Tariff of duties and tolls
विश्वास-प्रस्तुतिः - 01
01 बाह्यं आभ्यन्तरं चातिथ्यम्
मूलम् - 01
01 बाह्यं आभ्यन्तरं चातिथ्यम्
विश्वास-प्रस्तुतिः - 02
02 निष्क्राम्यं प्रवेश्यं च शुल्कम्
मूलम् - 02
02 निष्क्राम्यं प्रवेश्यं च शुल्कम्
विश्वास-प्रस्तुतिः - 03
03 प्रवेश्यानां मूल्यपञ्चभागः
मूलम् - 03
03 प्रवेश्यानां मूल्यपञ्चभागः
विश्वास-प्रस्तुतिः - 04
04 पुष्पफलशाकमूलकन्दवाल्लिक्यबीजशुष्कमत्स्यमांसानां षड्भागं गृह्णीयात्
मूलम् - 04
04 पुष्पफलशाकमूलकन्दवाल्लिक्यबीजशुष्कमत्स्यमांसानां षड्भागं गृह्णीयात्
विश्वास-प्रस्तुतिः - 05
05 शङ्खवज्रमणिमुक्ताप्रवालहाराणां तज्जातपुरुषैः कारयेत् कृतकर्मप्रमाणकालवेतनफलनिष्पत्तिभिः
मूलम् - 05
05 शङ्खवज्रमणिमुक्ताप्रवालहाराणां तज्जातपुरुषैः कारयेत् कृतकर्मप्रमाणकालवेतनफलनिष्पत्तिभिः
विश्वास-प्रस्तुतिः - 06
06 क्षौमदुकूलक्रिमितानकङ्कटहरितालमनःशिलाऽञ्जनहिङ्गुलुकलोहवर्णधातूनां चन्दनागुरुकटुककिण्वावराणां चर्मदन्तास्तरणप्रावरणक्रिमिजातानां आज एडकस्य च दशभागः पञ्चदशभागो वा
मूलम् - 06
06 क्षौमदुकूलक्रिमितानकङ्कटहरितालमनःशिलाऽञ्जनहिङ्गुलुकलोहवर्णधातूनां चन्दनागुरुकटुककिण्वावराणां चर्मदन्तास्तरणप्रावरणक्रिमिजातानां आज एडकस्य च दशभागः पञ्चदशभागो वा
विश्वास-प्रस्तुतिः - 07
07 वस्त्रचतुष्पदद्विपदसूत्रकार्पासगन्धभैषज्यकाष्ठवेणुवल्कलचर्ममृद्भाण्डानां धान्यस्नेहक्षारलवणमद्यपक्वान्नादीनां च विंशतिभागः पञ्चविंशतिभागो वा
मूलम् - 07
07 वस्त्रचतुष्पदद्विपदसूत्रकार्पासगन्धभैषज्यकाष्ठवेणुवल्कलचर्ममृद्भाण्डानां धान्यस्नेहक्षारलवणमद्यपक्वान्नादीनां च विंशतिभागः पञ्चविंशतिभागो वा
विश्वास-प्रस्तुतिः - 08
08 द्वारादेयं शुल्कं पञ्चभागः आनुग्राहिकं वा यथादेश उपकारं स्थापय्तेत्
मूलम् - 08
08 द्वारादेयं शुल्कं पञ्चभागः आनुग्राहिकं वा यथादेश उपकारं स्थापय्तेत्
विश्वास-प्रस्तुतिः - 09
09 जातिभूमिषु च पण्यानां विक्रयः
मूलम् - 09
09 जातिभूमिषु च पण्यानां विक्रयः
विश्वास-प्रस्तुतिः - 10
10 खनिभ्यो धातुपण्यादाने षट्छतं अत्ययः
मूलम् - 10
10 खनिभ्यो धातुपण्यादाने षट्छतं अत्ययः
विश्वास-प्रस्तुतिः - 11
11 पुष्पफलवाटेभ्यः पुष्पफलादाने चतुष्पञ्चाशत्पणो दण्डः
मूलम् - 11
11 पुष्पफलवाटेभ्यः पुष्पफलादाने चतुष्पञ्चाशत्पणो दण्डः
विश्वास-प्रस्तुतिः - 12
12 षण्डेभ्यः शाकमूलकन्दादाने पाद ऊनं द्विपञ्चाशत्पणो दण्डः
मूलम् - 12
12 षण्डेभ्यः शाकमूलकन्दादाने पाद ऊनं द्विपञ्चाशत्पणो दण्डः
विश्वास-प्रस्तुतिः - 13
13 क्षेत्रेभ्यः सर्वसस्यादाने त्रिपञ्चाशत्पणः
मूलम् - 13
13 क्षेत्रेभ्यः सर्वसस्यादाने त्रिपञ्चाशत्पणः
विश्वास-प्रस्तुतिः - 14
14 पणोऽध्यर्धपणश्च सीताऽत्ययः
मूलम् - 14
14 पणोऽध्यर्धपणश्च सीताऽत्ययः
विश्वास-प्रस्तुतिः - 15
15ab अतो नवपुराणां देशजातिचरित्रतः ।
15chd पण्यानां स्थापयेच्शुक्लं अत्ययं चापकारतः (इति)
मूलम् - 15
15ab अतो नवपुराणां देशजातिचरित्रतः ।
15chd पण्यानां स्थापयेच्शुक्लं अत्ययं चापकारतः (इति)