Director of agriculture
विश्वास-प्रस्तुतिः - 01
01 सीताऽध्यक्षः कृषितन्त्रशुल्बवृक्षायुर्वेदज्ञः तज्ज्ञसखो वा सर्वधान्यपुष्पफलशाककन्दमूलवाल्लिक्यक्षौमकार्पासबीजानि यथाकालं गृह्णीयात्
मूलम् - 01

विश्वास-प्रस्तुतिः - 02
02 बहुहलपरिकृष्टायां स्वभूमौ दासकर्मकरदण्डप्रतिकर्तृभिर्वापयेत्
मूलम् - 02
02 बहुहलपरिकृष्टायां स्वभूमौ दासकर्मकरदण्डप्रतिकर्तृभिर्वापयेत्
विश्वास-प्रस्तुतिः - 03
03 कर्षणयन्त्र उपकरणबलीवर्दैश्च एषां असङ्गं कारयेत्, कारुभिश्च कर्मारकुट्टाकमेदकरज्जुवर्तकसर्पग्राहादिभिश्च
मूलम् - 03

विश्वास-प्रस्तुतिः - 04
04 तेषां कर्मफलविनिपाते तत्फलहानं दण्डः
मूलम् - 04
04 तेषां कर्मफलविनिपाते तत्फलहानं दण्डः
विश्वास-प्रस्तुतिः - 05
05 षोडशद्रोणं जाङ्गलानां वर्षप्रमाणं, अध्यर्धं आनूपानां देशवापानां, अर्धत्रयोदशाश्मकानां, त्रयोविंशतिरवन्तीनां, अमितं अपरान्तानां हैमन्यानां च, कुल्याऽऽवापानां च कालतः
मूलम् - 05

विश्वास-प्रस्तुतिः - 06
06 वर्षत्रिभागः पूर्वपश्चिममासयोः, द्वौ त्रिभागौ मध्यमयोः - सुषमारूपम्
मूलम् - 06
06 वर्षत्रिभागः पूर्वपश्चिममासयोः, द्वौ त्रिभागौ मध्यमयोः - सुषमारूपम्
विश्वास-प्रस्तुतिः - 07
07 तस्य उपलधिर्बृहस्पतेः स्थानगमनगर्भाधानेभ्यः शुक्र उदयास्तमयचारेभ्यः सूर्यस्य प्रकृतिवैकृताच्च
मूलम् - 07
07 तस्य उपलधिर्बृहस्पतेः स्थानगमनगर्भाधानेभ्यः शुक्र उदयास्तमयचारेभ्यः सूर्यस्य प्रकृतिवैकृताच्च
विश्वास-प्रस्तुतिः - 08
08 सूर्याद् बीजसिद्धिः, बृहस्पतेः सस्यानां स्तम्बकारिता, शुक्राद् वृष्टिः । इति
मूलम् - 08
08 सूर्याद् बीजसिद्धिः, बृहस्पतेः सस्यानां स्तम्बकारिता, शुक्राद् वृष्टिः । इति
विश्वास-प्रस्तुतिः - 09
09ab त्रयः सप्ताहिका मेघा अशीतिः कणशीकराः ।
09chd षष्टिरातपमेघानां एषा वृष्टिः समा हिता
मूलम् - 09
09ab त्रयः सप्ताहिका मेघा अशीतिः कणशीकराः ।
09chd षष्टिरातपमेघानां एषा वृष्टिः समा हिता
विश्वास-प्रस्तुतिः - 10
10ab वातं आतपयोगं च विभजन् यत्र वर्षति ।
10chd त्रीन् करीषांश्च जनयंः तत्र सस्यागमो ध्रुवः
मूलम् - 10
10ab वातं आतपयोगं च विभजन् यत्र वर्षति ।
10chd त्रीन् करीषांश्च जनयंः तत्र सस्यागमो ध्रुवः
विश्वास-प्रस्तुतिः - 11
11 ततः प्रभूत उदकं अल्प उदकं वा सस्यं वापयेत्
मूलम् - 11
11 ततः प्रभूत उदकं अल्प उदकं वा सस्यं वापयेत्
विश्वास-प्रस्तुतिः - 12
12 शालिव्रीहिकोद्रवतिलप्रियङ्गु।उदारकवरकाः पूर्ववापाः
मूलम् - 12
12 शालिव्रीहिकोद्रवतिलप्रियङ्गु।उदारकवरकाः पूर्ववापाः
विश्वास-प्रस्तुतिः - 13
13 मुद्गमाषशैम्ब्या मध्यवापाः
मूलम् - 13
13 मुद्गमाषशैम्ब्या मध्यवापाः
विश्वास-प्रस्तुतिः - 14
14 कुसुम्भमसूरकुलत्थयवगोधूमकलायातसीसर्षपाः पश्चाद्वापाः
मूलम् - 14
14 कुसुम्भमसूरकुलत्थयवगोधूमकलायातसीसर्षपाः पश्चाद्वापाः
विश्वास-प्रस्तुतिः - 15
15 यथा।ऋतुवशेन वा बीजवापाः
मूलम् - 15
15 यथा।ऋतुवशेन वा बीजवापाः
विश्वास-प्रस्तुतिः - 16
16 वापातिरिक्तं अर्धसीतिकाः कुर्युः, स्ववीर्य उपजीविनो वा चतुर्थपञ्चभागिकाः
मूलम् - 16
16 वापातिरिक्तं अर्धसीतिकाः कुर्युः, स्ववीर्य उपजीविनो वा चतुर्थपञ्चभागिकाः
विश्वास-प्रस्तुतिः - 21
21 इक्षवो हि बह्व्।आबाधा व्ययग्राहिणश्च
मूलम् - 21
21 इक्षवो हि बह्व्।आबाधा व्ययग्राहिणश्च
विश्वास-प्रस्तुतिः - 22
22 फेनाघातो वल्लीफलानां, परीवाहान्ताः पिप्पलीमृद्वीक इक्षूणां, कूपपर्यन्ताः शाकमूलानां, हरणीपर्यन्ता हरितकानां, पाल्यो लवानां गन्धभैषज्य उशीरह्रीबेरपिण्डालुकादीनाम्
मूलम् - 22

विश्वास-प्रस्तुतिः - 23
23 यथास्वं भूमिषु च स्थाल्याश्चानूप्याश्चोषधीः स्थापयेत्
मूलम् - 23
23 यथास्वं भूमिषु च स्थाल्याश्चानूप्याश्चोषधीः स्थापयेत्
विश्वास-प्रस्तुतिः - 24
24 तुषारपायनमुष्णशोषणं चासप्तरात्राद् इति धान्यबीजानां, त्रिरात्रं वा पञ्चरात्रं वा कोशीधान्यानां, मधुघृतसूकरवसाभिः शकृद्युक्ताभिः काण्डबीजानां छेदलेपो, मधुघृतेन कन्दानां, अस्थिबीजानां शकृद्।आलेपः, शाखिनां गर्तदाहो गोऽस्थिशकृद्भिः काले दौह्र्दं च
मूलम् - 24

विश्वास-प्रस्तुतिः - 25
25 प्ररूढांश्चाशुष्ककटुमत्स्यांश्च स्नुहिक्षीरेण पाययेत्
मूलम् - 25
25 प्ररूढांश्चाशुष्ककटुमत्स्यांश्च स्नुहिक्षीरेण पाययेत्
विश्वास-प्रस्तुतिः - 26
26ab कार्पाससारं निर्मोकं सर्पस्य च समाहरेत् ।
26chd न सर्पाः तत्र तिष्ठन्ति धूमो यत्र एष तिष्ठति
मूलम् - 26
26ab कार्पाससारं निर्मोकं सर्पस्य च समाहरेत् ।
26chd न सर्पाः तत्र तिष्ठन्ति धूमो यत्र एष तिष्ठति
विश्वास-प्रस्तुतिः - 27
27 सर्वजीजानां तु प्रथमवापे सुवर्ण उदकसम्प्लुतां पूर्वमुष्टिं वापयेद्, अमुं च मन्त्रं ब्रूयात् - प्रजापतये काश्यपाय देवाय च नमः सदा । सीता मे ऋध्यतां देवी बीजेषु च धनेषु च
मूलम् - 27

विश्वास-प्रस्तुतिः - 28
28 षण्डवाटगोपालकदासकर्मकरेभ्यो यथापुरुषपरिवापं भक्तं कुर्यात्, स-पादपणिकं च मासं दद्यात्
मूलम् - 28
28 षण्डवाटगोपालकदासकर्मकरेभ्यो यथापुरुषपरिवापं भक्तं कुर्यात्, स-पादपणिकं च मासं दद्यात्
विश्वास-प्रस्तुतिः - 29
29 कर्मानुरूपं कारुभ्यो भक्तवेतनम्
मूलम् - 29
29 कर्मानुरूपं कारुभ्यो भक्तवेतनम्
विश्वास-प्रस्तुतिः - 30
30 प्रशीर्णं च पुष्पफलं देवकार्यार्थं व्रीहियवं आग्रयणार्थं श्रोत्रियाः तपस्विनश्चाहरेयुः, राशिमूलं उञ्छवृत्तयः
मूलम् - 30

विश्वास-प्रस्तुतिः - 31
31ab यथाकालं च सस्यादि जातं जातं प्रवेशयेत् ।
31chd न क्षेत्रे स्थापयेत् किञ्चित् पलालं अपि पण्डितः
मूलम् - 31
31ab यथाकालं च सस्यादि जातं जातं प्रवेशयेत् ।
31chd न क्षेत्रे स्थापयेत् किञ्चित् पलालं अपि पण्डितः
विश्वास-प्रस्तुतिः - 32
32ab प्राकाराणां समुच्छ्रयान् वलभीर्वा तथाविधाः ।
32chd न संहतानि कुर्वीत न तुच्छानि शिरांसि च
मूलम् - 32
32ab प्राकाराणां समुच्छ्रयान् वलभीर्वा तथाविधाः ।
32chd न संहतानि कुर्वीत न तुच्छानि शिरांसि च
विश्वास-प्रस्तुतिः - 33
33ab खलस्य प्रकरान् कुर्यान् मण्डलान्ते समाश्रितान् ।
33chd अनग्निकाः स-उदकाश्च खले स्युः परिकर्मिणः (इति)
मूलम् - 33