३०

Superintendent of horses

विश्वास-प्रस्तुतिः - 01

01 अश्वाध्यक्षः पण्यागारिकं क्रय उपागतं आहवलब्धं आजातं साहाय्यागतकं पणस्थितं यावत्कालिकं वाऽश्वपर्यग्रं कुलवयोवर्णचिह्नवर्गागमैर्लेखयेत्

मूलम् - 01

विश्वास-प्रस्तुतिः - 02

02 अप्रशस्तन्यङ्गव्याधितांश्चावेदयेत्

मूलम् - 02

02 अप्रशस्तन्यङ्गव्याधितांश्चावेदयेत्

विश्वास-प्रस्तुतिः - 03

03 कोशकोष्ठागाराभ्यां च गृहीत्वा मासलाभं अश्ववाहश्चिन्तयेत्

मूलम् - 03

03 कोशकोष्ठागाराभ्यां च गृहीत्वा मासलाभं अश्ववाहश्चिन्तयेत्

विश्वास-प्रस्तुतिः - 04

04 अश्वविभवेनायतां अश्वायां अद्विगुणविस्तारां चतुर्द्वार उपावर्तनमध्यां स-प्रग्रीवां प्रद्वारासनफलकयुक्तानां वानरमयूरपृषतनकुलचकोरशुकसारिकाकीर्णां शालां निवेशयेत्

मूलम् - 04

विश्वास-प्रस्तुतिः - 05

05 अश्वायां अचतुर्ऽश्रश्लक्ष्णफलकास्तारं स-खादनकोष्ठकं स-मूत्रपुरीष उत्सर्गं एक एकशः प्रान्मुखं उदन्मुखं वा स्थानं निवेशयेत्

मूलम् - 05

विश्वास-प्रस्तुतिः - 06

06 शालावशेन वा दिग्विभागं कल्पयेत्

मूलम् - 06

06 शालावशेन वा दिग्विभागं कल्पयेत्

विश्वास-प्रस्तुतिः - 07

07 वडवावृषकिशोराणां एकान्तेषु

मूलम् - 07

07 वडवावृषकिशोराणां एकान्तेषु

विश्वास-प्रस्तुतिः - 08

08 वडवायाः प्रजतायाः त्रिरात्रं घृतप्रस्थः पानम्

मूलम् - 08

08 वडवायाः प्रजतायाः त्रिरात्रं घृतप्रस्थः पानम्

विश्वास-प्रस्तुतिः - 09

09 अत ऊर्ध्वं सक्तुप्रस्थः स्नेहभैषज्यप्रतिपानं दशरात्रम्

मूलम् - 09

09 अत ऊर्ध्वं सक्तुप्रस्थः स्नेहभैषज्यप्रतिपानं दशरात्रम्

विश्वास-प्रस्तुतिः - 10

10 ततः पुलाको यवसं आर्तवश्चाहारः

मूलम् - 10

10 ततः पुलाको यवसं आर्तवश्चाहारः

विश्वास-प्रस्तुतिः - 11

11 दशरात्राद् ऊर्ध्वं किशोरस्य घृतचतुर्भागः सक्तुकुडुबः क्षीरप्रस्थश्चाहार आषण्मासात्

मूलम् - 11

11 दशरात्राद् ऊर्ध्वं किशोरस्य घृतचतुर्भागः सक्तुकुडुबः क्षीरप्रस्थश्चाहार आषण्मासात्

विश्वास-प्रस्तुतिः - 12

12 ततः परं मास उत्तरं अर्धवृद्धिर्यवप्रस्थ आत्रिवर्षात्, द्रोण आचतुर्वर्षात्

मूलम् - 12

12 ततः परं मास उत्तरं अर्धवृद्धिर्यवप्रस्थ आत्रिवर्षात्, द्रोण आचतुर्वर्षात्

विश्वास-प्रस्तुतिः - 13

13 अत ऊर्ध्वं चतुर्वर्षः पञ्चवर्षो वा कर्मण्यः पूर्णप्रमाणः

मूलम् - 13

13 अत ऊर्ध्वं चतुर्वर्षः पञ्चवर्षो वा कर्मण्यः पूर्णप्रमाणः

विश्वास-प्रस्तुतिः - 14

14 द्वात्रिंशद्ऽङ्गुलं मुखं उत्तमाश्वस्य, पञ्चमुखान्यायामो, विंशत्य्ऽङ्गुला जङ्घा, चतुर्जङ्घ उत्सेधः

मूलम् - 14

विश्वास-प्रस्तुतिः - 15

15 त्र्य्ऽङ्गुलावरं मध्यमावरयोः

मूलम् - 15

15 त्र्य्ऽङ्गुलावरं मध्यमावरयोः

विश्वास-प्रस्तुतिः - 16

16 शताङ्गुलः परिणाहः

मूलम् - 16

16 शताङ्गुलः परिणाहः

विश्वास-प्रस्तुतिः - 17

17 पञ्चभागावरो मध्यमावरयोः

मूलम् - 17

17 पञ्चभागावरो मध्यमावरयोः

विश्वास-प्रस्तुतिः - 18

18 उत्तमाश्वस्य द्विद्रोणं शालिव्रीहियवप्रियङ्गूणां अर्धशुष्कं अर्धसिद्धं वा मुद्गमाषाणां वा पुलाकः स्नेहप्रस्थश्च, पञ्चपलं लवणस्य, मांसं पञ्चाशत्पलिकं रसस्याढकं द्विगुणं वा दध्नः पिण्डक्लेदनार्थं, क्षारपञ्चपलिकः सुरायाः प्रस्थः पयसो वा द्विगुणः प्रतिपानम्

मूलम् - 18

विश्वास-प्रस्तुतिः - 19

19 दीर्घपथभारक्लान्तानां च खादनार्थं स्नेहप्रस्थोऽनुवासनं कुडुबो नस्यकर्मणः, यवसस्यार्धभारः तृणस्य द्विगुणः षड्ऽरत्निपरिक्षेपः पुञ्जीलग्रहो वा

मूलम् - 19

विश्वास-प्रस्तुतिः - 20

20 पादावरं एतन् मध्यमावरयोः

मूलम् - 20

20 पादावरं एतन् मध्यमावरयोः

विश्वास-प्रस्तुतिः - 21

21 उत्तमसमो रथ्यो वृषश्च मध्यमः

मूलम् - 21

21 उत्तमसमो रथ्यो वृषश्च मध्यमः

विश्वास-प्रस्तुतिः - 22

22 मध्यमसमश्चावरः

मूलम् - 22

22 मध्यमसमश्चावरः

विश्वास-प्रस्तुतिः - 23

23 पादहीनं वडवानां पारशमानां च

मूलम् - 23

23 पादहीनं वडवानां पारशमानां च

विश्वास-प्रस्तुतिः - 24

24 अतोऽर्धं किशोराणां च

मूलम् - 24

24 अतोऽर्धं किशोराणां च

विश्वास-प्रस्तुतिः - 25

25 इति विधायोगः

मूलम् - 25

25 इति विधायोगः

विश्वास-प्रस्तुतिः - 26

26 विधापाचकसूत्रग्राहकचिकित्सकाः प्रतिस्वादभाजः

मूलम् - 26

26 विधापाचकसूत्रग्राहकचिकित्सकाः प्रतिस्वादभाजः

विश्वास-प्रस्तुतिः - 27

27 युद्धव्याधिजराकर्मक्षीणाः पिण्डगोचरिकाः स्युः

मूलम् - 27

27 युद्धव्याधिजराकर्मक्षीणाः पिण्डगोचरिकाः स्युः

विश्वास-प्रस्तुतिः - 28

28 असमरप्रयोग्याः पौरजानपदानां अर्थेन वृषा वडवास्वायोज्याः

मूलम् - 28

28 असमरप्रयोग्याः पौरजानपदानां अर्थेन वृषा वडवास्वायोज्याः

विश्वास-प्रस्तुतिः - 29

29 प्रयोग्यानां उत्तमाः काम्बोजसैन्धवारट्टवनायुजाः, मध्यमा बाह्लीकपापेयकसौवीरकतैतलाः, शेषाः प्रत्यवराः

मूलम् - 29

विश्वास-प्रस्तुतिः - 30

30 तेषां तीष्क्णभद्रमन्दवशेन साम्नाह्यं औपवाह्यकं वा कर्म प्रयोजयेत्

मूलम् - 30

30 तेषां तीष्क्णभद्रमन्दवशेन साम्नाह्यं औपवाह्यकं वा कर्म प्रयोजयेत्

विश्वास-प्रस्तुतिः - 31

31 चतुर्ऽश्रं कर्माश्वस्य साम्नाह्यम्

मूलम् - 31

31 चतुर्ऽश्रं कर्माश्वस्य साम्नाह्यम्

विश्वास-प्रस्तुतिः - 32

32 वल्गनो नीचैर्गतो लङ्घनो घोरणो नारोष्ट्रश्चाउपवाह्याः

मूलम् - 32

32 वल्गनो नीचैर्गतो लङ्घनो घोरणो नारोष्ट्रश्चाउपवाह्याः

विश्वास-प्रस्तुतिः - 33

33 तत्राउपवेणुको वर्धमानको यमक आलीढप्लुतः पृथुग्ऽस्त्रिकचाली च वल्गनः

मूलम् - 33

33 तत्राउपवेणुको वर्धमानको यमक आलीढप्लुतः पृथुग्ऽस्त्रिकचाली च वल्गनः

विश्वास-प्रस्तुतिः - 34

34 स एव शिरःकर्णविशुद्धो नीचैर्गतः, षोडशमार्गो वा

मूलम् - 34

34 स एव शिरःकर्णविशुद्धो नीचैर्गतः, षोडशमार्गो वा

विश्वास-प्रस्तुतिः - 35

35 प्रकीर्णकः प्रकीर्ण उत्तरो निषण्णः पार्श्वानुवृत्त ऊर्मिमार्गः शरभक्रीडितः शरभप्लुतः त्रितालो बाह्यानुवृत्तः पञ्चपाणिः सिंहायतः स्वाधूतः क्लिष्टः श्लिङ्गितो बृंहितः पुष्पाभिकीर्णश्च इति नीचैर्गतमार्गः

मूलम् - 35

विश्वास-प्रस्तुतिः - 36

36 कपिप्लुतो भेकप्लुतेणप्लुत एकपादप्लुतः कोकिलसञ्चार्य्।उरस्यो बकचारी च लङ्घनः

मूलम् - 36

36 कपिप्लुतो भेकप्लुतेणप्लुत एकपादप्लुतः कोकिलसञ्चार्य्।उरस्यो बकचारी च लङ्घनः

विश्वास-प्रस्तुतिः - 37

37 काङ्को वारिकाङ्को मायूरोऽर्धमायूरो नाकुलोर्धनाकुलो वाराहोऽर्धवाराहश्च इति धोरणः

मूलम् - 37

37 काङ्को वारिकाङ्को मायूरोऽर्धमायूरो नाकुलोर्धनाकुलो वाराहोऽर्धवाराहश्च इति धोरणः

विश्वास-प्रस्तुतिः - 38

38 सञ्ज्ञाप्रतिकारो नार उष्ट्र इति

मूलम् - 38

38 सञ्ज्ञाप्रतिकारो नार उष्ट्र इति

विश्वास-प्रस्तुतिः - 39

39 षण्णव द्वादश इति योजनान्य्ध्वा रथ्यानां, पञ्च योजनान्यर्धाष्टमानि दश इति पृष्ठवाहिनां अश्वानां अध्वा

मूलम् - 39

विश्वास-प्रस्तुतिः - 40

40 विक्रमो भद्राश्वासो भारवाह्य इति मार्गाः

मूलम् - 40

40 विक्रमो भद्राश्वासो भारवाह्य इति मार्गाः

विश्वास-प्रस्तुतिः - 41

41 विक्रमो वल्गितं उपकण्ठं उपजवो जवश्च धाराः

मूलम् - 41

41 विक्रमो वल्गितं उपकण्ठं उपजवो जवश्च धाराः

विश्वास-प्रस्तुतिः - 42

42 तेषां बन्धन उपकरणं योग्याचार्याः प्रतिदिशेयुः, साङ्ग्रामिकं रथाश्वालङ्कारं च सूताः

मूलम् - 42

42 तेषां बन्धन उपकरणं योग्याचार्याः प्रतिदिशेयुः, साङ्ग्रामिकं रथाश्वालङ्कारं च सूताः

विश्वास-प्रस्तुतिः - 43

43 अश्वानां चिकित्सकाः शरीरह्रासवृद्धिप्रतीकारं ऋतुविभक्तं चाहारम्

मूलम् - 43

43 अश्वानां चिकित्सकाः शरीरह्रासवृद्धिप्रतीकारं ऋतुविभक्तं चाहारम्

विश्वास-प्रस्तुतिः - 44

44 सूत्रग्राहकाश्वबन्धकयावसिकविधापाचकस्थानपालकेशकारजाङ्गुलीविदश्च स्वकर्मभिरश्वान् आराधयेयुः

मूलम् - 44

44 सूत्रग्राहकाश्वबन्धकयावसिकविधापाचकस्थानपालकेशकारजाङ्गुलीविदश्च स्वकर्मभिरश्वान् आराधयेयुः

विश्वास-प्रस्तुतिः - 45

45 कर्मातिक्रमे च एषां दिवसवेतनच्छेदनं कुर्यात्

मूलम् - 45

45 कर्मातिक्रमे च एषां दिवसवेतनच्छेदनं कुर्यात्

विश्वास-प्रस्तुतिः - 46

46 नीराजन उपरुद्धं वाहयतश्चिकित्सक उपरुद्धं वा द्वादशपणो दण्डः

मूलम् - 46

46 नीराजन उपरुद्धं वाहयतश्चिकित्सक उपरुद्धं वा द्वादशपणो दण्डः

विश्वास-प्रस्तुतिः - 47

47 क्रियाभैषज्यसङ्गेन व्याधिवृद्धौ प्रतीकारद्विगुणो दण्डः

मूलम् - 47

47 क्रियाभैषज्यसङ्गेन व्याधिवृद्धौ प्रतीकारद्विगुणो दण्डः

विश्वास-प्रस्तुतिः - 48

48 तद्ऽपराधेन वैलोम्ये पत्त्रमूल्यं दण्डः

मूलम् - 48

48 तद्ऽपराधेन वैलोम्ये पत्त्रमूल्यं दण्डः

विश्वास-प्रस्तुतिः - 49

49 तेन गोमण्डलं खर उष्ट्रमहिषं अजाविकं च व्याख्यातम्

मूलम् - 49

49 तेन गोमण्डलं खर उष्ट्रमहिषं अजाविकं च व्याख्यातम्

विश्वास-प्रस्तुतिः - 50

50ab द्विरह्नः स्नानं अश्वानां गन्धमाल्यं च दापयेत् ।
50chd कृष्णसन्धिषु भूत इज्याः शुक्लेषु स्वस्तिवाचनम्

मूलम् - 50

विश्वास-प्रस्तुतिः - 51

51ab नीराजनां आश्वयुजे कारयेन्नवमेऽहनि ।
51chd यात्राऽऽदाववसाने वा व्याधौ वा शान्तिके रतः (इति)

मूलम् - 51