Superintendent of courtesans
विश्वास-प्रस्तुतिः - 01
01 गणिकाऽध्यक्षो गणिकाऽन्वयां अगणिकाऽन्वयां वा रूपयौवनशिल्पसम्पन्नां सहस्रेण गणिकां कारयेत्, कुटुम्बार्धेन प्रतिगणिकाम्
मूलम् - 01

विश्वास-प्रस्तुतिः - 02
02 निष्पतिताप्रेतयोर्दुहिता भगिनी वा कुटुम्बं भरेत, माता वा प्रतिगणिकां स्थापयेत्
मूलम् - 02
02 निष्पतिताप्रेतयोर्दुहिता भगिनी वा कुटुम्बं भरेत, माता वा प्रतिगणिकां स्थापयेत्
विश्वास-प्रस्तुतिः - 03
03 तासां अभावे राजा हरेत्
मूलम् - 03
03 तासां अभावे राजा हरेत्
विश्वास-प्रस्तुतिः - 04
04 सौभाग्यालङ्कारवृद्ध्या सहस्रेण वारं कनिष्ठं मध्यमं उत्तमं वाऽऽरोपयेत् छत्रभृङ्गारव्यजनशिबिकापीठिकारथेषु च विशेषार्थम्
मूलम् - 04

विश्वास-प्रस्तुतिः - 05
05 सौभाग्यभङ्गे मातृकां कुर्यात्
मूलम् - 05
05 सौभाग्यभङ्गे मातृकां कुर्यात्
विश्वास-प्रस्तुतिः - 06
06 निष्क्रयश्चतुर्विंशतिसाहस्रो गणिकायाः, द्वादशसाहस्रो गणिकापुत्रस्य
मूलम् - 06
06 निष्क्रयश्चतुर्विंशतिसाहस्रो गणिकायाः, द्वादशसाहस्रो गणिकापुत्रस्य
विश्वास-प्रस्तुतिः - 07
07 अष्टवर्षात् प्रभृति राज्ञः कुशीलवकर्म कुर्यात्
मूलम् - 07
07 अष्टवर्षात् प्रभृति राज्ञः कुशीलवकर्म कुर्यात्
विश्वास-प्रस्तुतिः - 08
08 गणिकादासी भग्नभोगा कोष्ठागारे महानसे वा कर्म कुर्यात्
मूलम् - 08
08 गणिकादासी भग्नभोगा कोष्ठागारे महानसे वा कर्म कुर्यात्
विश्वास-प्रस्तुतिः - 09
09 अविशन्ती सपादपणं अवरुद्धा मासवेतनं दद्यात्
मूलम् - 09
09 अविशन्ती सपादपणं अवरुद्धा मासवेतनं दद्यात्
विश्वास-प्रस्तुतिः - 10
10 भोगं दायमायं व्ययं आयतिं च गणिकाया निबन्धयेत्, अतिव्ययकर्म च वारयेत्
मूलम् - 10
10 भोगं दायमायं व्ययं आयतिं च गणिकाया निबन्धयेत्, अतिव्ययकर्म च वारयेत्
विश्वास-प्रस्तुतिः - 11
11 मातृहस्ताद् अन्यत्र अभरणन्यासे सपादचतुष्पणो दण्डः
मूलम् - 11
11 मातृहस्ताद् अन्यत्र अभरणन्यासे सपादचतुष्पणो दण्डः
विश्वास-प्रस्तुतिः - 12
12 स्वापतेयं विक्रयं आधानं वा नयन्त्याः सपादपञ्चाशत्पणः पणोऽर्धपणच्छेदने
मूलम् - 12
12 स्वापतेयं विक्रयं आधानं वा नयन्त्याः सपादपञ्चाशत्पणः पणोऽर्धपणच्छेदने
विश्वास-प्रस्तुतिः - 13
13 अकामायाः कुमार्या वा साहसे उत्तमो दण्डः, सकामायाः पूर्वः साहसदण्डः
मूलम् - 13
13 अकामायाः कुमार्या वा साहसे उत्तमो दण्डः, सकामायाः पूर्वः साहसदण्डः
विश्वास-प्रस्तुतिः - 14
14 गणिकां अकामां रुन्धतो निष्पातयतो वा व्रणविदारणेन वा रूपं।उपघ्नतः सहस्रं दण्डः
मूलम् - 14
14 गणिकां अकामां रुन्धतो निष्पातयतो वा व्रणविदारणेन वा रूपं।उपघ्नतः सहस्रं दण्डः
विश्वास-प्रस्तुतिः - 15
15 स्थान्विशेषेण वा दण्डवृद्धिः आनिष्क्रयद्विगुणात्
मूलम् - 15
15 स्थान्विशेषेण वा दण्डवृद्धिः आनिष्क्रयद्विगुणात्
विश्वास-प्रस्तुतिः - 16
16 प्राप्ताधिकारं गणिकां घतयतो निष्क्रयत्रिगुणो दण्डः
मूलम् - 16
16 प्राप्ताधिकारं गणिकां घतयतो निष्क्रयत्रिगुणो दण्डः
विश्वास-प्रस्तुतिः - 17
17 मातृकादुहितृकारूपदासीनां घाते उत्तमः साहसदण्डः
मूलम् - 17
17 मातृकादुहितृकारूपदासीनां घाते उत्तमः साहसदण्डः
विश्वास-प्रस्तुतिः - 18
18 सर्वत्र प्रथमेऽपराधे प्रथमः, द्वितीये द्विगुणः, तृतीये त्रिगुणः, चतुर्थे यथाकामी स्यात्
मूलम् - 18
18 सर्वत्र प्रथमेऽपराधे प्रथमः, द्वितीये द्विगुणः, तृतीये त्रिगुणः, चतुर्थे यथाकामी स्यात्
विश्वास-प्रस्तुतिः - 19
19 राजाज्ञया पुरुषं अनभिगच्छन्ती गणिका शिफासहस्रं लभीत, पञ्चसहस्रं वा दण्डः
मूलम् - 19
19 राजाज्ञया पुरुषं अनभिगच्छन्ती गणिका शिफासहस्रं लभीत, पञ्चसहस्रं वा दण्डः
विश्वास-प्रस्तुतिः - 20
20 भोगं गृहीत्वा द्विषत्या भोगद्विगुणो दण्डः
मूलम् - 20
20 भोगं गृहीत्वा द्विषत्या भोगद्विगुणो दण्डः
विश्वास-प्रस्तुतिः - 21
21 वसतिभोगापहारे भोगं अष्टगुणं दद्याद् अन्यत्र व्याधिपुरुषदोषेभ्यः
मूलम् - 21
21 वसतिभोगापहारे भोगं अष्टगुणं दद्याद् अन्यत्र व्याधिपुरुषदोषेभ्यः
विश्वास-प्रस्तुतिः - 22
22 पुरुषं घ्नत्याश्चिताप्रतापेऽप्सु प्रवेशनं वा
मूलम् - 22
22 पुरुषं घ्नत्याश्चिताप्रतापेऽप्सु प्रवेशनं वा
विश्वास-प्रस्तुतिः - 23
23 गणिकाभरणं अर्थं भोगं वाऽपहरतोऽष्टगुणो दण्डः
मूलम् - 23
23 गणिकाभरणं अर्थं भोगं वाऽपहरतोऽष्टगुणो दण्डः
विश्वास-प्रस्तुतिः - 24
24 गणिका भोगं आयतिं पुरुषं च निवेदयेत्
मूलम् - 24
24 गणिका भोगं आयतिं पुरुषं च निवेदयेत्
विश्वास-प्रस्तुतिः - 25
25 एतेन नटनर्तकगायनवादकवाग्जीवनकुशीलवप्लवकसौभिकचारणानां स्त्रीव्यवहारिणां स्त्रियो गूढाजीवाश्च व्याख्याताः
मूलम् - 25

विश्वास-प्रस्तुतिः - 26
26 तेषां तूर्यं आगन्तुकं पञ्चपणं प्रेक्षावेतनं दद्यात्
मूलम् - 26
26 तेषां तूर्यं आगन्तुकं पञ्चपणं प्रेक्षावेतनं दद्यात्
विश्वास-प्रस्तुतिः - 27
27 रूपाजीवा भोगद्वयगुणं मासं दद्युः
मूलम् - 27
27 रूपाजीवा भोगद्वयगुणं मासं दद्युः
विश्वास-प्रस्तुतिः - 28
28 गीतवाद्यपाठ्यनृत्यनाट्याक्षरचित्रवीणावेणुमृदङ्गपरचित्तज्ञानगन्धमाल्यसम्यूहनसंवादनसंवाहनवैशिककलाज्ञानानि गणिका दासी रङ्ग उपजीविनीश्च ग्राहयतो राजमण्डलाद् आजीवं कुर्यात्
मूलम् - 28

विश्वास-प्रस्तुतिः - 29
29 गणिकापुत्रान् रङ्ग उपजीविनां च मुख्यान्निष्पादयेयुः, सर्वतालावचराणां च
मूलम् - 29
29 गणिकापुत्रान् रङ्ग उपजीविनां च मुख्यान्निष्पादयेयुः, सर्वतालावचराणां च
विश्वास-प्रस्तुतिः - 30
30ab सञ्ज्ञाभाषाऽन्तरज्ञाश्च स्त्रियः तेषां अनात्मसु ।
30chd चारघातप्रमादार्थं प्रयोज्या बन्धुवाहनाः (इति)
मूलम् - 30