२१

Collector of chostums and tolls

विश्वास-प्रस्तुतिः - 01

01 शुल्काध्यक्षः शुल्कशालां ध्वजं च प्रान्मुखं उदन्मुखं वा महाद्वाराभ्याशे निवेशयेत्

मूलम् - 01

01 शुल्काध्यक्षः शुल्कशालां ध्वजं च प्रान्मुखं उदन्मुखं वा महाद्वाराभ्याशे निवेशयेत्

विश्वास-प्रस्तुतिः - 02

02 शुल्कादायिनश्चत्वारः पञ्च वा सार्थ उपयातान् वणिजो लिखेयुः - के कुतस्त्याः कियत्पण्याः क्व चाभिज्ञानं मुद्रा वा कृता इति

मूलम् - 02

विश्वास-प्रस्तुतिः - 03

03 अमुद्राणां अत्ययो देयद्विगुणः

मूलम् - 03

03 अमुद्राणां अत्ययो देयद्विगुणः

विश्वास-प्रस्तुतिः - 04

04 कूटमुद्राणां शुल्काष्टगुणो दण्डः

मूलम् - 04

04 कूटमुद्राणां शुल्काष्टगुणो दण्डः

विश्वास-प्रस्तुतिः - 05

05 भिन्नमुद्राणां अत्ययो घटिकास्थाने स्थानम्

मूलम् - 05

05 भिन्नमुद्राणां अत्ययो घटिकास्थाने स्थानम्

विश्वास-प्रस्तुतिः - 06

06 राजमुद्रापरिवर्तने नामकृते वा स-पादपणिकं वहनं दापयेत्

मूलम् - 06

06 राजमुद्रापरिवर्तने नामकृते वा स-पादपणिकं वहनं दापयेत्

विश्वास-प्रस्तुतिः - 07

07 ध्वजमूल उपस्थितस्य प्रमाणं अर्घं च वैदेहिकाः पण्यस्य ब्रूयुः एतत्प्रमाणेनार्घेण पण्यं इदं कः क्रेता इति

मूलम् - 07

विश्वास-प्रस्तुतिः - 08

08 त्रिरुद्ध उषितं अर्थिभ्यो दद्यात्

मूलम् - 08

08 त्रिरुद्ध उषितं अर्थिभ्यो दद्यात्

विश्वास-प्रस्तुतिः - 09

09 क्रेतृसङ्घर्षे मूल्यवृद्धिः स-शुल्का कोशं गच्छेत्

मूलम् - 09

09 क्रेतृसङ्घर्षे मूल्यवृद्धिः स-शुल्का कोशं गच्छेत्

विश्वास-प्रस्तुतिः - 10

10 शुल्कभयात् पण्यप्रमाण मूल्यं वा हीनं ब्रुवतः तद् अतिरिक्तं राजा हरेत्

मूलम् - 10

10 शुल्कभयात् पण्यप्रमाण मूल्यं वा हीनं ब्रुवतः तद् अतिरिक्तं राजा हरेत्

विश्वास-प्रस्तुतिः - 11

11 शुल्कं अष्टगुणं वा दद्यात्

मूलम् - 11

11 शुल्कं अष्टगुणं वा दद्यात्

विश्वास-प्रस्तुतिः - 12

12 तद् एव निविष्टपण्यस्य भाण्डस्य हीनप्रतिवर्णकेनार्घापकर्षणे सारभाण्डस्य फल्गुभाण्डेन प्रतिच्छादने च कुर्यात्

मूलम् - 12

विश्वास-प्रस्तुतिः - 13

13 प्रतिक्रेतृभयाद् वा पण्यमूल्याद् उपरि मूल्यं वर्धयतो मूल्यवृद्धिं राजा हरेत्, द्विगुणं वा शुल्कं कुर्यात्

मूलम् - 13

विश्वास-प्रस्तुतिः - 14

14 तद् एवाष्टगुणं अध्यक्षस्यच् । छादयतः

मूलम् - 14

14 तद् एवाष्टगुणं अध्यक्षस्यच् । छादयतः

विश्वास-प्रस्तुतिः - 15

15 तस्माद् विक्रयः पण्यानां धृतो मितो गणितो वा कार्यः, तर्कः फल्गुभाण्डानां आनुग्राहिकाणां च

मूलम् - 15

15 तस्माद् विक्रयः पण्यानां धृतो मितो गणितो वा कार्यः, तर्कः फल्गुभाण्डानां आनुग्राहिकाणां च

विश्वास-प्रस्तुतिः - 16

16 ध्वजमूलं अतिक्रान्तानां चाकृतशुल्कानां शुल्काद् अष्टगुणो दण्डः

मूलम् - 16

16 ध्वजमूलं अतिक्रान्तानां चाकृतशुल्कानां शुल्काद् अष्टगुणो दण्डः

विश्वास-प्रस्तुतिः - 17

17 पथिक उत्पथिकाः तद् विद्युः

मूलम् - 17

17 पथिक उत्पथिकाः तद् विद्युः

विश्वास-प्रस्तुतिः - 18

18 वैवाहिकं अन्वायनं औपायिकं यज्ञकृत्यप्रसवनैमित्तिकं देव इज्याचौल उपनयनगोदानव्रतदीक्षाऽऽदिषु क्रियाविशेषेषु भाण्डं उच्छुल्कं गच्छेत्

मूलम् - 18

विश्वास-प्रस्तुतिः - 19

19 अन्यथावादिनः स्तेयदण्डः

मूलम् - 19

19 अन्यथावादिनः स्तेयदण्डः

विश्वास-प्रस्तुतिः - 20

20 कृतशुल्केनाकृतशुल्कं निर्वाहयतो द्वितीयं एकमुद्रया भित्त्वा पण्यपुटं अपहरतो वैदेहकस्य तच्च तावच्च दण्डः

मूलम् - 20

विश्वास-प्रस्तुतिः - 21

21 शुल्कस्थानाद् गोमयपलालं प्रमाणं कृत्वाऽपहरत उत्तमः साहसदण्डः

मूलम् - 21

21 शुल्कस्थानाद् गोमयपलालं प्रमाणं कृत्वाऽपहरत उत्तमः साहसदण्डः

विश्वास-प्रस्तुतिः - 22

22 शस्त्रवर्मकवचलोहरथरत्नधान्यपशूनां अन्यतमं अनिर्वाह्यं निर्वाहयतो यथाऽवघुषितो दण्डः पण्यनाशश्च

मूलम् - 22

22 शस्त्रवर्मकवचलोहरथरत्नधान्यपशूनां अन्यतमं अनिर्वाह्यं निर्वाहयतो यथाऽवघुषितो दण्डः पण्यनाशश्च

विश्वास-प्रस्तुतिः - 23

23 तेषां अन्यतमस्यानयने बहिरेव उच्छुल्को विक्रयः

मूलम् - 23

23 तेषां अन्यतमस्यानयने बहिरेव उच्छुल्को विक्रयः

विश्वास-प्रस्तुतिः - 24

24 अन्तपालः स-पादपणिकां वर्तनीं गृह्णीयात् पण्यवहनस्य, पणिकां एकखुरस्य, पशूनां अर्धपणिकां क्षुद्रपशूनां पादिकां, अंसभारस्य माषिकाम्

मूलम् - 24

विश्वास-प्रस्तुतिः - 25

25 नष्टापहृतं च प्रतिविदध्यात्

मूलम् - 25

25 नष्टापहृतं च प्रतिविदध्यात्

विश्वास-प्रस्तुतिः - 26

26 वैदेश्यं सार्थं कृतसारफल्गुभाण्डविचयनं अभिज्ञानं मुद्रां च दत्त्वा प्रेषयेद् अध्यक्षस्य

मूलम् - 26

26 वैदेश्यं सार्थं कृतसारफल्गुभाण्डविचयनं अभिज्ञानं मुद्रां च दत्त्वा प्रेषयेद् अध्यक्षस्य

विश्वास-प्रस्तुतिः - 27

27 वैदेहकव्यञ्जनो वा सार्थप्रमाणं राज्ञः प्रेषयेत्

मूलम् - 27

27 वैदेहकव्यञ्जनो वा सार्थप्रमाणं राज्ञः प्रेषयेत्

विश्वास-प्रस्तुतिः - 28

28 तेन प्रदेशेन राजा शुल्काध्यक्षस्य सार्थप्रमाणं उपदिशेत् सर्वज्ञख्यापनार्थम्

मूलम् - 28

28 तेन प्रदेशेन राजा शुल्काध्यक्षस्य सार्थप्रमाणं उपदिशेत् सर्वज्ञख्यापनार्थम्

विश्वास-प्रस्तुतिः - 29

29 ततः सार्थं अध्यक्षोऽभिगम्य ब्रूयात् इदं अमुष्यां उष्य च सारभाण्डं फल्गुभाण्डं च, न निहूहितव्यं, एष राज्ञः प्रभावः इति

मूलम् - 29

विश्वास-प्रस्तुतिः - 30

30 निहूहतः फल्गुभाण्डं शुल्काष्टगुणो दण्डः, सारभाण्डं सर्वापहारः

मूलम् - 30

30 निहूहतः फल्गुभाण्डं शुल्काष्टगुणो दण्डः, सारभाण्डं सर्वापहारः

विश्वास-प्रस्तुतिः - 31

31ab राष्ट्रपीडाकरं भाण्डं उच्छिन्द्याद् अफलं च यत् ।
31chd महा उपकारं उच्छुल्कं कुर्याद् बीजं च दुर्लभम् (इति)

मूलम् - 31