२९

Superintendent of cattle

विश्वास-प्रस्तुतिः - 01

01 गोऽध्यक्षो वेतन उपग्राहिकं करप्रतिकरं भग्न उत्सृष्टकं भागानुप्रविष्टकं व्रजपर्यग्रं नष्टं विनष्टं क्षीरघृतसञ्जातं च उपलभेत

मूलम् - 01

विश्वास-प्रस्तुतिः - 02

02 गोपालकपिण्डारकदोहकमन्थकलुब्धकाः शतं शतं धेनूनां हिरण्यभृताः पालयेयुः

मूलम् - 02

02 गोपालकपिण्डारकदोहकमन्थकलुब्धकाः शतं शतं धेनूनां हिरण्यभृताः पालयेयुः

विश्वास-प्रस्तुतिः - 03

03 क्षीरघृतभृता हि वत्सान् उपहन्युः । इति वेतन उपग्राहिकम्

मूलम् - 03

03 क्षीरघृतभृता हि वत्सान् उपहन्युः । इति वेतन उपग्राहिकम्

विश्वास-प्रस्तुतिः - 04

04 जरद्गुधेनुगर्भिणीपष्ठौहीवत्सतरीणां समविभागं रूपशतं एकः पालयेत्

मूलम् - 04

04 जरद्गुधेनुगर्भिणीपष्ठौहीवत्सतरीणां समविभागं रूपशतं एकः पालयेत्

विश्वास-प्रस्तुतिः - 05

05 घृतस्याष्टौ वारकान् पणिकं पुच्छं अङ्कचर्म च वार्षिकं दद्यात् । इति करप्रतिकरः

मूलम् - 05

05 घृतस्याष्टौ वारकान् पणिकं पुच्छं अङ्कचर्म च वार्षिकं दद्यात् । इति करप्रतिकरः

विश्वास-प्रस्तुतिः - 06

06 व्याधितान्यङ्गाऽनन्यदोहीदुर्दोहापुत्रघ्नीनां च समविभागं रूपशतं पालयन्तः तज्जातिकं भागं दद्युः । इति भग्न उत्षृष्टकम्

मूलम् - 06

विश्वास-प्रस्तुतिः - 07

07 परचक्राटवीभयाद् अनुप्रविष्टानां पशूनां पालनधर्मेण दशभगं दद्युः । इति भागानुप्रविष्टकम्

मूलम् - 07

07 परचक्राटवीभयाद् अनुप्रविष्टानां पशूनां पालनधर्मेण दशभगं दद्युः । इति भागानुप्रविष्टकम्

विश्वास-प्रस्तुतिः - 08

08 वत्सा वत्सतरा दम्या वहिनो वृषा उक्षाणश्च पुङ्गवाः, युगवाहनशकटवहा वृषभाः सूनामहिषाः पृष्टस्कन्धवाहिनश्च महिषाः, वत्सिका वत्सतरी पष्टहुही गर्भिणी धेनुश्चाप्रजाता वन्ध्याश्च गावो महिष्यश्च, मासद्विमासजाताः तासां उपजा वत्सा वत्सिकाश्च

मूलम् - 08

विश्वास-प्रस्तुतिः - 09

09 मासद्विमासजातान् अङ्कयेत्

मूलम् - 09

09 मासद्विमासजातान् अङ्कयेत्

विश्वास-प्रस्तुतिः - 10

10 मासद्विमासपर्युषितं अङ्कयेत्

मूलम् - 10

10 मासद्विमासपर्युषितं अङ्कयेत्

विश्वास-प्रस्तुतिः - 11

11 अङ्कं चिह्नं वर्णं शृङ्गान्तरं च लक्षणं एवं उपजा निबन्धयेत् । इति व्रजपर्यग्रम्

मूलम् - 11

11 अङ्कं चिह्नं वर्णं शृङ्गान्तरं च लक्षणं एवं उपजा निबन्धयेत् । इति व्रजपर्यग्रम्

विश्वास-प्रस्तुतिः - 12

12 चोरहृतं अन्ययूथप्रविष्टं अवलीनं वा नष्टम्

मूलम् - 12

12 चोरहृतं अन्ययूथप्रविष्टं अवलीनं वा नष्टम्

विश्वास-प्रस्तुतिः - 13

13 पङ्कविषमव्याधिजरातोयाहारावसन्नं वृक्षतटकाष्ठशिलाऽभिहतं ईशानव्यालसर्पग्राहदावाग्निविपन्नं विनष्टम्

मूलम् - 13

विश्वास-प्रस्तुतिः - 14

14 प्रमादाद् अभ्यावहेयुः

मूलम् - 14

14 प्रमादाद् अभ्यावहेयुः

विश्वास-प्रस्तुतिः - 15

15 एवं रूपाग्रं विद्यात्

मूलम् - 15

15 एवं रूपाग्रं विद्यात्

विश्वास-प्रस्तुतिः - 16

16 स्वयं हन्ता घातयिता हर्ता हारयिता च वध्यः

मूलम् - 16

16 स्वयं हन्ता घातयिता हर्ता हारयिता च वध्यः

विश्वास-प्रस्तुतिः - 17

17 परपशूनां राजाङ्केन परिवर्तयिता रूपस्य पूर्वं साहसदण्डं दद्यात्

मूलम् - 17

17 परपशूनां राजाङ्केन परिवर्तयिता रूपस्य पूर्वं साहसदण्डं दद्यात्

विश्वास-प्रस्तुतिः - 18

18 स्वदेशीयानां चोरहृतं प्रत्यानीय पणितं रूपं हरेत्

मूलम् - 18

18 स्वदेशीयानां चोरहृतं प्रत्यानीय पणितं रूपं हरेत्

विश्वास-प्रस्तुतिः - 19

19 परदेशीयानां मोक्षयिताऽर्धं हरेत्

मूलम् - 19

19 परदेशीयानां मोक्षयिताऽर्धं हरेत्

विश्वास-प्रस्तुतिः - 20

20 बालवृद्धव्याधितानां गोपालकाः प्रतिकुर्युः

मूलम् - 20

20 बालवृद्धव्याधितानां गोपालकाः प्रतिकुर्युः

विश्वास-प्रस्तुतिः - 21

21 लुब्धकश्वगणिभिरपास्तः तेनाव्यालपराबाधभयं ऋतुविभक्तं अरण्यं चारयेयुः

मूलम् - 21

21 लुब्धकश्वगणिभिरपास्तः तेनाव्यालपराबाधभयं ऋतुविभक्तं अरण्यं चारयेयुः

विश्वास-प्रस्तुतिः - 22

22 सर्पव्यालत्रासनार्थं गोचरानुपातज्ञानार्थं च त्रस्नूनां घण्टातूर्यं च बध्नीयुः

मूलम् - 22

22 सर्पव्यालत्रासनार्थं गोचरानुपातज्ञानार्थं च त्रस्नूनां घण्टातूर्यं च बध्नीयुः

विश्वास-प्रस्तुतिः - 23

23 समव्यूढतीर्थं अकर्दमग्राहं उदकं अवतारयेयुः पालयेयुश्च

मूलम् - 23

23 समव्यूढतीर्थं अकर्दमग्राहं उदकं अवतारयेयुः पालयेयुश्च

विश्वास-प्रस्तुतिः - 24

24 स्तेनव्यालसर्पग्राहगृहीतं व्याधिजराऽवसन्नं चावेदयेयुः, अन्यथा रूपमूल्यं भजेरन्

मूलम् - 24

24 स्तेनव्यालसर्पग्राहगृहीतं व्याधिजराऽवसन्नं चावेदयेयुः, अन्यथा रूपमूल्यं भजेरन्

विश्वास-प्रस्तुतिः - 25

25 कारणमृतस्याङ्कचर्म गोमहिषस्य, कर्णलक्षणं अजाविकानां, पुच्छं अङ्कचर्म चाश्वखर उष्ट्राणां, बालचर्मबस्तिपित्तस्नायुदन्तखुरशृङ्गास्थीनि चाहरेयुः

मूलम् - 25

विश्वास-प्रस्तुतिः - 26

26 मांसं आर्द्रं शुष्कं वा विक्रीणीयुः

मूलम् - 26

26 मांसं आर्द्रं शुष्कं वा विक्रीणीयुः

विश्वास-प्रस्तुतिः - 27

27 उदश्वित्श्ववराहेभ्यो दद्युः

मूलम् - 27

27 उदश्वित्श्ववराहेभ्यो दद्युः

विश्वास-प्रस्तुतिः - 28

28 कूर्चिकां सेनाभक्तार्थं आहरेयुः

मूलम् - 28

28 कूर्चिकां सेनाभक्तार्थं आहरेयुः

विश्वास-प्रस्तुतिः - 29

29 किलाटो घाणपिण्याकक्लेदार्थः

मूलम् - 29

29 किलाटो घाणपिण्याकक्लेदार्थः

विश्वास-प्रस्तुतिः - 30

30 पशुविक्रेता पादिकं रूपं दद्यात्

मूलम् - 30

30 पशुविक्रेता पादिकं रूपं दद्यात्

विश्वास-प्रस्तुतिः - 31

31 वर्षाशरद्धेमन्तान् उभयतःकालं दुह्युः, शिशिरवसन्तग्रीष्मान् एककालम्

मूलम् - 31

31 वर्षाशरद्धेमन्तान् उभयतःकालं दुह्युः, शिशिरवसन्तग्रीष्मान् एककालम्

विश्वास-प्रस्तुतिः - 32

32 द्वितीयकालदोग्धुरङ्गुष्ठच्छेदो दण्डः

मूलम् - 32

32 द्वितीयकालदोग्धुरङ्गुष्ठच्छेदो दण्डः

विश्वास-प्रस्तुतिः - 33

33 दोहनकालं अतिक्रामतः तत्फलहानं दण्डः

मूलम् - 33

33 दोहनकालं अतिक्रामतः तत्फलहानं दण्डः

विश्वास-प्रस्तुतिः - 34

34 एतेन नस्यदम्ययुगपिङ्गनवर्तनकाला व्याख्याताः

मूलम् - 34

34 एतेन नस्यदम्ययुगपिङ्गनवर्तनकाला व्याख्याताः

विश्वास-प्रस्तुतिः - 35

35 क्षीरद्रोणे गवां घृतप्रस्थः, पञ्चभागाधिको महिषीणां, द्विभागाधिकोऽजावीनाम्

मूलम् - 35

35 क्षीरद्रोणे गवां घृतप्रस्थः, पञ्चभागाधिको महिषीणां, द्विभागाधिकोऽजावीनाम्

विश्वास-प्रस्तुतिः - 36

36 मन्थो वा सर्वेषां प्रमाणम्

मूलम् - 36

36 मन्थो वा सर्वेषां प्रमाणम्

विश्वास-प्रस्तुतिः - 37

37 भूमितृण उदकविशेषाद्द् हि क्षीरघृतवृद्धिर्भवति

मूलम् - 37

37 भूमितृण उदकविशेषाद्द् हि क्षीरघृतवृद्धिर्भवति

विश्वास-प्रस्तुतिः - 38

38 यूथवृषं वृषेणावपातयतः पूर्वः साहसदण्डः, घातयत उत्तमः

मूलम् - 38

38 यूथवृषं वृषेणावपातयतः पूर्वः साहसदण्डः, घातयत उत्तमः

विश्वास-प्रस्तुतिः - 39

39 वर्णावरोधेन दशती रक्षा

मूलम् - 39

39 वर्णावरोधेन दशती रक्षा

विश्वास-प्रस्तुतिः - 40

40 उपनिवेशदिग्विभागो गोप्रचाराद् बलान्वयतो वा गवां रक्षासामर्थ्याच्च

मूलम् - 40

40 उपनिवेशदिग्विभागो गोप्रचाराद् बलान्वयतो वा गवां रक्षासामर्थ्याच्च

विश्वास-प्रस्तुतिः - 41

41 अजावीनां षण्मासिकीमूर्णां ग्राहयेत्

मूलम् - 41

41 अजावीनां षण्मासिकीमूर्णां ग्राहयेत्

विश्वास-प्रस्तुतिः - 42

42 तेनाश्वखर उष्ट्रवराहव्रजा व्याख्याताः

मूलम् - 42

42 तेनाश्वखर उष्ट्रवराहव्रजा व्याख्याताः

विश्वास-प्रस्तुतिः - 43

43 बलीवर्दानां नस्याश्वभद्रगतिवाहिनां यवसस्यार्धभारः तृणस्य द्विगुणं, तुला घाणपिण्याकस्य, दशाढकं कणकुण्डकस्य, पञ्चपलिकं मुखलवनां, तैलकुडुबो नस्यं प्रस्थः पानं, मांसतुला, दध्नश्चाढकं, यवद्रोणं माषाणां वा पुलाकः, क्षीरद्रोणं अर्धाढकं वा सुरायाः स्नेहप्रस्थः क्षारदशपलं शृङ्गिबेरपलं च प्रतिपानम्

मूलम् - 43

विश्वास-प्रस्तुतिः - 44

44 पाद ऊनं अश्वतरगोखराणां, द्विगुणं महिष उष्ट्राणाम्

मूलम् - 44

44 पाद ऊनं अश्वतरगोखराणां, द्विगुणं महिष उष्ट्राणाम्

विश्वास-प्रस्तुतिः - 45

45 कर्मकरबलीवर्दानां पायनार्थानां च धेनूनां कर्मकालतः फलतश्च विधादानम्

मूलम् - 45

45 कर्मकरबलीवर्दानां पायनार्थानां च धेनूनां कर्मकालतः फलतश्च विधादानम्

विश्वास-प्रस्तुतिः - 46

46 सर्वेषां तृण उदकप्राकाम्यम्

मूलम् - 46

46 सर्वेषां तृण उदकप्राकाम्यम्

विश्वास-प्रस्तुतिः - 47

47 इति गोमण्डलं व्याख्यातम्

मूलम् - 47

47 इति गोमण्डलं व्याख्यातम्

विश्वास-प्रस्तुतिः - 48

48ab पञ्च।ऋषभं खराश्वानां अजावीनां दश।ऋषभम् ।
48chd शत्यं गोमहिष उष्ट्राणां यूथं कुर्याच्चतुर्वृषम् (इति)

मूलम् - 48