Superintendent of chariots
Superintendent of foot-soldiers
Activity of the commandant of the army
विश्वास-प्रस्तुतिः - 01
01 अश्वाध्यक्षेण रथाध्यक्षो व्याख्यातः
मूलम् - 01
01 अश्वाध्यक्षेण रथाध्यक्षो व्याख्यातः
विश्वास-प्रस्तुतिः - 02
02 स रथकर्मान्तान् कारयेत्
मूलम् - 02
02 स रथकर्मान्तान् कारयेत्
विश्वास-प्रस्तुतिः - 03
03 दशपुरुषो द्वादशान्तरो रथः
मूलम् - 03
03 दशपुरुषो द्वादशान्तरो रथः
विश्वास-प्रस्तुतिः - 04
04 तस्माद् एकान्तरावरा आषड्ऽन्तराद् इति सप्त रथाः
मूलम् - 04
04 तस्माद् एकान्तरावरा आषड्ऽन्तराद् इति सप्त रथाः
विश्वास-प्रस्तुतिः - 05
05 देवरथपुष्यरथसाङ्ग्रामिकपारियाणिकपरपुराभियानिकवैनयिकांश्च रथान् कारयेत्
मूलम् - 05
05 देवरथपुष्यरथसाङ्ग्रामिकपारियाणिकपरपुराभियानिकवैनयिकांश्च रथान् कारयेत्
विश्वास-प्रस्तुतिः - 06
06 इष्व्ऽस्त्रप्रहरणावरण उपकरणकल्पनाः सारथिरथिकरथ्यानां च कर्मस्वायोगं विद्यात्, आकर्मभ्यश्च भक्तवेतनं भृतानां अभृतानां च योग्यारक्षाऽनुष्ठानं अर्थमानकर्म च
मूलम् - 06

विश्वास-प्रस्तुतिः - 07
07 एतेन पत्त्य्ऽध्यक्षो व्याख्यातः
मूलम् - 07
07 एतेन पत्त्य्ऽध्यक्षो व्याख्यातः
विश्वास-प्रस्तुतिः - 08
08 स मौलभृतश्रेणिमित्रामित्राटवीबलानां सारफल्गुतां विद्यात्, निम्नस्थलप्रकाशकूटखनकाकाशदिवारात्रियुद्धव्यायामं च, आयोगं अयोगं च कर्मसु
मूलम् - 08

विश्वास-प्रस्तुतिः - 09
09 तेद् एव सेनापतिः सर्वयुद्धप्रहरणविद्याविनीतो हस्त्य्ऽश्वरथचर्यासङ्घुष्टश्चतुर्ऽङ्गस्य बलस्यानुष्ठानाधिष्ठानं विद्यात्
मूलम् - 09

विश्वास-प्रस्तुतिः - 10
10 स्वभूमिं युद्धकालं प्रत्यनीकं अभिन्नभेदनं भिन्नसन्धानं संहतभेदनं भिन्नवधं दुर्गवधं यात्राकालं च पश्येत्
मूलम् - 10

विश्वास-प्रस्तुतिः - 11
11ab तूर्यध्वजपताकाभिर्व्यूहसञ्ज्ञाः प्रकल्पयेत् ।
11chd स्थाने याने प्रहरणे सैन्यानां विनये रतः (इति)
मूलम् - 11