तुतिः - 40

40 रक्षिणां अवार्यं वारयतां वार्यं चावारयतां क्षणद्विगुणो दण्डः

मूलम् - 40

40 रक्षिणां अवार्यं वारयतां वार्यं चावारयतां क्षणद्विगुणो दण्डः

विश्वास-प्रस्तुतिः - 41

41 स्त्रियं दासीं अधिमेहयतां पूर्वः साहसदण्डः, अदासीं मध्यमः, कृतावरोधां उत्तमः, कुलस्त्रियं वधः

मूलम् - 41

41 स्त्रियं दासीं अधिमेहयतां पूर्वः साहसदण्डः, अदासीं मध्यमः, कृतावरोधां उत्तमः, कुलस्त्रियं वधः

विश्वास-प्रस्तुतिः - 42

42 चेतनाचेतनिकं रात्रिदोषं अशंसतो नागरिकस्य दोषानुरूपो दण्डः, प्रमादस्थाने च

मूलम् - 42

42 चेतनाचेतनिकं रात्रिदोषं अशंसतो नागरिकस्य दोषानुरूपो दण्डः, प्रमादस्थाने च

विश्वास-प्रस्तुतिः - 43

43 नित्यं उदकस्थानमार्गभ्रमच्छन्नपथवप्रप्राकाररक्षाऽवेक्षणं नष्टप्रस्मृतापसृतानां च रक्षणम्

मूलम् - 43

43 नित्यं उदकस्थानमार्गभ्रमच्छन्नपथवप्रप्राकाररक्षाऽवेक्षणं नष्टप्रस्मृतापसृतानां च रक्षणम्

विश्वास-प्रस्तुतिः - 44

44 बन्धनागारे च बालवृद्धव्याधितानाथानां जातनक्षत्रपौर्णमासीषु विसर्गः

मूलम् - 44

44 बन्धनागारे च बालवृद्धव्याधितानाथानां जातनक्षत्रपौर्णमासीषु विसर्गः

विश्वास-प्रस्तुतिः - 45

45 पण्यशीलाः समयानुबद्धा वा दोषनिष्क्रयं दद्युः

मूलम् - 45

45 पण्यशीलाः समयानुबद्धा वा दोषनिष्क्रयं दद्युः

विश्वास-प्रस्तुतिः - 46

46ab दिवसे पञ्चरात्रे वा बन्धनस्थान् विशोधयेत् ।
46chd कर्मणा कायदण्डेन हिरण्यानुग्रहेण वा

मूलम् - 46

46ab दिवसे पञ्चरात्रे वा बन्धनस्थान् विशोधयेत् ।
46chd कर्मणा कायदण्डेन हिरण्यानुग्रहेण वा

विश्वास-प्रस्तुतिः - 47

47ab अपूर्वदेशाधिगमे युवराजाभिषेचने ।
47chd पुत्रजन्मनि वा मोक्षो बन्धनस्य विधीयते (इति)

मूलम् - 47