Supervisor of (animal-)slaughter
विश्वास-प्रस्तुतिः - 01
01 सूनाऽध्यक्षः प्रदिष्टाभयानां अभयवनवासिनां च मृगपशुपक्षिमत्स्यानां बन्धवधहिंसायां उत्तमं दण्डं कारयेत्, कुटुम्बिनां अभयवनपरिग्रहेषु मध्यमम्
मूलम् - 01

विश्वास-प्रस्तुतिः - 02
02 अप्रवृत्तवधानां मत्स्यपक्षिणां बन्धवधहिंसायां पाद ऊनसप्तविंशतिपणं अत्ययं कुर्यात्, मृगपशूनां द्विगुणम्
मूलम् - 02

विश्वास-प्रस्तुतिः - 03
03 प्रवृत्तहिंसानां अपरिगृहीतानां षड्भागं गृह्णीयात्, मत्स्यपक्षिणां दशभागं वाऽधिकं, मृगपशूनां शुल्कं वाऽधिकम्
मूलम् - 03

विश्वास-प्रस्तुतिः - 04
04 पक्षिमृगाणां जीवत् षड्भागं अभयवनेषु प्रमुञ्चेत्
मूलम् - 04
04 पक्षिमृगाणां जीवत् षड्भागं अभयवनेषु प्रमुञ्चेत्
विश्वास-प्रस्तुतिः - 05
05 सामुद्रहस्त्य्ऽश्वपुरुषवृषगर्दभाकृतयो मत्स्याः सारसा नादेयाः तटाककुल्या उद्भवा वा क्रौञ्च उत्क्रोशकदात्यूहहंसचक्रवाकजीवञ्जीवकभृङ्गराजचकोरमत्तकोकिलमयूरशुकमदनशारिका विहारपक्षिणो मङ्गल्याश्चान्येऽपि प्राणिनः पक्षिमृगा हिंसाबाधेभ्यो रक्ष्याः
मूलम् - 05

विश्वास-प्रस्तुतिः - 06
06 रक्षाऽतिक्रमे पूर्वः साहसदण्डः
मूलम् - 06
06 रक्षाऽतिक्रमे पूर्वः साहसदण्डः
विश्वास-प्रस्तुतिः - 07
07 मृगपशूनां अनस्थिमांसं सद्योहतं विक्रीणीरन्
मूलम् - 07
07 मृगपशूनां अनस्थिमांसं सद्योहतं विक्रीणीरन्
विश्वास-प्रस्तुतिः - 08
08 अस्थिमतः प्रतिपातं दद्युः
मूलम् - 08
08 अस्थिमतः प्रतिपातं दद्युः
विश्वास-प्रस्तुतिः - 09
09 तुलाहीने हीनाष्टगुणम्
मूलम् - 09
09 तुलाहीने हीनाष्टगुणम्
विश्वास-प्रस्तुतिः - 10
10 वत्सो वृषो धेनुश्च एषां अवध्याः
मूलम् - 10
10 वत्सो वृषो धेनुश्च एषां अवध्याः
विश्वास-प्रस्तुतिः - 11
11 घ्नतः पञ्चाशत्को दण्डः, क्लिष्टघातं घातयतश्च
मूलम् - 11
11 घ्नतः पञ्चाशत्को दण्डः, क्लिष्टघातं घातयतश्च
विश्वास-प्रस्तुतिः - 12
12 परिशूनं अशिरःपादास्थि विगन्धं स्वयम्मृतं च न विक्रीणीरन्
मूलम् - 12
12 परिशूनं अशिरःपादास्थि विगन्धं स्वयम्मृतं च न विक्रीणीरन्
विश्वास-प्रस्तुतिः - 13
13 अन्यथा द्वादशपणो दण्डः
मूलम् - 13
13 अन्यथा द्वादशपणो दण्डः
विश्वास-प्रस्तुतिः - 14
14ab दुष्टाः पशुमृगव्याला मत्स्यश्चाभयचारिणः ।
14chd अन्यत्र गुप्तिस्थानेभ्यो वधबन्धं अवाप्नुयुः (इति)
मूलम् - 14