Superintendent of the armoury
विश्वास-प्रस्तुतिः - 01
01 आयुधागाराध्यक्षः साङ्ग्रामिकं दौर्गकर्मिकं परपुराभिघातिकं च यन्त्रं आयुधं आवरणं उपकरणं च तज्जातकारुशिल्पिभिः कृतकर्मप्रमाणकालवेतनफलनिष्पत्तिभिः कारयेत्, स्वभूमिषु च स्थापयेत्
मूलम् - 01

विश्वास-प्रस्तुतिः - 02
02 स्थानपरिवर्तनं आतपप्रवातप्रदानं च बहुशः कुर्यात्
मूलम् - 02
02 स्थानपरिवर्तनं आतपप्रवातप्रदानं च बहुशः कुर्यात्
विश्वास-प्रस्तुतिः - 03
03 ऊष्म उपस्नेहक्रिमिभिरुपहन्यमानं अन्यथा स्थापयेत्
मूलम् - 03
03 ऊष्म उपस्नेहक्रिमिभिरुपहन्यमानं अन्यथा स्थापयेत्
विश्वास-प्रस्तुतिः - 04
04 जातिरूपलक्षणप्रमाणागममूल्यनिक्षेपैश्च उपलभेत
मूलम् - 04
04 जातिरूपलक्षणप्रमाणागममूल्यनिक्षेपैश्च उपलभेत
विश्वास-प्रस्तुतिः - 05
05 सर्वतोभद्रजामदग्न्यबहुमुखविश्वासघातिसङ्घाटीयानकपर्जन्यकबाहु।ऊर्ध्वबाह्व्ऽर्धबाहूनि स्थितयन्त्राणि
मूलम् - 05

विश्वास-प्रस्तुतिः - 06
06 पाञ्चालिकदेवदण्डसूकरिकामुसलयष्टिहस्तिवारकतालवृन्तमुद्गरगदास्पृक्तलाकुद्दालास्फाटिम उत्पाटिम उद्घाटिमशतघ्नित्रिशूलचक्राणि चलयन्त्राणि
मूलम् - 06

विश्वास-प्रस्तुतिः - 07
07 शक्तिप्रासकुन्तहाटकभिण्डिपालशूलतोमरवराहकर्णकणयकर्पणत्रासिकादीनि च हुलमुखानि
मूलम् - 07
07 शक्तिप्रासकुन्तहाटकभिण्डिपालशूलतोमरवराहकर्णकणयकर्पणत्रासिकादीनि च हुलमुखानि
विश्वास-प्रस्तुतिः - 08
08 तालचापदारवशार्ङ्गाणि कार्मुककोदण्डद्रूणा धनूंषि
मूलम् - 08
08 तालचापदारवशार्ङ्गाणि कार्मुककोदण्डद्रूणा धनूंषि
विश्वास-प्रस्तुतिः - 09
09 मूर्वाऽर्कशनगवेधुवेणुस्नायूनि ज्याः
मूलम् - 09
09 मूर्वाऽर्कशनगवेधुवेणुस्नायूनि ज्याः
विश्वास-प्रस्तुतिः - 10
10 वेणुशरशलाकादण्डासननाराचाश्च इषवः
मूलम् - 10
10 वेणुशरशलाकादण्डासननाराचाश्च इषवः
विश्वास-प्रस्तुतिः - 11
11 तेषां मुखानि छेदनभेदनताडनान्यायसास्थिदारवाणि
मूलम् - 11
11 तेषां मुखानि छेदनभेदनताडनान्यायसास्थिदारवाणि
विश्वास-प्रस्तुतिः - 12
12 निस्त्रिंशमण्डलाग्रासियष्टयः खड्गाः
मूलम् - 12
12 निस्त्रिंशमण्डलाग्रासियष्टयः खड्गाः
विश्वास-प्रस्तुतिः - 13
13 खड्गमहिषवारणविषाणदारुवेणुमूलानि त्सरवः
मूलम् - 13
13 खड्गमहिषवारणविषाणदारुवेणुमूलानि त्सरवः
विश्वास-प्रस्तुतिः - 14
14 परशुकुठारपट्टसखनित्रकुद्दालक्रकचकाण्डच्छेदनाः क्षुरकल्पाः
मूलम् - 14
14 परशुकुठारपट्टसखनित्रकुद्दालक्रकचकाण्डच्छेदनाः क्षुरकल्पाः
विश्वास-प्रस्तुतिः - 15
15 यन्त्रगोष्पणमुष्टिपाषाणरोचनीदृषदश्चाश्मायुधानि
मूलम् - 15
15 यन्त्रगोष्पणमुष्टिपाषाणरोचनीदृषदश्चाश्मायुधानि
विश्वास-प्रस्तुतिः - 16
16 लोहजालिकापट्टकवचसूत्रकङ्कटशिंशुमारकखड्गिधेनुकहस्तिगोचर्मखुरशृङ्गसङ्घातं वर्माणि
मूलम् - 16
16 लोहजालिकापट्टकवचसूत्रकङ्कटशिंशुमारकखड्गिधेनुकहस्तिगोचर्मखुरशृङ्गसङ्घातं वर्माणि
विश्वास-प्रस्तुतिः - 17
17 शिरस्त्राणकण्ठत्राणकूर्पासकञ्चुकवारवाणपट्टनाग उदरिकाः पेटीचर्महस्तिकर्णतालमूलधमनिकाकपाटकिटिकाऽप्रतिहतबलाहकान्ताश्चावरणाणि
मूलम् - 17

विश्वास-प्रस्तुतिः - 18
18 हस्तिरथवाजिनां योग्याभाण्डं आलङ्कारिकं सम्नाहकल्पनाश्च उपकरणानि
मूलम् - 18
18 हस्तिरथवाजिनां योग्याभाण्डं आलङ्कारिकं सम्नाहकल्पनाश्च उपकरणानि
विश्वास-प्रस्तुतिः - 19
19 ऐन्द्रजालिकं औपनिषदिकं च कर्म
मूलम् - 19
19 ऐन्द्रजालिकं औपनिषदिकं च कर्म
विश्वास-प्रस्तुतिः - 20
20ab कर्मान्तानां च - इच्छां आरम्भनिष्पत्तिं प्रयोगं व्याजं उद्दयम् ।
20chd क्षयव्ययौ च जानीयात् कुप्यानां आयुध ईश्वरः (इति)
मूलम् - 20