Standardization of Rights and measures
विश्वास-प्रस्तुतिः - 01
01 पौतवाध्यक्षः पौतवकर्मान्तान् कारयेत्
मूलम् - 01
01 पौतवाध्यक्षः पौतवकर्मान्तान् कारयेत्
विश्वास-प्रस्तुतिः - 02
02 धान्यमाषा दश सुवर्णमाषकः, पञ्च वा गुञ्जाः
मूलम् - 02
02 धान्यमाषा दश सुवर्णमाषकः, पञ्च वा गुञ्जाः
विश्वास-प्रस्तुतिः - 03
03 ते षोडश सुवर्णः कर्षो वा
मूलम् - 03
03 ते षोडश सुवर्णः कर्षो वा
विश्वास-प्रस्तुतिः - 04
04 चतुष्कर्षं पलम्
मूलम् - 04
04 चतुष्कर्षं पलम्
विश्वास-प्रस्तुतिः - 05
05 अष्टाशीतिर्गौरसर्षपा रूप्यमाषकः
मूलम् - 05
05 अष्टाशीतिर्गौरसर्षपा रूप्यमाषकः
विश्वास-प्रस्तुतिः - 06
06 ते षोडश धरणं, शौम्ब्यानि वा विंशतिः
मूलम् - 06
06 ते षोडश धरणं, शौम्ब्यानि वा विंशतिः
विश्वास-प्रस्तुतिः - 07
07 विंशतितण्डुलं वज्रधरणम्
मूलम् - 07
07 विंशतितण्डुलं वज्रधरणम्
विश्वास-प्रस्तुतिः - 08
08 अर्धमाषकः माषकः द्वौ चत्वारः अष्टौ माषकाः सुवर्णो द्वौ चत्वारः, अष्टौ सुवर्णाः दश विंशतिः त्रिंशत् चत्वारिंशत् शतं इति
मूलम् - 08
08 अर्धमाषकः माषकः द्वौ चत्वारः अष्टौ माषकाः सुवर्णो द्वौ चत्वारः, अष्टौ सुवर्णाः दश विंशतिः त्रिंशत् चत्वारिंशत् शतं इति
विश्वास-प्रस्तुतिः - 09
09 तेन धरणानि व्याख्यातानि
मूलम् - 09
09 तेन धरणानि व्याख्यातानि
विश्वास-प्रस्तुतिः - 10
10 प्रतिमानान्ययोमयानि मागधमेकलशैलमयानि यानि वा न उदकप्रदेहाभ्यां वृद्धिं गच्छेयुरुष्णेन वा ह्रासम्
मूलम् - 10
10 प्रतिमानान्ययोमयानि मागधमेकलशैलमयानि यानि वा न उदकप्रदेहाभ्यां वृद्धिं गच्छेयुरुष्णेन वा ह्रासम्
विश्वास-प्रस्तुतिः - 11
11 षडङ्गुलाद् ऊर्ध्वं अष्टाङ्गुल उत्तरा दश तुलाः कारयेत् लोहपलाद् ऊर्ध्वं एकपल उत्तराः, यन्त्रं उभयतःशिक्यं वा
मूलम् - 11
11 षडङ्गुलाद् ऊर्ध्वं अष्टाङ्गुल उत्तरा दश तुलाः कारयेत् लोहपलाद् ऊर्ध्वं एकपल उत्तराः, यन्त्रं उभयतःशिक्यं वा
विश्वास-प्रस्तुतिः - 12
12 पञ्चत्रिंशत्पललोहां द्विसप्तत्य्ऽङ्गुलायामां समवृत्तां कारयेत्
मूलम् - 12
12 पञ्चत्रिंशत्पललोहां द्विसप्तत्य्ऽङ्गुलायामां समवृत्तां कारयेत्
विश्वास-प्रस्तुतिः - 13
13 तस्याः पञ्चपलिकं मण्डलं बद्ध्वा समकरणं कारयेत्
मूलम् - 13
13 तस्याः पञ्चपलिकं मण्डलं बद्ध्वा समकरणं कारयेत्
विश्वास-प्रस्तुतिः - 14
14 ततः कर्ष उत्तरं पलं पल उत्तरं दशपलं द्वादश पञ्चदश विंशतिरिति पदानि कारयेत्
मूलम् - 14
14 ततः कर्ष उत्तरं पलं पल उत्तरं दशपलं द्वादश पञ्चदश विंशतिरिति पदानि कारयेत्
विश्वास-प्रस्तुतिः - 15
15 तत आशताद् दश उत्तरं कारयेत्
मूलम् - 15
15 तत आशताद् दश उत्तरं कारयेत्
विश्वास-प्रस्तुतिः - 16
16 अक्षेषु नान्दीपिनद्धं कारयेत्
मूलम् - 16
16 अक्षेषु नान्दीपिनद्धं कारयेत्
विश्वास-प्रस्तुतिः - 17
17 द्विगुणलोहां तुलां अतः षण्णवत्य्ऽङ्गुलायामां परिमाणीं कारयेत्
मूलम् - 17
17 द्विगुणलोहां तुलां अतः षण्णवत्य्ऽङ्गुलायामां परिमाणीं कारयेत्
विश्वास-प्रस्तुतिः - 18
18 तस्याः शतपदाद् ऊर्ध्वं विंशतिः पञ्चाशत् शतं इति पदानि कारयेत्
मूलम् - 18
18 तस्याः शतपदाद् ऊर्ध्वं विंशतिः पञ्चाशत् शतं इति पदानि कारयेत्
विश्वास-प्रस्तुतिः - 19
19 विंशतितौलिको भारः
मूलम् - 19
19 विंशतितौलिको भारः
विश्वास-प्रस्तुतिः - 20
20 दशधारणिकं पलम्
मूलम् - 20
20 दशधारणिकं पलम्
विश्वास-प्रस्तुतिः - 21
21 तत्पलशतं आयमानी
मूलम् - 21
21 तत्पलशतं आयमानी
विश्वास-प्रस्तुतिः - 22
22 पञ्चपलावरा व्यावहारिकी भाजन्यन्तःपुरभाजनी च
मूलम् - 22
22 पञ्चपलावरा व्यावहारिकी भाजन्यन्तःपुरभाजनी च
विश्वास-प्रस्तुतिः - 23
23 तासां अर्धधरणावरं पलं, द्विपलावरं उत्तरलोहं, षड्ऽङ्गुलावराश्चायामाः
मूलम् - 23
23 तासां अर्धधरणावरं पलं, द्विपलावरं उत्तरलोहं, षड्ऽङ्गुलावराश्चायामाः
विश्वास-प्रस्तुतिः - 24
24 पूर्वयोः पञ्चपलिकः प्रयामो मांसलोहलवणमणिवर्जम्
मूलम् - 24
24 पूर्वयोः पञ्चपलिकः प्रयामो मांसलोहलवणमणिवर्जम्
विश्वास-प्रस्तुतिः - 25
25 काष्ठतुला अष्टहस्ता पदवती प्रतिमानवती मयूरपदाधिष्ठिता
मूलम् - 25
25 काष्ठतुला अष्टहस्ता पदवती प्रतिमानवती मयूरपदाधिष्ठिता
विश्वास-प्रस्तुतिः - 26
26 काष्ठपञ्चविंशतिपलं तण्डुलप्रस्थसाधनम्
मूलम् - 26
26 काष्ठपञ्चविंशतिपलं तण्डुलप्रस्थसाधनम्
विश्वास-प्रस्तुतिः - 27
27 एष प्रदेशो बह्व्ऽल्पयोः
मूलम् - 27
27 एष प्रदेशो बह्व्ऽल्पयोः
विश्वास-प्रस्तुतिः - 28
28 इति तुलाप्रतिमानं व्याख्यातम्
मूलम् - 28
28 इति तुलाप्रतिमानं व्याख्यातम्
विश्वास-प्रस्तुतिः - 29
29 अथ धान्यमाषद्विपलशतं द्रोणं आयमानं, सप्ताशीतिपलशतं अर्धपलं च व्यावहारिकं, पञ्चसप्ततिपलशतं भाजनीयं, द्विषष्टिपलशतं अर्धपलं चान्तःपुरभाजनीयम्
मूलम् - 29
29 अथ धान्यमाषद्विपलशतं द्रोणं आयमानं, सप्ताशीतिपलशतं अर्धपलं च व्यावहारिकं, पञ्चसप्ततिपलशतं भाजनीयं, द्विषष्टिपलशतं अर्धपलं चान्तःपुरभाजनीयम्
विश्वास-प्रस्तुतिः - 30
30 तेषां आढकप्रस्थकुडुबाश्चतुर्भागावराः
मूलम् - 30
30 तेषां आढकप्रस्थकुडुबाश्चतुर्भागावराः
विश्वास-प्रस्तुतिः - 31
31 षोडशद्रोणा खारी
मूलम् - 31
31 षोडशद्रोणा खारी
विश्वास-प्रस्तुतिः - 32
32 विंशतिद्रोणिकः कुम्भः
मूलम् - 32
32 विंशतिद्रोणिकः कुम्भः
विश्वास-प्रस्तुतिः - 33
33 कुम्भैर्दशभिर्वहः
मूलम् - 33
33 कुम्भैर्दशभिर्वहः
विश्वास-प्रस्तुतिः - 34
34 शुष्कसारदारुमयं समं चतुर्भागशिखं मानं कारयेत्, अन्तःशिखं वा
मूलम् - 34
34 शुष्कसारदारुमयं समं चतुर्भागशिखं मानं कारयेत्, अन्तःशिखं वा
विश्वास-प्रस्तुतिः - 35
35 रसस्य तु सुरायाः पुष्पफलयोः तुषाङ्गाराणां सुधायाश्च शिखामानं द्विगुण उत्तरा वृद्धिः
मूलम् - 35
35 रसस्य तु सुरायाः पुष्पफलयोः तुषाङ्गाराणां सुधायाश्च शिखामानं द्विगुण उत्तरा वृद्धिः
विश्वास-प्रस्तुतिः - 36
36 स-पादपणो द्रोणमूल्यं आढकस्य पाद ऊनः, षण्माषकाः प्रस्थस्य, माषकः कुडुबस्य
मूलम् - 36
36 स-पादपणो द्रोणमूल्यं आढकस्य पाद ऊनः, षण्माषकाः प्रस्थस्य, माषकः कुडुबस्य
विश्वास-प्रस्तुतिः - 37
37 द्विगुणं रसादीनां मानमूल्यम्
मूलम् - 37
37 द्विगुणं रसादीनां मानमूल्यम्
विश्वास-प्रस्तुतिः - 38
38 विंशतिपणाः प्रतिमानस्य
मूलम् - 38
38 विंशतिपणाः प्रतिमानस्य
विश्वास-प्रस्तुतिः - 39
39 तुलामूल्यं त्रिभागः
मूलम् - 39
39 तुलामूल्यं त्रिभागः
विश्वास-प्रस्तुतिः - 40
40 चतुर्मासिकं प्रातिवेधनिकं कारयेत्
मूलम् - 40
40 चतुर्मासिकं प्रातिवेधनिकं कारयेत्
विश्वास-प्रस्तुतिः - 41
41 अप्रतिविद्धस्यात्ययः स-पादः सप्तविंशतिपणः
मूलम् - 41
41 अप्रतिविद्धस्यात्ययः स-पादः सप्तविंशतिपणः
विश्वास-प्रस्तुतिः - 42
42 प्रातिवेधनिकं काकणीकं अहरहः पौतवाध्यक्षाय दद्युः
मूलम् - 42
42 प्रातिवेधनिकं काकणीकं अहरहः पौतवाध्यक्षाय दद्युः
विश्वास-प्रस्तुतिः - 43
43 द्वात्रिंशद्भागः तप्तव्याजी सर्पिषः, चतुःषष्टिभागः तैलस्य
मूलम् - 43
43 द्वात्रिंशद्भागः तप्तव्याजी सर्पिषः, चतुःषष्टिभागः तैलस्य
विश्वास-प्रस्तुतिः - 44
44 पञ्चाशद् भागो मानस्रावो द्रवाणाम्
मूलम् - 44
44 पञ्चाशद् भागो मानस्रावो द्रवाणाम्
विश्वास-प्रस्तुतिः - 45
45 कुडुबार्धचतुर्ऽष्टभागानि मानानि कारयेत्
मूलम् - 45
45 कुडुबार्धचतुर्ऽष्टभागानि मानानि कारयेत्
विश्वास-प्रस्तुतिः - 46
46 कुडुबाश्चतुर्ऽशीतिर्वारकः सर्पिषो मतः
मूलम् - 46
46 कुडुबाश्चतुर्ऽशीतिर्वारकः सर्पिषो मतः
विश्वास-प्रस्तुतिः - 47
47 चतुःषष्टिः तु तैलस्य पादश्च घटिकाऽनयोः
मूलम् - 47
47 चतुःषष्टिः तु तैलस्य पादश्च घटिकाऽनयोः