Controller of spiritual liquors
विश्वास-प्रस्तुतिः - 01
01 सुराऽध्यक्षः सुराकिण्वव्यवहारान् दुर्गे जनपदे स्कन्धावारे वा तज्जातसुराकिण्वव्यवहारिभिः कारयेद्, एकमुखं अनेकमुखं वा विक्रयक्रयवशेन वा
मूलम् - 01

विश्वास-प्रस्तुतिः - 02
02 षट्शतं अत्ययं अन्यत्र कर्तृक्रेतृविक्रेतॄणां स्थापयेत्
मूलम् - 02
02 षट्शतं अत्ययं अन्यत्र कर्तृक्रेतृविक्रेतॄणां स्थापयेत्
विश्वास-प्रस्तुतिः - 03
03 ग्रामाद् अनिर्णयणं असम्पातं च सुरायाः, प्रमादभयात् कर्मसु ञ्जिर्दिष्टानां, मर्यादातिक्रमभयाद् आर्याणां, उत्साहभयाच्च तीष्क्णानाम्
मूलम् - 03

विश्वास-प्रस्तुतिः - 04
04 लक्षितं अल्पं वा चतुर्भागं अर्धकुडुबं कुडुबं अर्धप्रस्थं प्रस्थं वा इति ज्ञातशौचा निर्हरेयुः
मूलम् - 04
04 लक्षितं अल्पं वा चतुर्भागं अर्धकुडुबं कुडुबं अर्धप्रस्थं प्रस्थं वा इति ज्ञातशौचा निर्हरेयुः
विश्वास-प्रस्तुतिः - 05
05 पानागारेषु वा पिबेयुरसञ्चारिणः
मूलम् - 05
05 पानागारेषु वा पिबेयुरसञ्चारिणः
विश्वास-प्रस्तुतिः - 06
06 निक्षेप उपनिधिप्रयोगापहृतानां अनिष्ट उपगतानां च द्रव्याणां ज्ञानार्थं अस्वामिकं कुप्यं हिरण्यं च उपलभ्य निष्केप्तारं अन्यत्र व्यपदेशेन ग्राहयेद्, अतिव्ययकर्तारं अनायतिव्ययं च
मूलम् - 06

विश्वास-प्रस्तुतिः - 07
07 न चानर्घेण कालिकां वा सुरां दद्याद्, अन्यत्र दुष्टसुरायाः
मूलम् - 07
07 न चानर्घेण कालिकां वा सुरां दद्याद्, अन्यत्र दुष्टसुरायाः
विश्वास-प्रस्तुतिः - 08
08 तां अन्यत्र विक्रापयेत्
मूलम् - 08
08 तां अन्यत्र विक्रापयेत्
विश्वास-प्रस्तुतिः - 09
09 दासकर्मकरेभ्यो वा वेतनं दद्यात्
मूलम् - 09
09 दासकर्मकरेभ्यो वा वेतनं दद्यात्
विश्वास-प्रस्तुतिः - 10
10 वाहनप्रतिपानं सूकरपोषणं वा दद्यात्
मूलम् - 10
10 वाहनप्रतिपानं सूकरपोषणं वा दद्यात्
विश्वास-प्रस्तुतिः - 11
11 पानागाराण्य्ऽनेककक्ष्याणि विभक्तशयनासनवन्ति पान उद्देशानि गन्धमाल्य उदकवन्ति ऋतुसुखानि कारयेत्
मूलम् - 11
11 पानागाराण्य्ऽनेककक्ष्याणि विभक्तशयनासनवन्ति पान उद्देशानि गन्धमाल्य उदकवन्ति ऋतुसुखानि कारयेत्
विश्वास-प्रस्तुतिः - 12
12 तत्रस्थाः प्रकृत्य्ऽउत्पत्तिकौ व्ययौ गूढा विद्युः, आगन्तूंश्च
मूलम् - 12
12 तत्रस्थाः प्रकृत्य्ऽउत्पत्तिकौ व्ययौ गूढा विद्युः, आगन्तूंश्च
विश्वास-प्रस्तुतिः - 13
13 क्रेतॄणां मत्तसुप्तानां अलङ्कारात्छादनहिरण्यानि च विद्युः
मूलम् - 13
13 क्रेतॄणां मत्तसुप्तानां अलङ्कारात्छादनहिरण्यानि च विद्युः
विश्वास-प्रस्तुतिः - 14
14 तन्नाशे वणिजः तच्च तावच्च दण्डं दद्युः
मूलम् - 14
14 तन्नाशे वणिजः तच्च तावच्च दण्डं दद्युः
विश्वास-प्रस्तुतिः - 15
15 वणिजश्ः तु संवृतेषु कक्ष्याविभागेषु स्वदासीभिः पेशलरूपाभिरागन्तूनां वास्तव्यानां चार्यरूपाणां मत्तसुप्तानां भावं विद्युः
मूलम् - 15

विश्वास-प्रस्तुतिः - 16
16 मेदकप्रसन्नासवारिष्टमैरेयमधूनाम्
मूलम् - 16
16 मेदकप्रसन्नासवारिष्टमैरेयमधूनाम्
विश्वास-प्रस्तुतिः - 17
17 उदकद्रोणं तण्डुलानां अर्धाढकं त्रयः प्रस्थाः किण्वस्य इति मेदकयोगः
मूलम् - 17
17 उदकद्रोणं तण्डुलानां अर्धाढकं त्रयः प्रस्थाः किण्वस्य इति मेदकयोगः
विश्वास-प्रस्तुतिः - 18
18 द्वादशाढकं पिष्टस्य पञ्च प्रस्थाः किण्वस्य क्रमुकत्वक्फलयुक्तो वा जातिसम्भारः प्रसन्नायोगः
मूलम् - 18
18 द्वादशाढकं पिष्टस्य पञ्च प्रस्थाः किण्वस्य क्रमुकत्वक्फलयुक्तो वा जातिसम्भारः प्रसन्नायोगः
विश्वास-प्रस्तुतिः - 19
19 कपित्थतुला फाणितं पञ्चतौलिकं प्रस्थो मधुन इत्यासवयोगः
मूलम् - 19
19 कपित्थतुला फाणितं पञ्चतौलिकं प्रस्थो मधुन इत्यासवयोगः
विश्वास-प्रस्तुतिः - 27
27 पाठालोघ्रतेजोवत्य्।एलावालुकमधुकमधुरसाप्रियङ्गुदारुहरिद्रामरिचपिप्पलीनां च पञ्चकार्षिकः सम्भारयोगो मेदकस्य प्रसन्नायाश्च
मूलम् - 27

विश्वास-प्रस्तुतिः - 28
28 मधुकनिर्यूहयुक्ता कटशर्करा वर्णप्रसादनी च
मूलम् - 28
28 मधुकनिर्यूहयुक्ता कटशर्करा वर्णप्रसादनी च
विश्वास-प्रस्तुतिः - 29
29 चोचचित्रकविलङ्गगजपिप्पलीनां च कार्षिकः क्रमुकमधुकमुस्तालोध्राणां द्विकार्षिकश्चासवसम्भारः
मूलम् - 29
29 चोचचित्रकविलङ्गगजपिप्पलीनां च कार्षिकः क्रमुकमधुकमुस्तालोध्राणां द्विकार्षिकश्चासवसम्भारः
विश्वास-प्रस्तुतिः - 30
30 दशभागश्च एषां बीजबन्धः
मूलम् - 30
30 दशभागश्च एषां बीजबन्धः
विश्वास-प्रस्तुतिः - 31
31 प्रसन्नायोगः श्वेतसुरायाः
मूलम् - 31
31 प्रसन्नायोगः श्वेतसुरायाः
विश्वास-प्रस्तुतिः - 32
32 सहकारसुरा रस उत्तरा बीज उत्तरा वा महासुरा सम्भारिकी वा
मूलम् - 32
32 सहकारसुरा रस उत्तरा बीज उत्तरा वा महासुरा सम्भारिकी वा
विश्वास-प्रस्तुतिः - 33
33 तासां मोरटापलाशपत्तूरमेषशृङ्गीकरञ्जक्षीरवृक्षकषायभावितं दग्धकटशर्कराचूर्णं लोघ्रचित्रकविलङ्गपाठामुस्ताकलिङ्गयवदारुहरिद्र इन्दीवरशतपुष्पापामार्गसप्तपर्णनिम्बास्फोतकल्कार्धयुक्तं अन्तर्नखो मुष्टिः कुम्भीं राजपेयां प्रसादयति
मूलम् - 33

विश्वास-प्रस्तुतिः - 34
34 फाणितः पञ्चपलिकश्चात्र रसवृद्धिर्देयः
मूलम् - 34
34 फाणितः पञ्चपलिकश्चात्र रसवृद्धिर्देयः
विश्वास-प्रस्तुतिः - 35
35 कुटुम्बिनः कृत्येषु श्वेतसुरां, औषधार्थं वारिष्टं, अन्यद् वा कर्तुं लभेरन्
मूलम् - 35
35 कुटुम्बिनः कृत्येषु श्वेतसुरां, औषधार्थं वारिष्टं, अन्यद् वा कर्तुं लभेरन्
विश्वास-प्रस्तुतिः - 36
36 उत्सवसमाजयात्रासु चतुर्ऽहः सौरिको देयः
मूलम् - 36
36 उत्सवसमाजयात्रासु चतुर्ऽहः सौरिको देयः
विश्वास-प्रस्तुतिः - 37
37 तेष्वननुज्ञातानां प्रहवनान्तं दैवसिकं अत्ययं गृह्णीयात्
मूलम् - 37
37 तेष्वननुज्ञातानां प्रहवनान्तं दैवसिकं अत्ययं गृह्णीयात्
विश्वास-प्रस्तुतिः - 38
38 सुराकिण्वविचयं स्त्रियो बालाश्च कुर्युः
मूलम् - 38
38 सुराकिण्वविचयं स्त्रियो बालाश्च कुर्युः
विश्वास-प्रस्तुतिः - 39
39 अराजपण्याः पञ्चकं शतं शुल्कं दद्युः, सुरकामेदकारिष्टमधुफलाम्लाम्लशीधूनां च
मूलम् - 39
39 अराजपण्याः पञ्चकं शतं शुल्कं दद्युः, सुरकामेदकारिष्टमधुफलाम्लाम्लशीधूनां च
विश्वास-प्रस्तुतिः - 40
40ab अह्नश्च विक्रयं ज्ञात्वा व्याजीं मानहिरण्ययोः ।
40chd तथा वैधरणं कुर्याद् उचितं चानुवर्तयेत् (इति)
मूलम् - 40