Controller of shipping
विश्वास-प्रस्तुतिः - 01
01 नाव्ऽध्यक्षः समुद्रसम्याननदीमुखतरप्रचारान् देवसरोविसरोनदीतरांश्च स्थानीयादिष्ववेक्षेत
मूलम् - 01
01 नाव्ऽध्यक्षः समुद्रसम्याननदीमुखतरप्रचारान् देवसरोविसरोनदीतरांश्च स्थानीयादिष्ववेक्षेत
विश्वास-प्रस्तुतिः - 02
02 तद्वेलाकूलग्रामाः क्लृप्तं दद्युः
मूलम् - 02
02 तद्वेलाकूलग्रामाः क्लृप्तं दद्युः
विश्वास-प्रस्तुतिः - 03
03 मत्स्यबन्धका नौकाभाटकं षड्भागं दद्युः
मूलम् - 03
03 मत्स्यबन्धका नौकाभाटकं षड्भागं दद्युः
विश्वास-प्रस्तुतिः - 04
04 पत्तनानुवृत्तं शुल्कभागं वणिजो दद्युः, यात्रावेतनं राजनौभिः सम्पतन्तः
मूलम् - 04
04 पत्तनानुवृत्तं शुल्कभागं वणिजो दद्युः, यात्रावेतनं राजनौभिः सम्पतन्तः
विश्वास-प्रस्तुतिः - 05
05 शङ्खमुक्ताग्राहिणो नौभाटकं दद्युः, स्वनौभिर्वा तरेयुः
मूलम् - 05
05 शङ्खमुक्ताग्राहिणो नौभाटकं दद्युः, स्वनौभिर्वा तरेयुः
विश्वास-प्रस्तुतिः - 06
06 अध्यक्षश्च एषां खन्य्ऽध्यक्षेण व्याख्यातः
मूलम् - 06
06 अध्यक्षश्च एषां खन्य्ऽध्यक्षेण व्याख्यातः
विश्वास-प्रस्तुतिः - 07
07 पत्तनाध्यक्षनिबद्धं पण्यपत्तनचारित्रं नाव्ऽध्यक्षः पालयेत्
मूलम् - 07
07 पत्तनाध्यक्षनिबद्धं पण्यपत्तनचारित्रं नाव्ऽध्यक्षः पालयेत्
विश्वास-प्रस्तुतिः - 08
08 मूढवाताहता नावः पिता इवानुगृह्णीयात्
मूलम् - 08
08 मूढवाताहता नावः पिता इवानुगृह्णीयात्
विश्वास-प्रस्तुतिः - 09
09 उदकप्राप्तं पण्यं अशुल्कं अर्धशुल्कं वा कुर्यात्
मूलम् - 09
09 उदकप्राप्तं पण्यं अशुल्कं अर्धशुल्कं वा कुर्यात्
विश्वास-प्रस्तुतिः - 10
10 यथानिर्दिष्टाश्च एताः पण्यपत्तनयात्राकालेषु प्रेषयेत्
मूलम् - 10
10 यथानिर्दिष्टाश्च एताः पण्यपत्तनयात्राकालेषु प्रेषयेत्
विश्वास-प्रस्तुतिः - 11
11 सम्यातीर्नावः क्षेत्रानुगताः शुल्कं याचेत्
मूलम् - 11
11 सम्यातीर्नावः क्षेत्रानुगताः शुल्कं याचेत्
विश्वास-प्रस्तुतिः - 12
12 हिंस्रिका निर्घातयेत्, अमित्रविषयातिगाः पण्यपत्तनचारित्र उपघातिकाश्च
मूलम् - 12
12 हिंस्रिका निर्घातयेत्, अमित्रविषयातिगाः पण्यपत्तनचारित्र उपघातिकाश्च
विश्वास-प्रस्तुतिः - 13
13 शासकनिर्यामकदार्त्राश्मिग्राहक उत्सेचकाधिष्ठिताश्च महानावो हेमन्तग्रीष्मतार्यासु महानदीषु प्रयोजयेत्, क्षुद्रिकाः क्षुद्रिकासु वर्षास्राविणीषु
मूलम् - 13

विश्वास-प्रस्तुतिः - 14
14 बाधतीर्थाश्च एताः कार्या राजद्विष्टकारिणां तरणभयात्
मूलम् - 14
14 बाधतीर्थाश्च एताः कार्या राजद्विष्टकारिणां तरणभयात्
विश्वास-प्रस्तुतिः - 15
15 अकालेऽतीर्थे च तरतः पूर्वः साहसदण्डः
मूलम् - 15
15 अकालेऽतीर्थे च तरतः पूर्वः साहसदण्डः
विश्वास-प्रस्तुतिः - 16
16 काले तीर्थे चानिषृष्टतारिणः पाद ऊनसप्तविंशतिपणः तरात्ययः
मूलम् - 16
16 काले तीर्थे चानिषृष्टतारिणः पाद ऊनसप्तविंशतिपणः तरात्ययः
विश्वास-प्रस्तुतिः - 17
17 कैवर्तकाष्टतृणभारपुष्पफलवाटषण्डगोपालकानां अनत्ययः, सम्भाव्यदूतानुपातिनां च सेनाभाण्डप्रयोगाणां च स्वतरणैः तरतां, बीजभक्तद्रव्य उपस्करांश्चानूपग्रामाणां तारयताम्
मूलम् - 17

विश्वास-प्रस्तुतिः - 18
18 ब्राह्मणप्रव्रजितबालवृद्धव्याधितशासनहरगर्भिण्यो नाव्ऽध्यक्षमुद्राभिः तरेयुः
मूलम् - 18
18 ब्राह्मणप्रव्रजितबालवृद्धव्याधितशासनहरगर्भिण्यो नाव्ऽध्यक्षमुद्राभिः तरेयुः
विश्वास-प्रस्तुतिः - 19
19 कृतप्रवेशाः पारविषयिकाः सार्थप्रमाणा वा प्रविशेयुः
मूलम् - 19
19 कृतप्रवेशाः पारविषयिकाः सार्थप्रमाणा वा प्रविशेयुः
विश्वास-प्रस्तुतिः - 20
20 परस्य भार्यां कन्यां वित्तं वाऽपहरन्तं शवित्तं वाऽपहरन्तं शङ्कितं आविग्नं उद्भाण्डीकृतं महाभाण्डेन मूर्ध्नि भारेणावच्छादयन्तं सद्योगृहीतलिङ्गिनं अलिङ्गिनं वा प्रव्रजितं अलक्ष्यव्याधितं भयविकारिणं गूढसारभाण्डशासनशस्त्राग्नियोगं विषहस्तं दीर्घपथिकं अमुद्रं च उपग्राहयेत्
मूलम् - 20

विश्वास-प्रस्तुतिः - 21
21 क्षुद्रपशुर्मनुष्यश्च सभारो माषकं दद्यात्, शिरोभारः कायभारो गवाश्वं च द्वौ, उष्ट्रमहिषं चतुरः, पञ्च लभुयानं, षड् गोलिङ्गं, सप्त शकटं, पन्यभारः पादम्
मूलम् - 21

विश्वास-प्रस्तुतिः - 22
22 तेन भाण्डभारो व्याख्यातः
मूलम् - 22
22 तेन भाण्डभारो व्याख्यातः
विश्वास-प्रस्तुतिः - 23
23 द्विगुणो महानदीषु तरः
मूलम् - 23
23 द्विगुणो महानदीषु तरः
विश्वास-प्रस्तुतिः - 24
24 क्लृप्तं आनूपग्रामा भक्तवेतनं दद्युः
मूलम् - 24
24 क्लृप्तं आनूपग्रामा भक्तवेतनं दद्युः
विश्वास-प्रस्तुतिः - 25
25 प्रत्यन्तेषु तराः शुल्कं आतिवाहिकं वर्तनीं च गृह्णीयुः, निर्गच्छतश्चामुद्रद्रव्यस्य भाण्डं हरेयुः, अतिभारेणावेलायां अतिर्थे तरतश्च
मूलम् - 25

विश्वास-प्रस्तुतिः - 26
26 पुरुष उपकरणहीनायां असंस्कृतायां वा नावि विपन्नायां नाव्ऽध्ह्यक्षो नष्टं विनष्टं वाऽभ्यावहेत्
मूलम् - 26
26 पुरुष उपकरणहीनायां असंस्कृतायां वा नावि विपन्नायां नाव्ऽध्ह्यक्षो नष्टं विनष्टं वाऽभ्यावहेत्
विश्वास-प्रस्तुतिः - 27
27ab सप्ताहवृत्तां आषाढीं कार्त्तिकीं चान्तरा तरः ।
27chd कार्मिकः प्रत्ययं दद्यान्नित्यं चाह्निकं आवहेत् (इति)
मूलम् - 27