३१

Superintendent of elephants

विश्वास-प्रस्तुतिः - 01

01 हस्त्य्ऽध्यक्षो हस्तिवनरक्षां दम्यकर्मक्षान्तानां हस्तिहस्तिनीकलभानां शालास्थानशय्याकर्मविधायवसप्रमाणं कर्मस्वायोगं बन्धन उपकरणं साङ्ग्रामिकं अलङ्कारं चिकित्सकानीकस्थाउपस्थायिकवर्गं चानुतिष्ठेत्

मूलम् - 01

विश्वास-प्रस्तुतिः - 02

02 हस्त्य्।आयामद्विगुण उत्सेधविष्कम्भायामां हस्तिनीस्थानाधिकां सप्रग्रीवां कुमारीसङ्ग्रहां प्रान्मुखीं उदन्मुखीं वा शालां निवेशयेत्

मूलम् - 02

विश्वास-प्रस्तुतिः - 03

03 हस्त्य्।आयामचतुर्ऽश्रश्लक्ष्णालानस्तम्भफलकास्तरकं स-मूत्रपुरीष उत्सर्गं स्थानं निवेशयेत्

मूलम् - 03

03 हस्त्य्।आयामचतुर्ऽश्रश्लक्ष्णालानस्तम्भफलकास्तरकं स-मूत्रपुरीष उत्सर्गं स्थानं निवेशयेत्

विश्वास-प्रस्तुतिः - 04

04 स्थानसमां शय्यां अर्धापाश्रयां दुर्गे साम्नाह्याउपवाह्यानां बहिर्दम्यव्यालानाम्

मूलम् - 04

04 स्थानसमां शय्यां अर्धापाश्रयां दुर्गे साम्नाह्याउपवाह्यानां बहिर्दम्यव्यालानाम्

विश्वास-प्रस्तुतिः - 05

05 प्रथमसप्तम अष्टमभागावह्नः स्नानकालौ, तद्ऽनन्तरं विधायाः

मूलम् - 05

05 प्रथमसप्तम अष्टमभागावह्नः स्नानकालौ, तद्ऽनन्तरं विधायाः

विश्वास-प्रस्तुतिः - 06

06 पूर्वाह्ने व्यायामकालः, पश्चाह्नः प्रतिपानकालः

मूलम् - 06

06 पूर्वाह्ने व्यायामकालः, पश्चाह्नः प्रतिपानकालः

विश्वास-प्रस्तुतिः - 07

07 रात्रिभागौ द्वौ स्वप्नकाला, त्रिभागः संवेशन उत्थानिकः

मूलम् - 07

07 रात्रिभागौ द्वौ स्वप्नकाला, त्रिभागः संवेशन उत्थानिकः

विश्वास-प्रस्तुतिः - 08

08 ग्रीष्मे ग्रहणकालः

मूलम् - 08

08 ग्रीष्मे ग्रहणकालः

विश्वास-प्रस्तुतिः - 09

09 विंशतिवर्षो ग्राह्यः

मूलम् - 09

09 विंशतिवर्षो ग्राह्यः

विश्वास-प्रस्तुतिः - 10

10 विक्को मोढो मक्कणो व्याथितो गर्भिणी धेनुका हस्तिनी चाग्राह्याः

मूलम् - 10

10 विक्को मोढो मक्कणो व्याथितो गर्भिणी धेनुका हस्तिनी चाग्राह्याः

विश्वास-प्रस्तुतिः - 11

11 सप्तारत्नि उत्सेधो नवायामो दश परिणाहः प्रमाणतश्चत्वारिंशद्वर्षो भवत्युत्तमः, त्रिंशद्वर्षो मध्यमः, पञ्चविंशतिवर्षोऽवरः

मूलम् - 11

विश्वास-प्रस्तुतिः - 12

12 तयोः पादावरो विधाविधिः

मूलम् - 12

12 तयोः पादावरो विधाविधिः

विश्वास-प्रस्तुतिः - 13

13 अरत्नौ तणुलद्रोणः, अर्धाढकं तैलस्य, सर्पिषः त्रयः प्रस्थाः, दशपलं लवणस्य, मांसं पञ्चाशत्पलिकं, रसस्याढकं द्विगुणं वा दध्नः पिण्डक्लेदनार्थं, क्षारदशपलिकं मद्यस्याढकं द्विगुणं वा पयसः प्रतिपानं, गात्रावसेकः तैलप्रस्थः, शिरसोऽष्टभागः प्रादीपिकश्च, यवसस्य द्वौ भारौ स-पादौ, शष्पस्य शुष्कस्यार्धतृतीयो भारः, कडङ्करस्यानियमः

मूलम् - 13

विश्वास-प्रस्तुतिः - 14

14 सप्तारत्निना तुल्यभोजनोऽष्टारत्निरत्यरालः

मूलम् - 14

14 सप्तारत्निना तुल्यभोजनोऽष्टारत्निरत्यरालः

विश्वास-प्रस्तुतिः - 15

15 यथाहस्तं अवशेषः षड्ऽरत्निः पञ्चारत्निश्च

मूलम् - 15

15 यथाहस्तं अवशेषः षड्ऽरत्निः पञ्चारत्निश्च

विश्वास-प्रस्तुतिः - 16

16 क्षीरयावसिको विक्कः क्रीडाऽर्थं ग्राह्यः

मूलम् - 16

16 क्षीरयावसिको विक्कः क्रीडाऽर्थं ग्राह्यः

विश्वास-प्रस्तुतिः - 17

17 सञ्जातलोहिता प्रतिच्छन्ना सम्लिप्तपक्षा समकक्ष्या व्यतिकीर्णमांसा समतल्पतला जातद्रोणिका इति शोभाः

मूलम् - 17

विश्वास-प्रस्तुतिः - 18

18ab शोभावशेन व्यायामं भद्र्म मन्दं च कारयेत् ।
18chd मृगं सङ्कीर्णलिङ्गं च कर्मस्वृतुवशेन वा

मूलम् - 18