Superintendent of yarns (and textiles)
विश्वास-प्रस्तुतिः - 01
01 सूत्राध्यक्षः सूत्रवर्मवस्त्ररज्जुव्यवहारं तज्जातपुरुषैः कारयेत्
मूलम् - 01
01 सूत्राध्यक्षः सूत्रवर्मवस्त्ररज्जुव्यवहारं तज्जातपुरुषैः कारयेत्
विश्वास-प्रस्तुतिः - 02
02 ऊर्णावल्ककार्पासतूलशणक्षौमाणि च विधवान्यङ्गाकन्याप्रव्रजितादण्डप्रतिकारिणीभी रूपाजीवामातृकाभिर्वृद्धराजदासीभिर्व्युपरत उपस्थानदेवदासीभिश्च कर्तयेत्
मूलम् - 02

विश्वास-प्रस्तुतिः - 03
03 श्लक्ष्णस्थूलमध्यतां च सूत्रस्य विदित्वा वेतनं कल्पयेत्, बह्व्ऽल्पतां च
मूलम् - 03
03 श्लक्ष्णस्थूलमध्यतां च सूत्रस्य विदित्वा वेतनं कल्पयेत्, बह्व्ऽल्पतां च
विश्वास-प्रस्तुतिः - 04
04 सूत्रप्रमाण ज्ञात्वा तैलामलक उद्वर्तनैरेता अनुगृह्णीयात्
मूलम् - 04
04 सूत्रप्रमाण ज्ञात्वा तैलामलक उद्वर्तनैरेता अनुगृह्णीयात्
विश्वास-प्रस्तुतिः - 05
05 तिथिषु प्रतिमानदानैश्च कर्म कारयितव्याः
मूलम् - 05
05 तिथिषु प्रतिमानदानैश्च कर्म कारयितव्याः
विश्वास-प्रस्तुतिः - 06
06 सूत्रह्रासे वेतनह्रासो द्रव्यसारात्
मूलम् - 06
06 सूत्रह्रासे वेतनह्रासो द्रव्यसारात्
विश्वास-प्रस्तुतिः - 07
07 कृतकर्मप्रमाणकालवेतनफलनिष्पत्तिभिः कारुभिश्च कर्म कारयेत्, प्रतिसंसर्गं च गच्छेत्
मूलम् - 07
07 कृतकर्मप्रमाणकालवेतनफलनिष्पत्तिभिः कारुभिश्च कर्म कारयेत्, प्रतिसंसर्गं च गच्छेत्
विश्वास-प्रस्तुतिः - 08
08 क्षौमदुकूलक्रिमितानराङ्कवकार्पाससूत्रवानकर्मान्तांश्च प्रयुञ्जानो गन्धमाल्यदानैरन्यैश्चाउपग्राहिकैराराधयेत्
मूलम् - 08

विश्वास-प्रस्तुतिः - 09
09 वस्त्रास्तरणप्रावरणविकल्पान् उत्थापयेत्
मूलम् - 09
09 वस्त्रास्तरणप्रावरणविकल्पान् उत्थापयेत्
विश्वास-प्रस्तुतिः - 10
10 कङ्कटकर्मान्तांश्च तज्जातकारुशिल्पिभिः कारयेत्
मूलम् - 10
10 कङ्कटकर्मान्तांश्च तज्जातकारुशिल्पिभिः कारयेत्
विश्वास-प्रस्तुतिः - 11
11 याश्चानिष्कासिन्यः प्रोषिता विधवा न्यङ्गाः कन्यका वाऽऽत्मानं बिभृयुः ताः स्वदासीभिरनुसार्य स-उपग्रहं कर्म कारयितव्याः
मूलम् - 11

विश्वास-प्रस्तुतिः - 12
12 स्वयं आगच्छन्तीनां वा सूत्रशालां प्रत्युषसि भाण्डवेतनविनिमयं कारयेत्
मूलम् - 12
12 स्वयं आगच्छन्तीनां वा सूत्रशालां प्रत्युषसि भाण्डवेतनविनिमयं कारयेत्
विश्वास-प्रस्तुतिः - 13
13 सूत्रपरीक्षाऽर्थमात्रः प्रदीपः
मूलम् - 13
13 सूत्रपरीक्षाऽर्थमात्रः प्रदीपः
विश्वास-प्रस्तुतिः - 14
14 स्त्रिया मुखसन्दर्शनेऽन्यकार्यसम्भाषायां वा पूर्वः साहसदण्डः, वेतनकालातिपातने मध्यमः, अकृतकर्मवेतनप्रदाने च
मूलम् - 14

विश्वास-प्रस्तुतिः - 15
15 गृहीत्वा वेतनं कर्माकुर्वत्या अङ्गुष्ठसन्दंशं दापयेत्, भक्षितापहृतावस्कन्दितानां च
मूलम् - 15
15 गृहीत्वा वेतनं कर्माकुर्वत्या अङ्गुष्ठसन्दंशं दापयेत्, भक्षितापहृतावस्कन्दितानां च
विश्वास-प्रस्तुतिः - 16
16 वेतनेषु च कर्मकराणां अपराधतो दण्डः
मूलम् - 16
16 वेतनेषु च कर्मकराणां अपराधतो दण्डः
विश्वास-प्रस्तुतिः - 17
17 रज्जुवर्तकैर्वर्मकारैश्च स्वयं संसृज्येत
मूलम् - 17
17 रज्जुवर्तकैर्वर्मकारैश्च स्वयं संसृज्येत
विश्वास-प्रस्तुतिः - 18
18 भाण्डानि च वरत्रादीनि वर्तयेत्
मूलम् - 18
18 भाण्डानि च वरत्रादीनि वर्तयेत्
विश्वास-प्रस्तुतिः - 19
19ab सूत्रवल्कमयी रज्जुर्वरत्रा वैत्रवैणवीः ।
19chd साम्नाह्या बन्धनीयाश्च यानयुग्यस्य करयेत् (इति)
मूलम् - 19