१६

Director of trade

विश्वास-प्रस्तुतिः - 01

01 पण्याध्यक्षः स्थलजलजानां नानाविधानां पण्यानां स्थलपथवारिपथ उपयातानां सारफल्ग्व्ऽर्घान्तरं प्रियाप्रियतां च विद्यात्, तथा विक्षेपसङ्क्षेपक्रयविक्रयप्रयोगकालान्

मूलम् - 01

विश्वास-प्रस्तुतिः - 02

02 यच्च पण्यं प्रचुरं स्यात् तद् एकीकृत्यार्घं आरोपयेत्

मूलम् - 02

02 यच्च पण्यं प्रचुरं स्यात् तद् एकीकृत्यार्घं आरोपयेत्

विश्वास-प्रस्तुतिः - 03

03 प्राप्तेऽर्घे वाऽर्घान्तरं कारयेत्

मूलम् - 03

03 प्राप्तेऽर्घे वाऽर्घान्तरं कारयेत्

विश्वास-प्रस्तुतिः - 04

04 स्वभूमिजानां राजपण्यानां एकमुखं व्यवहारं स्थापयेत्, परभूमिजानां अनेकमुखम्

मूलम् - 04

04 स्वभूमिजानां राजपण्यानां एकमुखं व्यवहारं स्थापयेत्, परभूमिजानां अनेकमुखम्

विश्वास-प्रस्तुतिः - 05

05 उभयं च प्रजानां अनुग्रहेण विक्रापयेत्

मूलम् - 05

05 उभयं च प्रजानां अनुग्रहेण विक्रापयेत्

विश्वास-प्रस्तुतिः - 06

06 स्थूलं अपि च लाभं प्रजानां औपघातिकं वारयेत्

मूलम् - 06

06 स्थूलं अपि च लाभं प्रजानां औपघातिकं वारयेत्

विश्वास-प्रस्तुतिः - 07

07 अजस्रपण्यानां काल उपरोधं सङ्कुलदोषं वा न उत्पादयेत्

मूलम् - 07

07 अजस्रपण्यानां काल उपरोधं सङ्कुलदोषं वा न उत्पादयेत्

विश्वास-प्रस्तुतिः - 08

08 बहुमुखं वा राजपण्यं वैदेहकाः कृतार्घं विक्रीणीरन्

मूलम् - 08

08 बहुमुखं वा राजपण्यं वैदेहकाः कृतार्घं विक्रीणीरन्

विश्वास-प्रस्तुतिः - 09

09 छेदानुरूपं च वैधरणं दद्युः

मूलम् - 09

09 छेदानुरूपं च वैधरणं दद्युः

विश्वास-प्रस्तुतिः - 10

10 षोडशभागो मानव्याजी, विंशतिभागः तुलामानं, गण्यपण्यानां एकादशभागः

मूलम् - 10

10 षोडशभागो मानव्याजी, विंशतिभागः तुलामानं, गण्यपण्यानां एकादशभागः

विश्वास-प्रस्तुतिः - 11

11 परभूमिजं पण्यं अनुग्रहेणावाहयेत्

मूलम् - 11

11 परभूमिजं पण्यं अनुग्रहेणावाहयेत्

विश्वास-प्रस्तुतिः - 12

12 नाविकसार्थवाहेभ्यश्च परिहारं आयतिक्षमं दद्यात्

मूलम् - 12

12 नाविकसार्थवाहेभ्यश्च परिहारं आयतिक्षमं दद्यात्

विश्वास-प्रस्तुतिः - 13

13 अनभियोगश्चार्थेष्वागन्तूनां, अन्यत्र सभ्या उपकारिभ्यः

मूलम् - 13

13 अनभियोगश्चार्थेष्वागन्तूनां, अन्यत्र सभ्या उपकारिभ्यः

विश्वास-प्रस्तुतिः - 14

14 पण्याधिष्ठातारः पण्यमूल्यं एकमुखं काष्ठद्रोण्यां एकच्छिद्रापिधानायां निदध्युः

मूलम् - 14

14 पण्याधिष्ठातारः पण्यमूल्यं एकमुखं काष्ठद्रोण्यां एकच्छिद्रापिधानायां निदध्युः

विश्वास-प्रस्तुतिः - 15

15 अह्नश्चाष्टमे भागे पण्याध्यक्षस्यार्पयेयुः - इदं विक्रीतं, इदं शेषम् इति

मूलम् - 15

15 अह्नश्चाष्टमे भागे पण्याध्यक्षस्यार्पयेयुः - इदं विक्रीतं, इदं शेषम् इति

विश्वास-प्रस्तुतिः - 16

16 तुलामानभाण्डं चार्पयेयुः

मूलम् - 16

16 तुलामानभाण्डं चार्पयेयुः

विश्वास-प्रस्तुतिः - 17

17 इति स्वविषये व्याख्यातम्

मूलम् - 17

17 इति स्वविषये व्याख्यातम्

विश्वास-प्रस्तुतिः - 18

18 परविषये तु - पण्यप्रतिपण्ययोरर्घं मूल्यं चागमय्य शुल्कवर्तन्याऽऽतिवाहिकगुल्मतरदेयभक्तभागव्ययशुद्धं उदयं पश्येत्

मूलम् - 18

विश्वास-प्रस्तुतिः - 19

19 असत्युदये भाण्डनिर्वहणेन पण्यप्रतिपण्यानयनेन वा लाभं पश्येत्

मूलम् - 19

19 असत्युदये भाण्डनिर्वहणेन पण्यप्रतिपण्यानयनेन वा लाभं पश्येत्

विश्वास-प्रस्तुतिः - 20

20 ततः सारपादेन स्थलव्यवहारं अध्वना क्षेमेण प्रयोजयेत्

मूलम् - 20

20 ततः सारपादेन स्थलव्यवहारं अध्वना क्षेमेण प्रयोजयेत्

विश्वास-प्रस्तुतिः - 21

21 अटव्य्ऽन्तपालपुरराष्ट्रमुख्यैश्च प्रतिसंसर्गं गच्छेद् अनुग्रहार्थम्

मूलम् - 21

21 अटव्य्ऽन्तपालपुरराष्ट्रमुख्यैश्च प्रतिसंसर्गं गच्छेद् अनुग्रहार्थम्

विश्वास-प्रस्तुतिः - 22

22 आपदि सारं आत्मानं वा मोक्षयेत्

मूलम् - 22

22 आपदि सारं आत्मानं वा मोक्षयेत्

विश्वास-प्रस्तुतिः - 23

23 आत्मनो वा भूमिं प्राप्तः सर्वदेयविशुद्धं व्यवहरेत

मूलम् - 23

23 आत्मनो वा भूमिं प्राप्तः सर्वदेयविशुद्धं व्यवहरेत

विश्वास-प्रस्तुतिः - 24

24 वारिपथे वा यानभागकपथ्य्ऽदनपण्यप्रतिपण्यार्घप्रमाणयात्राकालभयप्रतीकारपण्यपत्तनचारित्राण्युपलभेत

मूलम् - 24

24 वारिपथे वा यानभागकपथ्य्ऽदनपण्यप्रतिपण्यार्घप्रमाणयात्राकालभयप्रतीकारपण्यपत्तनचारित्राण्युपलभेत

विश्वास-प्रस्तुतिः - 25

25ab नदीपथे च विज्ञाय व्यवहारं चरित्रतः ।
25chd यतो लाभः ततो गच्छेद् अलाभं परिवर्जयेत् (इति)

मूलम् - 25