Measures of space and time
विश्वास-प्रस्तुतिः - 01
01 मानाध्यक्ष्यो देशकालमानं विद्यात्
मूलम् - 01
01 मानाध्यक्ष्यो देशकालमानं विद्यात्
विश्वास-प्रस्तुतिः - 02
02 अष्टौ परमाणवो रथचक्रविप्रुट्
मूलम् - 02
02 अष्टौ परमाणवो रथचक्रविप्रुट्
विश्वास-प्रस्तुतिः - 03
03 ता अष्टौ लिक्षा
मूलम् - 03
03 ता अष्टौ लिक्षा
विश्वास-प्रस्तुतिः - 04
04 ता अष्तौ यूका
मूलम् - 04
04 ता अष्तौ यूका
विश्वास-प्रस्तुतिः - 05
05 ता अष्टौ यवमध्यः
मूलम् - 05
05 ता अष्टौ यवमध्यः
विश्वास-प्रस्तुतिः - 06
06 अष्टौ यवमध्या अङ्गुलम्
मूलम् - 06
06 अष्टौ यवमध्या अङ्गुलम्
विश्वास-प्रस्तुतिः - 07
07 मध्यमस्य पुरुषस्य मध्यमाया अनुगुल्या मध्यप्रकर्षो वाऽङ्गुलम्
मूलम् - 07
07 मध्यमस्य पुरुषस्य मध्यमाया अनुगुल्या मध्यप्रकर्षो वाऽङ्गुलम्
विश्वास-प्रस्तुतिः - 08
08 चतुर्ऽङ्गुलो धनुर्ग्रहः
मूलम् - 08
08 चतुर्ऽङ्गुलो धनुर्ग्रहः
विश्वास-प्रस्तुतिः - 09
09 अष्टाङ्गुला धनुर्मुष्टिः
मूलम् - 09
09 अष्टाङ्गुला धनुर्मुष्टिः
विश्वास-प्रस्तुतिः - 10
10 द्वादशाङ्गुला वितस्तिः, छायापौरुषं च
मूलम् - 10
10 द्वादशाङ्गुला वितस्तिः, छायापौरुषं च
विश्वास-प्रस्तुतिः - 11
11 चतुर्दशाङ्गुलं शमः शलः परीरयः पदं च
मूलम् - 11
11 चतुर्दशाङ्गुलं शमः शलः परीरयः पदं च
विश्वास-प्रस्तुतिः - 12
12 द्विवितस्तिररत्निः प्राजापत्यो हस्तः
मूलम् - 12
12 द्विवितस्तिररत्निः प्राजापत्यो हस्तः
विश्वास-प्रस्तुतिः - 13
13 स-धनुर्ग्रहः पौतवविवीतमानम्
मूलम् - 13
13 स-धनुर्ग्रहः पौतवविवीतमानम्
विश्वास-प्रस्तुतिः - 14
14 स-धनुर्मुष्टिः कुष्कुः कंसो वा
मूलम् - 14
14 स-धनुर्मुष्टिः कुष्कुः कंसो वा
विश्वास-प्रस्तुतिः - 15
15 द्विचत्वारिंशद्ऽङ्गुलः तक्ष्णः क्राकचनिककिष्कुः स्कन्धावारदुर्गराजपरिग्रहमानम्
मूलम् - 15
15 द्विचत्वारिंशद्ऽङ्गुलः तक्ष्णः क्राकचनिककिष्कुः स्कन्धावारदुर्गराजपरिग्रहमानम्
विश्वास-प्रस्तुतिः - 16
16 चतुष्पञ्चाशद्ऽङ्गुलः कूप्यवनहस्तः
मूलम् - 16
16 चतुष्पञ्चाशद्ऽङ्गुलः कूप्यवनहस्तः
विश्वास-प्रस्तुतिः - 17
17 चतुर्ऽशीत्य्ऽङ्गुलो व्यामो रज्जुमानं खातपौरुषं च
मूलम् - 17
17 चतुर्ऽशीत्य्ऽङ्गुलो व्यामो रज्जुमानं खातपौरुषं च
विश्वास-प्रस्तुतिः - 18
18 चतुर्ऽरत्निर्दण्डो धनुर्नालिका पौरुषं च गार्हपत्यम्
मूलम् - 18
18 चतुर्ऽरत्निर्दण्डो धनुर्नालिका पौरुषं च गार्हपत्यम्
विश्वास-प्रस्तुतिः - 19
19 अष्टशताङ्गुलं धनुः पथिप्राकारमानं पौरुषं चाग्निचित्यानाम्
मूलम् - 19
19 अष्टशताङ्गुलं धनुः पथिप्राकारमानं पौरुषं चाग्निचित्यानाम्
विश्वास-प्रस्तुतिः - 20
20 षट्कंसो दण्डो ब्रह्मदेयातिथ्यमानम्
मूलम् - 20
20 षट्कंसो दण्डो ब्रह्मदेयातिथ्यमानम्
विश्वास-प्रस्तुतिः - 21
21 दशदण्डो रज्जुः
मूलम् - 21
21 दशदण्डो रज्जुः
विश्वास-प्रस्तुतिः - 22
22 द्विरज्जुकः परिदेशः
मूलम् - 22
22 द्विरज्जुकः परिदेशः
विश्वास-प्रस्तुतिः - 23
23 त्रिरज्जुकं निवर्तनं एकतः
मूलम् - 23
23 त्रिरज्जुकं निवर्तनं एकतः
विश्वास-प्रस्तुतिः - 24
24 द्विदण्डाधिको बाहुः
मूलम् - 24
24 द्विदण्डाधिको बाहुः
विश्वास-प्रस्तुतिः - 25
25 द्विधनुःसहस्रं गोरुतम्
मूलम् - 25
25 द्विधनुःसहस्रं गोरुतम्
विश्वास-प्रस्तुतिः - 26
26 चतुर्गोरुतं योजनम्
मूलम् - 26
26 चतुर्गोरुतं योजनम्
विश्वास-प्रस्तुतिः - 27
27 इति देशमानम्
मूलम् - 27
27 इति देशमानम्
विश्वास-प्रस्तुतिः - 28
28 कालमानं अत ऊर्ध्वम्
मूलम् - 28
28 कालमानं अत ऊर्ध्वम्
विश्वास-प्रस्तुतिः - 29
29 तुटो लवो निमेषः काष्ठा कल्ला नालिका मुहूर्तः पूर्वापरभागौ दिवसो रात्रिः पक्षो मास ऋतुरयनं संवत्सरो युगं इति कालाः
मूलम् - 29
29 तुटो लवो निमेषः काष्ठा कल्ला नालिका मुहूर्तः पूर्वापरभागौ दिवसो रात्रिः पक्षो मास ऋतुरयनं संवत्सरो युगं इति कालाः
विश्वास-प्रस्तुतिः - 30
30 द्वौ तुटौ लवः
मूलम् - 30
30 द्वौ तुटौ लवः
विश्वास-प्रस्तुतिः - 31
31 द्वौ लवौ निमेषः
मूलम् - 31
31 द्वौ लवौ निमेषः
विश्वास-प्रस्तुतिः - 32
32 पञ्चनिमेषाः काष्ठाः
मूलम् - 32
32 पञ्चनिमेषाः काष्ठाः
विश्वास-प्रस्तुतिः - 33
33 त्रिंशत्काष्ठाः कलाः
मूलम् - 33
33 त्रिंशत्काष्ठाः कलाः
विश्वास-प्रस्तुतिः - 34
34 चत्वारिंशत्कलाः नालिका
मूलम् - 34
34 चत्वारिंशत्कलाः नालिका
विश्वास-प्रस्तुतिः - 35
35 सुवर्णमाषकाश्चत्वारश्चतुर्ऽङ्गुलायामाः कुम्भच्छिद्रं आढकं अम्भसो वा नालिका
मूलम् - 35
35 सुवर्णमाषकाश्चत्वारश्चतुर्ऽङ्गुलायामाः कुम्भच्छिद्रं आढकं अम्भसो वा नालिका
विश्वास-प्रस्तुतिः - 36
36 द्विनालिको मुहूर्तः
मूलम् - 36
36 द्विनालिको मुहूर्तः
विश्वास-प्रस्तुतिः - 37
37 पञ्चदशमुहूर्तो दिवसो रात्रिश्च चैत्रे चाश्वयुजे च मासि भवतः
मूलम् - 37
37 पञ्चदशमुहूर्तो दिवसो रात्रिश्च चैत्रे चाश्वयुजे च मासि भवतः
विश्वास-प्रस्तुतिः - 38
38 ततः परं त्रिभिर्मुहूर्तैरन्यतरः षण्मासं वर्धते ह्रसते च इति
मूलम् - 38
38 ततः परं त्रिभिर्मुहूर्तैरन्यतरः षण्मासं वर्धते ह्रसते च इति
विश्वास-प्रस्तुतिः - 39
39 छायायां अष्टपौरुष्यां अष्टादशभागश्छेदः, षट्पौरुष्यां चतुर्दशभागः, त्रिपौरुष्यां अष्टभागः, द्विपौरुष्यां षड्भागः, पौरुष्यां चतुर्भागः, अष्टाङ्गुलायां त्रयो दशभागाः, चतुर्ऽङ्गुलायां त्रयोऽष्टभागाः, अच्छायो मध्याह्न इति
मूलम् - 39

विश्वास-प्रस्तुतिः - 40
40 परावृत्ते दिवसे शेषं एवं विद्यात्
मूलम् - 40
40 परावृत्ते दिवसे शेषं एवं विद्यात्
विश्वास-प्रस्तुतिः - 41
41 आषाढे मासि नष्टच्छायो मध्याह्नो भवति
मूलम् - 41
41 आषाढे मासि नष्टच्छायो मध्याह्नो भवति
विश्वास-प्रस्तुतिः - 42
42 अतः परं श्रावणादीनां षण्मासानां द्व्य्ऽङ्गुल उत्तरा माघादीनां द्व्य्ऽङ्गुलावरा छाया इति
मूलम् - 42
42 अतः परं श्रावणादीनां षण्मासानां द्व्य्ऽङ्गुल उत्तरा माघादीनां द्व्य्ऽङ्गुलावरा छाया इति
विश्वास-प्रस्तुतिः - 43
43 पञ्चदशाहोरात्राः पक्षः
मूलम् - 43
43 पञ्चदशाहोरात्राः पक्षः
विश्वास-प्रस्तुतिः - 44
44 सोमाप्यायनः शुक्लः
मूलम् - 44
44 सोमाप्यायनः शुक्लः
विश्वास-प्रस्तुतिः - 45
45 सोमावच्छेदनो बहुलः
मूलम् - 45
45 सोमावच्छेदनो बहुलः
विश्वास-प्रस्तुतिः - 46
46 द्विपक्षो मासः
मूलम् - 46
46 द्विपक्षो मासः
विश्वास-प्रस्तुतिः - 47
47 त्रिंशद्ऽहोरात्रः कर्ममासः
मूलम् - 47
47 त्रिंशद्ऽहोरात्रः कर्ममासः
विश्वास-प्रस्तुतिः - 48
48 स-अर्धः सौरः
मूलम् - 48
48 स-अर्धः सौरः
विश्वास-प्रस्तुतिः - 49
49 अर्धन्यूनश्चान्द्रमासः
मूलम् - 49
49 अर्धन्यूनश्चान्द्रमासः
विश्वास-प्रस्तुतिः - 50
50 सप्तविंशतिर्नाक्षत्रमासः
मूलम् - 50
50 सप्तविंशतिर्नाक्षत्रमासः
विश्वास-प्रस्तुतिः - 51
51 द्वात्रिंशद् बलमासः
मूलम् - 51
51 द्वात्रिंशद् बलमासः
विश्वास-प्रस्तुतिः - 52
52 पञ्चत्रिंशद् अश्ववाहायाः
मूलम् - 52
52 पञ्चत्रिंशद् अश्ववाहायाः
विश्वास-प्रस्तुतिः - 53
53 चत्वारिंशद्धस्तिवाहायाः
मूलम् - 53
53 चत्वारिंशद्धस्तिवाहायाः
विश्वास-प्रस्तुतिः - 54
54 द्वौ मासावृतुः
मूलम् - 54
54 द्वौ मासावृतुः
विश्वास-प्रस्तुतिः - 55
55 श्रावणः प्रौष्ठपदश्च वर्षाः
मूलम् - 55
55 श्रावणः प्रौष्ठपदश्च वर्षाः
विश्वास-प्रस्तुतिः - 56
56 आश्वयुजः कार्त्तिकश्च शरत्
मूलम् - 56
56 आश्वयुजः कार्त्तिकश्च शरत्
विश्वास-प्रस्तुतिः - 57
57 मार्गशीर्षः पौषश्च हेमन्तः
मूलम् - 57
57 मार्गशीर्षः पौषश्च हेमन्तः
विश्वास-प्रस्तुतिः - 58
58 माघः फाल्गुनश्च शिशिरः
मूलम् - 58
58 माघः फाल्गुनश्च शिशिरः
विश्वास-प्रस्तुतिः - 59
59 चैत्रो वैशाखश्च वसन्तः
मूलम् - 59
59 चैत्रो वैशाखश्च वसन्तः
विश्वास-प्रस्तुतिः - 60
60 ज्येष्ठामूलीय आषाढश्च ग्रीष्मः
मूलम् - 60
60 ज्येष्ठामूलीय आषाढश्च ग्रीष्मः
विश्वास-प्रस्तुतिः - 61
61 शिशिराद्युत्तरायणम्
मूलम् - 61
61 शिशिराद्युत्तरायणम्
विश्वास-प्रस्तुतिः - 62
62 वर्षादि दक्षिणायनम्
मूलम् - 62
62 वर्षादि दक्षिणायनम्
विश्वास-प्रस्तुतिः - 63
63 द्व्य्ऽयनः संवत्सरः
मूलम् - 63
63 द्व्य्ऽयनः संवत्सरः
विश्वास-प्रस्तुतिः - 64
64 पञ्चसंवत्सरो युगम् । इति
मूलम् - 64
64 पञ्चसंवत्सरो युगम् । इति
विश्वास-प्रस्तुतिः - 65
65ab दिवसस्य हरत्यर्कः षष्टिभागं ऋतौ ततः ।
65chd करोत्येकं अहश्छेदं तथा एव एकं च चन्द्रमाः
मूलम् - 65
65ab दिवसस्य हरत्यर्कः षष्टिभागं ऋतौ ततः ।
65chd करोत्येकं अहश्छेदं तथा एव एकं च चन्द्रमाः
विश्वास-प्रस्तुतिः - 66
66ab एवं अर्धतृतीयानां अब्दानां अधिमासकम् ।
66chd ग्रीष्मे जनयतः पूर्वं पञ्चाब्दान्ते च पश्चिमम् (इति)
मूलम् - 66
66ab एवं अर्धतृतीयानां अब्दानां अधिमासकम् ।
66chd ग्रीष्मे जनयतः पूर्वं पञ्चाब्दान्ते च पश्चिमम् (इति)