Superintendent of passports
Superintendent of pasture lands
विश्वास-प्रस्तुतिः - 01
01 मुद्राऽध्यक्षो मुद्रां माषकेण दद्यात्
मूलम् - 01
01 मुद्राऽध्यक्षो मुद्रां माषकेण दद्यात्
विश्वास-प्रस्तुतिः - 02
02 स-मुद्रो जनपदं प्रवेष्टुं निष्क्रमितुं वा लभेत
मूलम् - 02
02 स-मुद्रो जनपदं प्रवेष्टुं निष्क्रमितुं वा लभेत
विश्वास-प्रस्तुतिः - 03
03 द्वादशपणं अमुद्रो जानपदो दद्यात्
मूलम् - 03
03 द्वादशपणं अमुद्रो जानपदो दद्यात्
विश्वास-प्रस्तुतिः - 04
04 कूटमुद्रायां पूर्वः साहसदण्डः तिरोजनपदस्य उत्तमः
मूलम् - 04
04 कूटमुद्रायां पूर्वः साहसदण्डः तिरोजनपदस्य उत्तमः
विश्वास-प्रस्तुतिः - 05
05 विवीताध्यक्षो मुद्रां पश्येत्
मूलम् - 05
05 विवीताध्यक्षो मुद्रां पश्येत्
विश्वास-प्रस्तुतिः - 06
06 ग्रामान्तरेषु च विवीतं स्थापयेत्
मूलम् - 06
06 ग्रामान्तरेषु च विवीतं स्थापयेत्
विश्वास-प्रस्तुतिः - 07
07 चोरव्यालभयान्निम्नारण्यानि शोधयेत्
मूलम् - 07
07 चोरव्यालभयान्निम्नारण्यानि शोधयेत्
विश्वास-प्रस्तुतिः - 08
08 अनुदके कूपसेतुबन्ध उत्सान् स्थापयेत्, पुष्पफलवाटांश्च
मूलम् - 08
08 अनुदके कूपसेतुबन्ध उत्सान् स्थापयेत्, पुष्पफलवाटांश्च
विश्वास-प्रस्तुतिः - 09
09 लुब्धकश्वगणिनः परिव्रजेयुररण्यानि
मूलम् - 09
09 लुब्धकश्वगणिनः परिव्रजेयुररण्यानि
विश्वास-प्रस्तुतिः - 10
10 तस्करामित्राभ्यागमे शङ्खदुन्दुभिशब्दं अग्राह्याः कुर्युः शैलवृक्षाधिरूढा वा शीघ्रवाहना वा
मूलम् - 10
10 तस्करामित्राभ्यागमे शङ्खदुन्दुभिशब्दं अग्राह्याः कुर्युः शैलवृक्षाधिरूढा वा शीघ्रवाहना वा
विश्वास-प्रस्तुतिः - 11
11 अमित्राटवीसञ्चारं च राज्ञो गृहकपोतैर्मुद्रायुक्तैर्हारयेत्, धूमाग्निपरम्परया वा
मूलम् - 11
11 अमित्राटवीसञ्चारं च राज्ञो गृहकपोतैर्मुद्रायुक्तैर्हारयेत्, धूमाग्निपरम्परया वा
विश्वास-प्रस्तुतिः - 12
12ab द्रव्यहस्तिवनाजीवं वर्तनीं चोररक्षणम् ।
12chd सार्थातिवाह्यं गोरक्ष्यं व्यवहारं च कारयेत् (इति)
मूलम् - 12
12ab द्रव्यहस्तिवनाजीवं वर्तनीं चोररक्षणम् ।
12chd सार्थातिवाह्यं गोरक्ष्यं व्यवहारं च कारयेत् (इति)