Activity of the goldsmitH in the market-highRay
विश्वास-प्रस्तुतिः - 01
01 सौवर्णिकः पौरजानपदानां रूप्यसुवर्णं आवेशनिभिः कारयेत्
मूलम् - 01
01 सौवर्णिकः पौरजानपदानां रूप्यसुवर्णं आवेशनिभिः कारयेत्
विश्वास-प्रस्तुतिः - 02
02 निर्दिष्टकालकार्यं च कर्म कुर्युः, अनिर्दिष्टकालं कार्यापदेशम्
मूलम् - 02
02 निर्दिष्टकालकार्यं च कर्म कुर्युः, अनिर्दिष्टकालं कार्यापदेशम्
विश्वास-प्रस्तुतिः - 03
03 कार्यस्यान्यथाकरणे वेतननाशः, तद्द्विगुणश्च दण्डः
मूलम् - 03
03 कार्यस्यान्यथाकरणे वेतननाशः, तद्द्विगुणश्च दण्डः
विश्वास-प्रस्तुतिः - 04
04 कालातिपातने पादहीनं वेतनं तद्द्विगुणश्च दण्डः
मूलम् - 04
04 कालातिपातने पादहीनं वेतनं तद्द्विगुणश्च दण्डः
विश्वास-प्रस्तुतिः - 05
05 यथावर्णप्रमाणं निक्षेपं गृह्णीयुः तथाविधं एवार्पयेयुः
मूलम् - 05
05 यथावर्णप्रमाणं निक्षेपं गृह्णीयुः तथाविधं एवार्पयेयुः
विश्वास-प्रस्तुतिः - 06
06 कालान्तराद् अपि च तथाविधं एव प्रतिगृह्णीयुः, अन्यत्र क्षीणपरिशीर्णाभ्याम्
मूलम् - 06
06 कालान्तराद् अपि च तथाविधं एव प्रतिगृह्णीयुः, अन्यत्र क्षीणपरिशीर्णाभ्याम्
विश्वास-प्रस्तुतिः - 07
07 आवेशनिभिः सुवर्णपुद्गललक्षणप्रयोगेषु तत्तज् जानीयात्
मूलम् - 07
07 आवेशनिभिः सुवर्णपुद्गललक्षणप्रयोगेषु तत्तज् जानीयात्
विश्वास-प्रस्तुतिः - 08
08 तप्तकलधौतकयोः काकणिकः सुवर्णे क्षयो देयः
मूलम् - 08
08 तप्तकलधौतकयोः काकणिकः सुवर्णे क्षयो देयः
विश्वास-प्रस्तुतिः - 09
09 तीक्ष्णकाकणी - रूप्यद्विगुणः - रागप्रक्षेपः, तस्य षड्भागः क्षयः
मूलम् - 09
09 तीक्ष्णकाकणी - रूप्यद्विगुणः - रागप्रक्षेपः, तस्य षड्भागः क्षयः
विश्वास-प्रस्तुतिः - 10
10 वर्णहीने माषावरे पूर्वः साहसदण्डः, प्रमाणहीने मध्यमः, तुलाप्रतिमान उपधावुत्तमः, कृतभाण्ड उपधौ च
मूलम् - 10
10 वर्णहीने माषावरे पूर्वः साहसदण्डः, प्रमाणहीने मध्यमः, तुलाप्रतिमान उपधावुत्तमः, कृतभाण्ड उपधौ च
विश्वास-प्रस्तुतिः - 11
11 सौवर्णिकेनादृष्टं अन्यत्र वा प्रयोगं कारयतो द्वादशपणो दण्डः
मूलम् - 11
11 सौवर्णिकेनादृष्टं अन्यत्र वा प्रयोगं कारयतो द्वादशपणो दण्डः
विश्वास-प्रस्तुतिः - 12
12 कर्तुर्द्विगुणः स-अपसारश्चेत्
मूलम् - 12
12 कर्तुर्द्विगुणः स-अपसारश्चेत्
विश्वास-प्रस्तुतिः - 13
13 अनपसारः कण्टकशोधनाय नीयेत
मूलम् - 13
13 अनपसारः कण्टकशोधनाय नीयेत
विश्वास-प्रस्तुतिः - 14
14 कर्तुश्च द्विशतो दण्डः पणच्छेदनं वा
मूलम् - 14
14 कर्तुश्च द्विशतो दण्डः पणच्छेदनं वा
विश्वास-प्रस्तुतिः - 15
15 तुलाप्रतिमानभाण्डं पौतवहस्तात् क्रीणीयुः
मूलम् - 15
15 तुलाप्रतिमानभाण्डं पौतवहस्तात् क्रीणीयुः
विश्वास-प्रस्तुतिः - 16
16 अन्यथा द्वादशपणो दण्डः
मूलम् - 16
16 अन्यथा द्वादशपणो दण्डः
विश्वास-प्रस्तुतिः - 17
17 घनं सुषिरं सम्यूह्यं अवलेप्यं सङ्घात्यं वासितकं च कारुकर्म
मूलम् - 17
17 घनं सुषिरं सम्यूह्यं अवलेप्यं सङ्घात्यं वासितकं च कारुकर्म
विश्वास-प्रस्तुतिः - 18
18 तुलाविषमं अपसारणं विस्रावणं पेटकः पिङ्कश्च इति हरण उपायाः
मूलम् - 18
18 तुलाविषमं अपसारणं विस्रावणं पेटकः पिङ्कश्च इति हरण उपायाः
विश्वास-प्रस्तुतिः - 19
19 सम्नामिन्युत्कीर्णिका भिन्नमस्तक उपकण्ठी कुशिक्या सकटुकक्ष्या परिवेल्याऽयस्कान्ता च दुष्टतुलाः
मूलम् - 19
19 सम्नामिन्युत्कीर्णिका भिन्नमस्तक उपकण्ठी कुशिक्या सकटुकक्ष्या परिवेल्याऽयस्कान्ता च दुष्टतुलाः
विश्वास-प्रस्तुतिः - 20
20 रूप्यस्य द्वौ भागावेकः शुल्बस्य त्रिपुटकम्
मूलम् - 20
20 रूप्यस्य द्वौ भागावेकः शुल्बस्य त्रिपुटकम्
विश्वास-प्रस्तुतिः - 21
21 तेनाकरोद् गतं अपसार्यते तत्त्रिपुटकापसारितम्
मूलम् - 21
21 तेनाकरोद् गतं अपसार्यते तत्त्रिपुटकापसारितम्
विश्वास-प्रस्तुतिः - 22
22 शुल्बेन शुल्बापसारितं, वेल्लकेन वेल्लकापसारितं, शुल्बार्धसारेण हेम्ना हेमापसारितम्
मूलम् - 22
22 शुल्बेन शुल्बापसारितं, वेल्लकेन वेल्लकापसारितं, शुल्बार्धसारेण हेम्ना हेमापसारितम्
विश्वास-प्रस्तुतिः - 23
23 मूकमूषा पूतिकिट्टः करटुकमुखं नाली सन्दंशो जोङ्गनी सुवर्चिकालवणं तद् एव सुवर्णं इत्यपसारणमार्गाः
मूलम् - 23
23 मूकमूषा पूतिकिट्टः करटुकमुखं नाली सन्दंशो जोङ्गनी सुवर्चिकालवणं तद् एव सुवर्णं इत्यपसारणमार्गाः
विश्वास-प्रस्तुतिः - 24
24 पूर्वप्रणिहिता वा पिण्डवालुका मूषाभेदाद् अग्निष्ठाद् उद्ध्रियन्ते
मूलम् - 24
24 पूर्वप्रणिहिता वा पिण्डवालुका मूषाभेदाद् अग्निष्ठाद् उद्ध्रियन्ते
विश्वास-प्रस्तुतिः - 25
25 पश्चाद् बन्धने आचितकपत्त्रपरीक्षायां वा रूप्यरूपेण परिवर्तनं विस्रावणं, पिण्डवालुकानां लोहपिण्डवालुकाभिर्वा
मूलम् - 25

विश्वास-प्रस्तुतिः - 26
26 गाढश्चाभ्युद्धार्यश्च पेटकः सम्यूह्यावलेप्यसङ्घात्येषु क्रियते
मूलम् - 26
26 गाढश्चाभ्युद्धार्यश्च पेटकः सम्यूह्यावलेप्यसङ्घात्येषु क्रियते
विश्वास-प्रस्तुतिः - 27
27 सीसरूपं सुवर्णपत्त्रेणावलिप्तं अभ्यन्तरं अष्टकेन बद्धं गाढपेटकः
मूलम् - 27
27 सीसरूपं सुवर्णपत्त्रेणावलिप्तं अभ्यन्तरं अष्टकेन बद्धं गाढपेटकः
विश्वास-प्रस्तुतिः - 28
28 स एव पटलसम्पुटेष्वभ्युद्धार्यः
मूलम् - 28
28 स एव पटलसम्पुटेष्वभ्युद्धार्यः
विश्वास-प्रस्तुतिः - 29
29 पत्त्रं आश्लिष्टं यमकपत्त्रं वाऽवलेप्येषु क्रियते
मूलम् - 29
29 पत्त्रं आश्लिष्टं यमकपत्त्रं वाऽवलेप्येषु क्रियते
विश्वास-प्रस्तुतिः - 30
30 शुल्बं तारं वा गर्भः पत्त्राणां सङ्घात्येषु क्रियते
मूलम् - 30
30 शुल्बं तारं वा गर्भः पत्त्राणां सङ्घात्येषु क्रियते
विश्वास-प्रस्तुतिः - 31
31 शुल्बरूपं सुवर्णपत्त्रसंहतं प्रमृष्टं सुपार्श्वं, तद् एव यमकपत्त्रसंहतं प्रमृष्टं ताम्रताररुपं च उत्तरवर्णकः
मूलम् - 31

विश्वास-प्रस्तुतिः - 32
32 तद् उभयं तापनिकषाभ्यां निह्शब्द उल्लेखनाभ्यां वा विद्यात्
मूलम् - 32
32 तद् उभयं तापनिकषाभ्यां निह्शब्द उल्लेखनाभ्यां वा विद्यात्
विश्वास-प्रस्तुतिः - 33
33 अभ्युद्धार्यं बदराम्ले लवण उदके वा सादयन्ति इति पेटकः
मूलम् - 33
33 अभ्युद्धार्यं बदराम्ले लवण उदके वा सादयन्ति इति पेटकः
विश्वास-प्रस्तुतिः - 34
34 घने सुषिरे वा रूपे सुवर्णमृन्मालुकाहिङ्गुलुककल्पो वा तप्तोऽवतिष्ठते
मूलम् - 34
34 घने सुषिरे वा रूपे सुवर्णमृन्मालुकाहिङ्गुलुककल्पो वा तप्तोऽवतिष्ठते
विश्वास-प्रस्तुतिः - 35
35 दृढवास्तुके वा रूपे वालुकामिश्रं जतु गान्धारपङ्को वा तप्तोऽवतिष्ठते
मूलम् - 35
35 दृढवास्तुके वा रूपे वालुकामिश्रं जतु गान्धारपङ्को वा तप्तोऽवतिष्ठते
विश्वास-प्रस्तुतिः - 36
36 तयोः तापनं अवध्वंसनं वा शुद्धिः
मूलम् - 36
36 तयोः तापनं अवध्वंसनं वा शुद्धिः
विश्वास-प्रस्तुतिः - 37
37 स-परिभाण्डे वा रूपे लवणं उल्कया कटुशर्करया तप्तं अवतिष्ठते
मूलम् - 37
37 स-परिभाण्डे वा रूपे लवणं उल्कया कटुशर्करया तप्तं अवतिष्ठते
विश्वास-प्रस्तुतिः - 38
38 तस्य क्वाथनं शुद्धिः
मूलम् - 38
38 तस्य क्वाथनं शुद्धिः
विश्वास-प्रस्तुतिः - 39
39 अभ्रपटलं अष्टकेन द्विगुणवास्तुके वा रूपे बध्यते
मूलम् - 39
39 अभ्रपटलं अष्टकेन द्विगुणवास्तुके वा रूपे बध्यते
विश्वास-प्रस्तुतिः - 40
40 तस्यापिहितकाचकस्य उदके निमज्जत एकदेशः सीदति, पटलान्तरेषु वा सूच्या भिद्यते
मूलम् - 40
40 तस्यापिहितकाचकस्य उदके निमज्जत एकदेशः सीदति, पटलान्तरेषु वा सूच्या भिद्यते
विश्वास-प्रस्तुतिः - 41
41 मणयो रूप्यं सुवर्णं वा घनसुषिराणां पिङ्कः
मूलम् - 41
41 मणयो रूप्यं सुवर्णं वा घनसुषिराणां पिङ्कः
विश्वास-प्रस्तुतिः - 42
42 तस्य तापनं अवध्वंसनं वा शुद्धिः । इति पिङ्कः
मूलम् - 42
42 तस्य तापनं अवध्वंसनं वा शुद्धिः । इति पिङ्कः
विश्वास-प्रस्तुतिः - 43
43 तस्माद् वज्रमणिमुक्ताप्रवालरूपाणां जातिरूपवर्णप्रमाणपुद्गललक्षणान्युपलभेत
मूलम् - 43
43 तस्माद् वज्रमणिमुक्ताप्रवालरूपाणां जातिरूपवर्णप्रमाणपुद्गललक्षणान्युपलभेत
विश्वास-प्रस्तुतिः - 44
44 कृतभाण्डपरीक्षायां पुराणभाण्डप्रतिसंस्कारे वा चत्वारो हरण उपायाः - परिकुट्टनं अवच्छेदनं उल्लेखनं परिमर्दनं वा
मूलम् - 44

विश्वास-प्रस्तुतिः - 45
45 पेटकापदेशेन पृषतं गुणं पिटकां वा यत् परिशातयन्ति तत्परिकुट्टनम्
मूलम् - 45
45 पेटकापदेशेन पृषतं गुणं पिटकां वा यत् परिशातयन्ति तत्परिकुट्टनम्
विश्वास-प्रस्तुतिः - 46
46 यद्द्विगुणवास्तुकानां वा रूपे सीसरूपं प्रक्षिप्याभ्यन्तरं अवच्छिन्दन्ति तद् अवच्छेदनम्
मूलम् - 46
46 यद्द्विगुणवास्तुकानां वा रूपे सीसरूपं प्रक्षिप्याभ्यन्तरं अवच्छिन्दन्ति तद् अवच्छेदनम्
विश्वास-प्रस्तुतिः - 47
47 यद् घनानां तीक्ष्णेन उल्लिखन्ति तद् उल्लेखनम्
मूलम् - 47
47 यद् घनानां तीक्ष्णेन उल्लिखन्ति तद् उल्लेखनम्
विश्वास-प्रस्तुतिः - 48
48 हरितालमनःशिलाहिङ्गुलुकचूर्णानां अन्यतमेन कुरुविन्दचूर्णेन वा वस्त्रं सम्यूह्य यत् परिमृद्नन्ति तत् परिमर्दनम्
मूलम् - 48

विश्वास-प्रस्तुतिः - 49
49 तेन सौवर्णराजतानि भाण्डानि क्षीयन्ते, न च एषां किञ्चिद् अवरुग्णं भवति
मूलम् - 49
49 तेन सौवर्णराजतानि भाण्डानि क्षीयन्ते, न च एषां किञ्चिद् अवरुग्णं भवति
विश्वास-प्रस्तुतिः - 50
50 भग्नखण्डघृष्टानां सम्यूह्यानां सदृशेनानुमानं कुर्यात्
मूलम् - 50
50 भग्नखण्डघृष्टानां सम्यूह्यानां सदृशेनानुमानं कुर्यात्
विश्वास-प्रस्तुतिः - 51
51 अवलेप्यानां यावद् उत्पाटितं तावद् उत्पाट्यानुमानं कुर्यात्
मूलम् - 51
51 अवलेप्यानां यावद् उत्पाटितं तावद् उत्पाट्यानुमानं कुर्यात्
विश्वास-प्रस्तुतिः - 52
52 विरूपाणां वा तापनं उदकपेषणं च बहुशः कुर्यात्
मूलम् - 52
52 विरूपाणां वा तापनं उदकपेषणं च बहुशः कुर्यात्
विश्वास-प्रस्तुतिः - 53
53 अवक्षेपः प्रतिमानं अग्निर्गण्डिका भण्डिकाधिकरणी पिञ्छः सूत्रं चेल्लं बोल्लनं शिर उत्सङ्गो मक्षिका स्वकाय ईक्षा दृतिरुदकशरावं अग्निष्ठं इति काचं विद्यात्
मूलम् - 53

विश्वास-प्रस्तुतिः - 54
54 राजतानां विस्रं मलग्राहि परुषं प्रस्तीनं विवर्णं वा दुष्टं इति विद्यात्
मूलम् - 54
54 राजतानां विस्रं मलग्राहि परुषं प्रस्तीनं विवर्णं वा दुष्टं इति विद्यात्
विश्वास-प्रस्तुतिः - 55
55ab एवं नवं च जीर्णं च विरूपं चापि भाण्डकम् ।
55chd परीक्षेतात्ययं च एषां यथा उद्दिष्टं प्रकल्पयेत् (इति)
मूलम् - 55