Director of forest produce
विश्वास-प्रस्तुतिः - 01
01 कुप्याध्यक्षो द्रव्यवनपालैः कुप्यं आनाययेत्
मूलम् - 01
01 कुप्याध्यक्षो द्रव्यवनपालैः कुप्यं आनाययेत्
विश्वास-प्रस्तुतिः - 02
02 द्रव्यवनकर्मान्तांश्च प्रयोजयेत्
मूलम् - 02
02 द्रव्यवनकर्मान्तांश्च प्रयोजयेत्
विश्वास-प्रस्तुतिः - 03
03 द्रव्यवनच्छिद्रां च देयं अत्ययं च स्थापयेद् अन्यत्रापद्भ्यः
मूलम् - 03
03 द्रव्यवनच्छिद्रां च देयं अत्ययं च स्थापयेद् अन्यत्रापद्भ्यः
विश्वास-प्रस्तुतिः - 04
04 कुप्यवर्गः - शाकतिनिशधन्वनार्जुनमधूकतिलकसालशिंशपाऽरिमेदराजादनशिरीषखदिरसरलतालसर्जाश्वकर्णसोमवल्ककुशाम्रप्रियकधवादिः सारदारुवर्गः
मूलम् - 04

विश्वास-प्रस्तुतिः - 05
05 उटजचिमियचापवेणुवंशसातिनकण्टकभाल्लूकादिर्वेणुवर्गः
मूलम् - 05
05 उटजचिमियचापवेणुवंशसातिनकण्टकभाल्लूकादिर्वेणुवर्गः
विश्वास-प्रस्तुतिः - 06
06 वेत्रशीकवल्लीवाशीश्यामलतानागलताऽऽदिर्वल्लीवर्गः
मूलम् - 06
06 वेत्रशीकवल्लीवाशीश्यामलतानागलताऽऽदिर्वल्लीवर्गः
विश्वास-प्रस्तुतिः - 07
07 मालतीमूर्वाऽर्कशणगवेधुकाऽतस्य्।आदिर्वल्कवर्गः
मूलम् - 07
07 मालतीमूर्वाऽर्कशणगवेधुकाऽतस्य्।आदिर्वल्कवर्गः
विश्वास-प्रस्तुतिः - 08
08 मुञ्जबल्बजादि रज्जुभाण्डम्
मूलम् - 08
08 मुञ्जबल्बजादि रज्जुभाण्डम्
विश्वास-प्रस्तुतिः - 09
09 तालीतालभूर्जानां पत्त्रम्
मूलम् - 09
09 तालीतालभूर्जानां पत्त्रम्
विश्वास-प्रस्तुतिः - 10
10 किंशुककुसुम्भकुङ्कुमानां पुष्पम्
मूलम् - 10
10 किंशुककुसुम्भकुङ्कुमानां पुष्पम्
विश्वास-प्रस्तुतिः - 11
11 कन्दमूलफलादिरौषधवर्गः
मूलम् - 11
11 कन्दमूलफलादिरौषधवर्गः
विश्वास-प्रस्तुतिः - 12
12 कालकूटवत्सनाभहालाहलमेषशृङ्गमुस्ताकुष्ठमहाविषवेल्लितकगौरार्द्रबालकमार्कटहैमवतकालिङ्गकदारदकाङ्कोलसारक उष्ट्रकादीनि विषाणि, सर्पाः कीटाश्च त एव कुम्भगताः विषवर्गः
मूलम् - 12

विश्वास-प्रस्तुतिः - 13
13 गोधासेरकद्वीप्य्।ऋक्षशिंशुमारसिंहव्याघ्रहस्तिमहिषचमरसृमरखड्गगोमृगगवयानां चर्मास्थिपित्तस्नाय्व्ऽक्षिदन्तशृङ्गखुरपुच्छानि, अन्येषां वाऽपि मृगपशुपक्षिव्यालानाम्
मूलम् - 13

विश्वास-प्रस्तुतिः - 14
14 कालायसताम्रवृत्तकंससीसत्रपुवैकृन्तकारकूटानि लोहानि
मूलम् - 14
14 कालायसताम्रवृत्तकंससीसत्रपुवैकृन्तकारकूटानि लोहानि
विश्वास-प्रस्तुतिः - 15
15 विदलमृत्तिकामयं भाण्डम्
मूलम् - 15
15 विदलमृत्तिकामयं भाण्डम्
विश्वास-प्रस्तुतिः - 16
16 अङ्गारतुषभस्मानि, मृगपशुपक्षिव्यालवाटाः काष्ठतृणवाटाश्च । इति
मूलम् - 16
16 अङ्गारतुषभस्मानि, मृगपशुपक्षिव्यालवाटाः काष्ठतृणवाटाश्च । इति
विश्वास-प्रस्तुतिः - 17
17ab बहिरन्तश्च कर्मान्ता विभक्ताः सार्वभाण्डिकाः ।
17chd आजीवपुररक्षाऽर्थाः कार्याः कुप्य उपजीविना (इति)
मूलम् - 17