Activity of elephants
विश्वास-प्रस्तुतिः - 01
01 कर्मस्कन्धाश्चत्वारो दम्यः साम्नाह्य औपवाह्यो व्यालश्च
मूलम् - 01
01 कर्मस्कन्धाश्चत्वारो दम्यः साम्नाह्य औपवाह्यो व्यालश्च
विश्वास-प्रस्तुतिः - 02
02 तत्र दम्यः पञ्चविधः स्कन्धगतः स्तम्भगतो वारिगतोऽवपातगतो यूथगतश्च इति
मूलम् - 02
02 तत्र दम्यः पञ्चविधः स्कन्धगतः स्तम्भगतो वारिगतोऽवपातगतो यूथगतश्च इति
विश्वास-प्रस्तुतिः - 03
03 तस्य उपविचारो विक्ककर्म
मूलम् - 03
03 तस्य उपविचारो विक्ककर्म
विश्वास-प्रस्तुतिः - 04
04 साम्नाह्यः सप्तक्रियापथ उपस्थानं संवर्तनं सम्यानं वधावधो हस्तियुद्धं नागरायणं साङ्ग्रामिकं च
मूलम् - 04
04 साम्नाह्यः सप्तक्रियापथ उपस्थानं संवर्तनं सम्यानं वधावधो हस्तियुद्धं नागरायणं साङ्ग्रामिकं च
विश्वास-प्रस्तुतिः - 05
05 तस्य उपविचारः कक्ष्याकर्म ग्रैवेयकर्म यूथकर्म च
मूलम् - 05
05 तस्य उपविचारः कक्ष्याकर्म ग्रैवेयकर्म यूथकर्म च
विश्वास-प्रस्तुतिः - 06
06 औपवाह्योऽष्टविध आचरणः कुञ्जराउपवाह्यो धोरण आधानगतिको यष्ट्य्।उपवाह्यः तोत्र उपवाह्यः शुद्ध उपवाह्यो मार्गयुकश्च इति
मूलम् - 06

विश्वास-प्रस्तुतिः - 07
07 तस्य उपविचारः शारदकर्म हीनकर्म नार उष्ट्रकर्म च
मूलम् - 07
07 तस्य उपविचारः शारदकर्म हीनकर्म नार उष्ट्रकर्म च
विश्वास-प्रस्तुतिः - 08
08 व्याल एकक्रियापथः शङ्कितोऽवरुद्धो विषमः प्रभिन्नः प्रभिन्नविनिश्चयो मदहेतुविनिश्चयश्च
मूलम् - 08
08 व्याल एकक्रियापथः शङ्कितोऽवरुद्धो विषमः प्रभिन्नः प्रभिन्नविनिश्चयो मदहेतुविनिश्चयश्च
विश्वास-प्रस्तुतिः - 09
09 तस्य-उपविचार आयम्य एकरक्षाकर्म
मूलम् - 09
09 तस्य-उपविचार आयम्य एकरक्षाकर्म
विश्वास-प्रस्तुतिः - 10
10 क्रियाविपन्नो व्यालः शुद्धः सुव्रतो विषमः सर्वदोषप्रदुष्टश्च
मूलम् - 10
10 क्रियाविपन्नो व्यालः शुद्धः सुव्रतो विषमः सर्वदोषप्रदुष्टश्च
विश्वास-प्रस्तुतिः - 11
11 तेषां बन्धन उपकरणं अनीकस्थप्रमाणम्
मूलम् - 11
11 तेषां बन्धन उपकरणं अनीकस्थप्रमाणम्
विश्वास-प्रस्तुतिः - 12
12 आलानग्रैवेयकक्ष्यापारायणपरिक्षेप उत्तरादिकं बन्धनम्
मूलम् - 12
12 आलानग्रैवेयकक्ष्यापारायणपरिक्षेप उत्तरादिकं बन्धनम्
विश्वास-प्रस्तुतिः - 13
13 अङ्कुशवेणुयन्त्रादिकं उपकरणम्
मूलम् - 13
13 अङ्कुशवेणुयन्त्रादिकं उपकरणम्
विश्वास-प्रस्तुतिः - 14
14 वैजयन्तीक्षुरप्रमालास्तरणकुथाऽऽदिकं भूषणम्
मूलम् - 14
14 वैजयन्तीक्षुरप्रमालास्तरणकुथाऽऽदिकं भूषणम्
विश्वास-प्रस्तुतिः - 15
15 वर्मतोमरशरावापयन्त्रादिकः साङ्ग्रामिकालङ्कारः
मूलम् - 15
15 वर्मतोमरशरावापयन्त्रादिकः साङ्ग्रामिकालङ्कारः
विश्वास-प्रस्तुतिः - 16
16 चिकित्सकानीकस्थारोहकाधोरणहस्तिपकौपचारिकविधापाचकयावसिकपादपाशिककुटीर्रक्षकाउपशयैकादिरौपस्थायिकवर्गः
मूलम् - 16

विश्वास-प्रस्तुतिः - 17
17 चिकित्सककुटीरक्षविधापाचकाः प्रस्थोदनं स्नेहप्रसृतिं क्षारलवणयोश्च द्विपलिकं हरेयुः, दशपलं मांसस्य, अन्यत्र चिकित्सकेभ्यः
मूलम् - 17

विश्वास-प्रस्तुतिः - 18
18 पथिव्याधिकर्ममदजराऽभितप्तानां चिकित्सकाः प्रतिकुर्युः
मूलम् - 18
18 पथिव्याधिकर्ममदजराऽभितप्तानां चिकित्सकाः प्रतिकुर्युः
विश्वास-प्रस्तुतिः - 19
19 स्थानस्याशुद्धिर्यवसस्याग्रहणं स्थले शायनं अभागे घातः परारोहणं अकाले यानं अभूमावतीर्थेऽवतारणं तरुषण्ड इत्यत्ययस्थानानि
मूलम् - 19

विश्वास-प्रस्तुतिः - 20
20 तं एषां भक्तवेतनाद् आददीत
मूलम् - 20
20 तं एषां भक्तवेतनाद् आददीत
विश्वास-प्रस्तुतिः - 21
21ab तिस्रो नीराजनाः कार्याश्चातुर्मास्य।ऋतुसन्धिषु ।
21chd भूतानां कृष्णसन्धी इज्याः सेनान्यः शुक्लसन्धुषु
मूलम् - 21

विश्वास-प्रस्तुतिः - 22
22ab दन्तमूलपरीणाहद्विगुणं प्रोज्झ्य कल्पयेत् ।
22chd अब्दे द्व्य्ऽर्धे नदीजानां पञ्चाब्दे पर्वतोकसाम् (इति)
मूलम् - 22