Superintendent of the magashin
विश्वास-प्रस्तुतिः - 01
01 कोष्ठागाराध्यक्षः सीताराष्ट्रक्रयिमपरिवर्तकप्रामित्यकापमित्यकसंहनिकान्यजातव्ययप्रत्याय उपस्थानान्युपलभेत्
मूलम् - 01
01 कोष्ठागाराध्यक्षः सीताराष्ट्रक्रयिमपरिवर्तकप्रामित्यकापमित्यकसंहनिकान्यजातव्ययप्रत्याय उपस्थानान्युपलभेत्
विश्वास-प्रस्तुतिः - 02
02 सीताऽध्यक्ष उपनीतः सस्यवर्णकः सीता
मूलम् - 02
02 सीताऽध्यक्ष उपनीतः सस्यवर्णकः सीता
विश्वास-प्रस्तुतिः - 03
03 पिण्डकरः षड्भागः सेनाभक्तं बलिः कर उत्सङ्गः पार्श्वं पारिहीणिकं औपायनिकं कौष्ठेयकं च राष्ट्रम्
मूलम् - 03
03 पिण्डकरः षड्भागः सेनाभक्तं बलिः कर उत्सङ्गः पार्श्वं पारिहीणिकं औपायनिकं कौष्ठेयकं च राष्ट्रम्
विश्वास-प्रस्तुतिः - 04
04 धान्यमूल्यं कोशनिर्हारः प्रयोगप्रत्यादानं च क्रयिमम्
मूलम् - 04
04 धान्यमूल्यं कोशनिर्हारः प्रयोगप्रत्यादानं च क्रयिमम्
विश्वास-प्रस्तुतिः - 05
05 सस्यवर्णानां अर्घान्तरेण विनिमयः परिवर्तकः
मूलम् - 05
05 सस्यवर्णानां अर्घान्तरेण विनिमयः परिवर्तकः
विश्वास-प्रस्तुतिः - 06
06 सस्ययाचनं अन्यतः प्रामित्यकम्
मूलम् - 06
06 सस्ययाचनं अन्यतः प्रामित्यकम्
विश्वास-प्रस्तुतिः - 07
07 तद् एव प्रतिदानार्थं आपमित्यकम्
मूलम् - 07
07 तद् एव प्रतिदानार्थं आपमित्यकम्
विश्वास-प्रस्तुतिः - 08
08 कुट्टकरोचकसक्तुशुक्तपिष्टकर्म तज्जीवनेषु तैलपीडनमौद्रचाक्रिकेष्विक्षूणां च क्षारकर्म संहनिका
मूलम् - 08
08 कुट्टकरोचकसक्तुशुक्तपिष्टकर्म तज्जीवनेषु तैलपीडनमौद्रचाक्रिकेष्विक्षूणां च क्षारकर्म संहनिका
विश्वास-प्रस्तुतिः - 09
09 नष्टप्रस्मृतादिरन्यजातः
मूलम् - 09
09 नष्टप्रस्मृतादिरन्यजातः
विश्वास-प्रस्तुतिः - 10
10 विक्षेपव्याधितान्तरारम्भशेषं च व्ययप्रत्यायः
मूलम् - 10
10 विक्षेपव्याधितान्तरारम्भशेषं च व्ययप्रत्यायः
विश्वास-प्रस्तुतिः - 11
11 तुलामानान्तरं हस्तपूरणं उत्करो व्याजी पर्युषितं प्रार्जितं च उपस्थानम् । इति
मूलम् - 11
11 तुलामानान्तरं हस्तपूरणं उत्करो व्याजी पर्युषितं प्रार्जितं च उपस्थानम् । इति
विश्वास-प्रस्तुतिः - 12
12 धान्यस्नेहक्षारलवणानां धान्यकल्पं सीताऽध्यक्षे वक्ष्यामः
मूलम् - 12
12 धान्यस्नेहक्षारलवणानां धान्यकल्पं सीताऽध्यक्षे वक्ष्यामः
विश्वास-प्रस्तुतिः - 13
13 सर्पिस्तैलवसामज्जानः स्नेहाः
मूलम् - 13
13 सर्पिस्तैलवसामज्जानः स्नेहाः
विश्वास-प्रस्तुतिः - 14
14 फाणितगुडमत्स्यण्डिकाखण्डशर्कराः क्षारवर्गः
मूलम् - 14
14 फाणितगुडमत्स्यण्डिकाखण्डशर्कराः क्षारवर्गः
विश्वास-प्रस्तुतिः - 15
15 सैन्धवसामुद्रबिडयवक्षारसौवर्चल उद्भेदजा लवणवर्गः
मूलम् - 15
15 सैन्धवसामुद्रबिडयवक्षारसौवर्चल उद्भेदजा लवणवर्गः
विश्वास-प्रस्तुतिः - 16
16 क्षौद्रं मार्द्वीकं च मधु
मूलम् - 16
16 क्षौद्रं मार्द्वीकं च मधु
विश्वास-प्रस्तुतिः - 17
17 इक्षुरसगुडमधुफाणितजाम्बवपनसानां अन्यतमो मेषशृङ्गीपिप्पलीक्वाथाभिषुतो मासिकः षाण्मासिकः सांवत्सरिको वा चिद्भिटोर्वारुक इक्षुकाण्डाम्रफलामलकावसुतः शुद्धो वा शुक्तवर्गः
मूलम् - 17
17 इक्षुरसगुडमधुफाणितजाम्बवपनसानां अन्यतमो मेषशृङ्गीपिप्पलीक्वाथाभिषुतो मासिकः षाण्मासिकः सांवत्सरिको वा चिद्भिटोर्वारुक इक्षुकाण्डाम्रफलामलकावसुतः शुद्धो वा शुक्तवर्गः
विश्वास-प्रस्तुतिः - 18
18 वृक्षाम्लकरमर्दाम्रविदलामलकमातुलुङ्गकोलबदरसौवीरकपरूषकादिः फलाम्लवर्गः
मूलम् - 18
18 वृक्षाम्लकरमर्दाम्रविदलामलकमातुलुङ्गकोलबदरसौवीरकपरूषकादिः फलाम्लवर्गः
विश्वास-प्रस्तुतिः - 19
19 दधिधान्याम्लादिर्द्रवाम्लवर्गः
मूलम् - 19
19 दधिधान्याम्लादिर्द्रवाम्लवर्गः
विश्वास-प्रस्तुतिः - 20
20 पिप्पलीमरिचशृङ्गिबेराऽजाजीकिराततिक्तगौरसर्षपकुस्तुम्बुरुचोरकदमनकमरुवकशिग्रुकाण्डादिः कटुकवर्गः
मूलम् - 20
20 पिप्पलीमरिचशृङ्गिबेराऽजाजीकिराततिक्तगौरसर्षपकुस्तुम्बुरुचोरकदमनकमरुवकशिग्रुकाण्डादिः कटुकवर्गः
विश्वास-प्रस्तुतिः - 21
21 शुष्कमत्स्यमांसकन्दमूलफलशाकादि च शाकवर्गः
मूलम् - 21
21 शुष्कमत्स्यमांसकन्दमूलफलशाकादि च शाकवर्गः
विश्वास-प्रस्तुतिः - 22
22 ततोऽर्धं आपद्ऽर्थं जानपदानां स्थापयेद्, अर्धं उपयुञ्जीत
मूलम् - 22
22 ततोऽर्धं आपद्ऽर्थं जानपदानां स्थापयेद्, अर्धं उपयुञ्जीत
विश्वास-प्रस्तुतिः - 23
23 नवेन चानवं शोधयेत्
मूलम् - 23
23 नवेन चानवं शोधयेत्
विश्वास-प्रस्तुतिः - 24
24 क्षुण्णघृष्टपिष्टभृष्टानां आर्द्रशुष्कसिद्धानां च धान्यानां वृद्धिक्षयप्रमाणानि प्रत्यक्षीकुर्वीत
मूलम् - 24
24 क्षुण्णघृष्टपिष्टभृष्टानां आर्द्रशुष्कसिद्धानां च धान्यानां वृद्धिक्षयप्रमाणानि प्रत्यक्षीकुर्वीत
विश्वास-प्रस्तुतिः - 25
25 कोद्रवव्रीहीणां अर्धं सारः, शालीनां अर्धभाग ऊनः, त्रिभाग ऊनो वरकाणाम्
मूलम् - 25
25 कोद्रवव्रीहीणां अर्धं सारः, शालीनां अर्धभाग ऊनः, त्रिभाग ऊनो वरकाणाम्
विश्वास-प्रस्तुतिः - 26
26 प्रियङ्गूणां अर्धं सारो नवभागवृद्धिश्च
मूलम् - 26
26 प्रियङ्गूणां अर्धं सारो नवभागवृद्धिश्च
विश्वास-प्रस्तुतिः - 27
27 उदारकः तुल्यः, यवा गोधूमाश्च क्षुण्णाः, तिला यवा मुद्गमाषाश्च घृष्टाः
मूलम् - 27
27 उदारकः तुल्यः, यवा गोधूमाश्च क्षुण्णाः, तिला यवा मुद्गमाषाश्च घृष्टाः
विश्वास-प्रस्तुतिः - 28
28 पञ्चभागवृद्धिर्गोधूमः, सक्तवश्च
मूलम् - 28
28 पञ्चभागवृद्धिर्गोधूमः, सक्तवश्च
विश्वास-प्रस्तुतिः - 29
29 पाद ऊना कलायचमसी
मूलम् - 29
29 पाद ऊना कलायचमसी
विश्वास-प्रस्तुतिः - 30
30 मुद्गमाषाणां अर्धपाद ऊना
मूलम् - 30
30 मुद्गमाषाणां अर्धपाद ऊना
विश्वास-प्रस्तुतिः - 31
31 शौम्ब्यानां अर्धं सारः, त्रिभाग ऊनो मसूराणाम्
मूलम् - 31
31 शौम्ब्यानां अर्धं सारः, त्रिभाग ऊनो मसूराणाम्
विश्वास-प्रस्तुतिः - 32
32 पिष्टं आमं कुल्माषाश्चाध्यर्धगुणाः
मूलम् - 32
32 पिष्टं आमं कुल्माषाश्चाध्यर्धगुणाः
विश्वास-प्रस्तुतिः - 33
33 द्विगुणो यावकः, पुलाकः, पिष्टं च सिद्धम्
मूलम् - 33
33 द्विगुणो यावकः, पुलाकः, पिष्टं च सिद्धम्
विश्वास-प्रस्तुतिः - 34
34 कोद्रववरक उदारकप्रियङ्गूणां त्रिगुणं अन्नं, चतुर्गुणं व्रीहीणां, पञ्चगुणं शालीनाम्
मूलम् - 34
34 कोद्रववरक उदारकप्रियङ्गूणां त्रिगुणं अन्नं, चतुर्गुणं व्रीहीणां, पञ्चगुणं शालीनाम्
विश्वास-प्रस्तुतिः - 35
35 तिमितं अपरान्नं द्विगुणं, अर्धाधिकं विरूढानाम्
मूलम् - 35
35 तिमितं अपरान्नं द्विगुणं, अर्धाधिकं विरूढानाम्
विश्वास-प्रस्तुतिः - 36
36 पञ्चभागवृद्धिर्भृष्टानाम्
मूलम् - 36
36 पञ्चभागवृद्धिर्भृष्टानाम्
विश्वास-प्रस्तुतिः - 37
37 कलायो द्विगुणः, लाजा भरुजाश्च
मूलम् - 37
37 कलायो द्विगुणः, लाजा भरुजाश्च
विश्वास-प्रस्तुतिः - 38
38 षट्कं तैलं अतसीनाम्
मूलम् - 38
38 षट्कं तैलं अतसीनाम्
विश्वास-प्रस्तुतिः - 39
39 निम्बकुशाम्रकपित्थादीनां पञ्चभागः
मूलम् - 39
39 निम्बकुशाम्रकपित्थादीनां पञ्चभागः
विश्वास-प्रस्तुतिः - 40
40 चतुर्भागिकाः तिलकुसुम्भमधूक इङ्गुदीस्नेहाः
मूलम् - 40
40 चतुर्भागिकाः तिलकुसुम्भमधूक इङ्गुदीस्नेहाः
विश्वास-प्रस्तुतिः - 41
41 कार्पासक्षौमाणां पञ्चपले पलं सूत्रम्
मूलम् - 41
41 कार्पासक्षौमाणां पञ्चपले पलं सूत्रम्
विश्वास-प्रस्तुतिः - 42
42 पञ्चद्रोणे शालीनां द्वादशाढकं तण्डुलानां कलभभोजनं, एकादशकं व्यालानां, दशकं औपवाह्यानां नवकं साम्नाह्यानां, अष्टकं पत्तीनां, सप्तकं मुख्यानां, षट्कं देवीकुमाराणां, पञ्चकं राज्ञां, अखण्डपरिशुद्धानां वा तुअण्डुलानां प्रस्थः
मूलम् - 42

विश्वास-प्रस्तुतिः - 43
43 तण्डुलानां प्रस्थः चतुर्भागः सूपः सूपषोडशो लवणस्यांशः चतुर्भागः सर्पिषः तैलस्य वा एकं आर्यभक्तं पुंसः
मूलम् - 43
43 तण्डुलानां प्रस्थः चतुर्भागः सूपः सूपषोडशो लवणस्यांशः चतुर्भागः सर्पिषः तैलस्य वा एकं आर्यभक्तं पुंसः
विश्वास-प्रस्तुतिः - 44
44 षड्भागः सूपः अर्धस्नेहं अवराणाम्
मूलम् - 44
44 षड्भागः सूपः अर्धस्नेहं अवराणाम्
विश्वास-प्रस्तुतिः - 45
45 पाद ऊनं स्त्रीणाम्
मूलम् - 45
45 पाद ऊनं स्त्रीणाम्
विश्वास-प्रस्तुतिः - 46
46 अर्धं बालानाम्
मूलम् - 46
46 अर्धं बालानाम्
विश्वास-प्रस्तुतिः - 47
47 मांसपलविंशत्या स्नेहार्धकुडुबः पलिको लवणस्यांशः क्षारपलयोगो द्विधरणिकः कटुकयोगो दध्नुश्चार्धप्रस्थः
मूलम् - 47
47 मांसपलविंशत्या स्नेहार्धकुडुबः पलिको लवणस्यांशः क्षारपलयोगो द्विधरणिकः कटुकयोगो दध्नुश्चार्धप्रस्थः
विश्वास-प्रस्तुतिः - 48
48 तेन उत्तरं व्याख्यातम्
मूलम् - 48
48 तेन उत्तरं व्याख्यातम्
विश्वास-प्रस्तुतिः - 49
49 शाकानां अध्यर्धगुणः, शुष्काणां द्विगुणः, स चैव योगः
मूलम् - 49
49 शाकानां अध्यर्धगुणः, शुष्काणां द्विगुणः, स चैव योगः
विश्वास-प्रस्तुतिः - 50
50 हस्त्य्ऽश्वयोः तद्ऽध्यक्षे विधाप्रमाणं वक्ष्यामः
मूलम् - 50
50 हस्त्य्ऽश्वयोः तद्ऽध्यक्षे विधाप्रमाणं वक्ष्यामः
विश्वास-प्रस्तुतिः - 51
51 बलीवर्दानां माषद्रोणं यवानां वा पुलाकः, शेषं अश्वविधानम्
मूलम् - 51
51 बलीवर्दानां माषद्रोणं यवानां वा पुलाकः, शेषं अश्वविधानम्
विश्वास-प्रस्तुतिः - 52
52 विशेषो घाणपिण्याकतुला, कणकुण्डकं दशाढकं वा
मूलम् - 52
52 विशेषो घाणपिण्याकतुला, कणकुण्डकं दशाढकं वा
विश्वास-प्रस्तुतिः - 53
53 द्विगुणं महिष उष्ट्राणाम्
मूलम् - 53
53 द्विगुणं महिष उष्ट्राणाम्
विश्वास-प्रस्तुतिः - 54
54 अर्धद्रोणं खरपृषतरोहितानाम्
मूलम् - 54
54 अर्धद्रोणं खरपृषतरोहितानाम्
विश्वास-प्रस्तुतिः - 55
55 आढकं एणकुरङ्गाणाम्
मूलम् - 55
55 आढकं एणकुरङ्गाणाम्
विश्वास-प्रस्तुतिः - 56
56 अर्धाढकं अज एडकवराहाणां, द्विगुणं वा कणकुण्डकम्
मूलम् - 56
56 अर्धाढकं अज एडकवराहाणां, द्विगुणं वा कणकुण्डकम्
विश्वास-प्रस्तुतिः - 57
57 प्रस्थोदनः शुनाम्
मूलम् - 57
57 प्रस्थोदनः शुनाम्
विश्वास-प्रस्तुतिः - 58
58 हंसक्रौञ्चमयूराणां अर्धप्रस्थः
मूलम् - 58
58 हंसक्रौञ्चमयूराणां अर्धप्रस्थः
विश्वास-प्रस्तुतिः - 59
59 शेषाणां अतो मृगपशुपक्षिव्यालानां एकभक्ताद् अनुमानं ग्राहयेत्
मूलम् - 59
59 शेषाणां अतो मृगपशुपक्षिव्यालानां एकभक्ताद् अनुमानं ग्राहयेत्
विश्वास-प्रस्तुतिः - 60
60 अङ्गारांः तुषान् लोहकर्मान्तभित्तिलेप्यानां हारयेत्
मूलम् - 60
60 अङ्गारांः तुषान् लोहकर्मान्तभित्तिलेप्यानां हारयेत्
विश्वास-प्रस्तुतिः - 61
61 कणिका दासकर्मकरसूपकाराणां, अतोऽन्यद् औदनिकापूपिकेभ्यः प्रयच्छेत्
मूलम् - 61
61 कणिका दासकर्मकरसूपकाराणां, अतोऽन्यद् औदनिकापूपिकेभ्यः प्रयच्छेत्
विश्वास-प्रस्तुतिः - 62
62 तुलामानभाण्डं रोचनीदृषन्मुसल उलूखलकुट्टकरोचकयन्त्रपत्त्रकशूर्पचालनिकाकण्डोलीपिटकसम्मार्जन्यश्च उपकरणानि
मूलम् - 62
62 तुलामानभाण्डं रोचनीदृषन्मुसल उलूखलकुट्टकरोचकयन्त्रपत्त्रकशूर्पचालनिकाकण्डोलीपिटकसम्मार्जन्यश्च उपकरणानि
विश्वास-प्रस्तुतिः - 63
63 मार्जकरक्षकधरकमायकमापकदायकदापकशलाकाप्रतिग्राहकदासकर्मकरवर्गश्च विष्टिः
मूलम् - 63
63 मार्जकरक्षकधरकमायकमापकदायकदापकशलाकाप्रतिग्राहकदासकर्मकरवर्गश्च विष्टिः
विश्वास-प्रस्तुतिः - 64
64ab उच्चैर्धान्यस्य निक्षेपो मूताः क्षारस्य संहताः ।
64chd मृत्काष्ठकोष्ठाः स्नेहस्य पृथिवी लवणस्य च (इति)
मूलम् - 64
64ab उच्चैर्धान्यस्य निक्षेपो मूताः क्षारस्य संहताः ।
64chd मृत्काष्ठकोष्ठाः स्नेहस्य पृथिवी लवणस्य च (इति)