Superintendent of gold in the RorkShop
विश्वास-प्रस्तुतिः - 01
01 सुवर्णाध्यक्षः सुवर्णरजतकर्मान्तानां असम्बन्धावेशनचतुःशालां एकद्वारां अक्षशालां कारयेत्
मूलम् - 01
01 सुवर्णाध्यक्षः सुवर्णरजतकर्मान्तानां असम्बन्धावेशनचतुःशालां एकद्वारां अक्षशालां कारयेत्
विश्वास-प्रस्तुतिः - 02
02 विशिखामध्ये सौवर्णिकं शिल्पवन्तं अभिजातं प्रात्ययिकं च स्थापयेत्
मूलम् - 02
02 विशिखामध्ये सौवर्णिकं शिल्पवन्तं अभिजातं प्रात्ययिकं च स्थापयेत्
विश्वास-प्रस्तुतिः - 03
03 जाम्बूनदं शातकुम्भं हाटकं वैणवं शृङ्गशुक्तिजं जातरूपं रसविद्धं आकर उद्गतं च सुवर्णम्
मूलम् - 03
03 जाम्बूनदं शातकुम्भं हाटकं वैणवं शृङ्गशुक्तिजं जातरूपं रसविद्धं आकर उद्गतं च सुवर्णम्
विश्वास-प्रस्तुतिः - 04
04 किञ्जल्कवर्णं मृदु स्निग्धं अनादि भ्राजिष्णु च श्रेष्ठं, रक्तपीतकं मध्यमं, रक्तं अवरम्
मूलम् - 04
04 किञ्जल्कवर्णं मृदु स्निग्धं अनादि भ्राजिष्णु च श्रेष्ठं, रक्तपीतकं मध्यमं, रक्तं अवरम्
विश्वास-प्रस्तुतिः - 05
05 श्रेष्ठानां पाण्डु श्वेतं चाप्राप्तकम्
मूलम् - 05
05 श्रेष्ठानां पाण्डु श्वेतं चाप्राप्तकम्
विश्वास-प्रस्तुतिः - 06
06 तद् येनाप्राप्तकं तच्चतुर्गुणेन सीसेन शोधयेत्
मूलम् - 06
06 तद् येनाप्राप्तकं तच्चतुर्गुणेन सीसेन शोधयेत्
विश्वास-प्रस्तुतिः - 07
07 सीसान्वयेन भिद्यमानं शुष्कपटलैर्ध्मापयेत्
मूलम् - 07
07 सीसान्वयेन भिद्यमानं शुष्कपटलैर्ध्मापयेत्
विश्वास-प्रस्तुतिः - 08
08 रूक्षत्वाद् भिद्यमानं तैलगोमये निषेचयेत्
मूलम् - 08
08 रूक्षत्वाद् भिद्यमानं तैलगोमये निषेचयेत्
विश्वास-प्रस्तुतिः - 09
09 आकर उद्गतं सीसान्वयेन भिद्यमानं पाकपत्त्राणि कृत्वा गण्डिकासु कुट्टयेत्, कदलीवज्रकन्दकल्के वा निषेचयेत्
मूलम् - 09

विश्वास-प्रस्तुतिः - 10
10 तुत्थ उद्गतं गौडिकं काम्बुकं चाक्रवालिकं च रूप्यम्
मूलम् - 10
10 तुत्थ उद्गतं गौडिकं काम्बुकं चाक्रवालिकं च रूप्यम्
विश्वास-प्रस्तुतिः - 11
11 श्वेतं स्निग्धं मृदु च श्रेष्ठम्
मूलम् - 11
11 श्वेतं स्निग्धं मृदु च श्रेष्ठम्
विश्वास-प्रस्तुतिः - 12
12 विपर्यये स्फोटनं च दुष्टम्
मूलम् - 12
12 विपर्यये स्फोटनं च दुष्टम्
विश्वास-प्रस्तुतिः - 13
13 तत्सीसचतुर्भागेन शोधयेत्
मूलम् - 13
13 तत्सीसचतुर्भागेन शोधयेत्
विश्वास-प्रस्तुतिः - 14
14 उद्गतचूलिकं अच्छं भ्राजिष्णु दधिवर्णं च शुद्धम्
मूलम् - 14
14 उद्गतचूलिकं अच्छं भ्राजिष्णु दधिवर्णं च शुद्धम्
विश्वास-प्रस्तुतिः - 15
15 शुद्धस्य एको हारिद्रस्य सुवर्णो वर्णकः
मूलम् - 15
15 शुद्धस्य एको हारिद्रस्य सुवर्णो वर्णकः
विश्वास-प्रस्तुतिः - 16
16 ततः शुल्बकाकण्य्।उत्तरापसारिता आचतुःसीमान्ताद् इति षोडश वर्णकाः
मूलम् - 16
16 ततः शुल्बकाकण्य्।उत्तरापसारिता आचतुःसीमान्ताद् इति षोडश वर्णकाः
विश्वास-प्रस्तुतिः - 17
17 सुवर्णं पूर्वं निकष्य पश्चाद् वर्णिकां निकषयेत्
मूलम् - 17
17 सुवर्णं पूर्वं निकष्य पश्चाद् वर्णिकां निकषयेत्
विश्वास-प्रस्तुतिः - 18
18 समरागलेखं अनिम्न उन्नते देशे निकषितं, परिमृदितं परिलीढं नखान्तराद् वा गैरिकेणावचूर्णितं उपधिं विद्यात्
मूलम् - 18

विश्वास-प्रस्तुतिः - 19
19 जातिहिङ्गुलुकेन पुष्पकासीसेन वा गोमूत्रभावितेन दिग्धेनाग्रहस्तेन संस्पृष्टं सुवर्णं श्वेतीभवति
मूलम् - 19
19 जातिहिङ्गुलुकेन पुष्पकासीसेन वा गोमूत्रभावितेन दिग्धेनाग्रहस्तेन संस्पृष्टं सुवर्णं श्वेतीभवति
विश्वास-प्रस्तुतिः - 20
20 स-केसरः स्निग्धो मृदुर्भाजिष्णुश्च निकषरागः श्रेष्ठः
मूलम् - 20
20 स-केसरः स्निग्धो मृदुर्भाजिष्णुश्च निकषरागः श्रेष्ठः
विश्वास-प्रस्तुतिः - 21
21 कालिङ्गकः तापीपाषाणो वा मुद्गवर्णो निकषः श्रेष्ठः
मूलम् - 21
21 कालिङ्गकः तापीपाषाणो वा मुद्गवर्णो निकषः श्रेष्ठः
विश्वास-प्रस्तुतिः - 22
22 समरागी विक्रयक्रयहितः
मूलम् - 22
22 समरागी विक्रयक्रयहितः
विश्वास-प्रस्तुतिः - 23
23 हस्तिच्छविकः सहरितः प्रतिरागी विक्रयहितः
मूलम् - 23
23 हस्तिच्छविकः सहरितः प्रतिरागी विक्रयहितः
विश्वास-प्रस्तुतिः - 24
24 स्थिरः परुषो विषमवर्णश्चाप्रतिरागी क्रयहितः
मूलम् - 24
24 स्थिरः परुषो विषमवर्णश्चाप्रतिरागी क्रयहितः
विश्वास-प्रस्तुतिः - 25
25 छेदश्चिक्कणः समवर्णः श्लक्ष्णो मृदुर्भाजिष्णुश्च श्रेष्ठः
मूलम् - 25
25 छेदश्चिक्कणः समवर्णः श्लक्ष्णो मृदुर्भाजिष्णुश्च श्रेष्ठः
विश्वास-प्रस्तुतिः - 26
26 तापो बहिर्ऽन्तश्च समः किञ्जल्कवर्णः कुरण्डकपुष्पवर्णो वा श्रेष्ठः
मूलम् - 26
26 तापो बहिर्ऽन्तश्च समः किञ्जल्कवर्णः कुरण्डकपुष्पवर्णो वा श्रेष्ठः
विश्वास-प्रस्तुतिः - 27
27 श्यावो नीलश्चाप्राप्तकः
मूलम् - 27
27 श्यावो नीलश्चाप्राप्तकः
विश्वास-प्रस्तुतिः - 28
28 तुलाप्रतिमानं पौतवाध्यक्षे वक्ष्यामः
मूलम् - 28
28 तुलाप्रतिमानं पौतवाध्यक्षे वक्ष्यामः
विश्वास-प्रस्तुतिः - 29
29 तेन उपदेशेन रूप्यसुवर्णं दद्याद् आददीत च
मूलम् - 29
29 तेन उपदेशेन रूप्यसुवर्णं दद्याद् आददीत च
विश्वास-प्रस्तुतिः - 30
30 अक्षशालां अनायुक्तो न उपगच्छेत्
मूलम् - 30
30 अक्षशालां अनायुक्तो न उपगच्छेत्
विश्वास-प्रस्तुतिः - 31
31 अभिगच्छन्न् उच्छेद्यः
मूलम् - 31
31 अभिगच्छन्न् उच्छेद्यः
विश्वास-प्रस्तुतिः - 32
32 आयुक्तो वा सरूप्यसुवर्णः तेन एव जीयेत
मूलम् - 32
32 आयुक्तो वा सरूप्यसुवर्णः तेन एव जीयेत
विश्वास-प्रस्तुतिः - 33
33 विचितवस्त्रहस्तगुह्याः काञ्चनपृषतत्वष्टृतपनीयकारवो ध्मायकचरकपांसुधावकाः प्रविशेयुर्निष्कसेयुश्च
मूलम् - 33
33 विचितवस्त्रहस्तगुह्याः काञ्चनपृषतत्वष्टृतपनीयकारवो ध्मायकचरकपांसुधावकाः प्रविशेयुर्निष्कसेयुश्च
विश्वास-प्रस्तुतिः - 34
34 सर्वं च एषां उपकरणं अनिष्ठिताश्च प्रयोगाः तत्र एवावतिष्ठेरन्
मूलम् - 34
34 सर्वं च एषां उपकरणं अनिष्ठिताश्च प्रयोगाः तत्र एवावतिष्ठेरन्
विश्वास-प्रस्तुतिः - 35
35 गृहीतं सुवर्णं धृतं च प्रयोगं करणमध्ये दद्यात्
मूलम् - 35
35 गृहीतं सुवर्णं धृतं च प्रयोगं करणमध्ये दद्यात्
विश्वास-प्रस्तुतिः - 36
36 सायं प्रातश्च लक्षितं कर्तृकारयितृमुद्राभ्यां निदध्यात्
मूलम् - 36
36 सायं प्रातश्च लक्षितं कर्तृकारयितृमुद्राभ्यां निदध्यात्
विश्वास-प्रस्तुतिः - 37
37 क्षेपणो गुणः क्षुद्रकं इति कर्माणि
मूलम् - 37
37 क्षेपणो गुणः क्षुद्रकं इति कर्माणि
विश्वास-प्रस्तुतिः - 38
38 क्षेपणः काचार्पणादीनि
मूलम् - 38
38 क्षेपणः काचार्पणादीनि
विश्वास-प्रस्तुतिः - 39
39 गुणः सूत्रवानादीनि
मूलम् - 39
39 गुणः सूत्रवानादीनि
विश्वास-प्रस्तुतिः - 40
40 घनं सुषिरं पृषतादियुक्तं क्षुद्रकं इति
मूलम् - 40
40 घनं सुषिरं पृषतादियुक्तं क्षुद्रकं इति
विश्वास-प्रस्तुतिः - 41
41 अर्पयेत् काचकर्मणः पञ्चभागं काञ्चनं दशभागं कटुमानम्
मूलम् - 41
41 अर्पयेत् काचकर्मणः पञ्चभागं काञ्चनं दशभागं कटुमानम्
विश्वास-प्रस्तुतिः - 42
42 ताम्रपादयुक्तं रूप्यं रूप्यपादयुक्तं वा सुवर्णं संस्कृतकं, तस्माद् रक्षेत्
मूलम् - 42
42 ताम्रपादयुक्तं रूप्यं रूप्यपादयुक्तं वा सुवर्णं संस्कृतकं, तस्माद् रक्षेत्
विश्वास-प्रस्तुतिः - 43
43 पृषतकाचकर्मणः त्रयो हि भागाः परिभाण्डं द्वौ वास्तुकं, चत्वारो वा वास्तुकं त्रयः परिभाण्डम्
मूलम् - 43
43 पृषतकाचकर्मणः त्रयो हि भागाः परिभाण्डं द्वौ वास्तुकं, चत्वारो वा वास्तुकं त्रयः परिभाण्डम्
विश्वास-प्रस्तुतिः - 44
44 त्वष्टृकर्मणः शुल्बभाण्डं समसुवर्णेन सम्यूहयेत्
मूलम् - 44
44 त्वष्टृकर्मणः शुल्बभाण्डं समसुवर्णेन सम्यूहयेत्
विश्वास-प्रस्तुतिः - 45
45 रूप्यभाण्डं घनं सुषिरं वा सुवर्णार्धेनावलेपयेत्
मूलम् - 45
45 रूप्यभाण्डं घनं सुषिरं वा सुवर्णार्धेनावलेपयेत्
विश्वास-प्रस्तुतिः - 46
46 चतुर्भागसुवर्णं वा वालुकाहिङ्गुलुकस्य रसेन चूर्णेन वा वासयेत् ।
मूलम् - 46
46 चतुर्भागसुवर्णं वा वालुकाहिङ्गुलुकस्य रसेन चूर्णेन वा वासयेत् ।
विश्वास-प्रस्तुतिः - 47
47 तपनीयं ज्येष्ठं सुवर्णं सुरागं समसीसातिक्रान्तं पाकपत्त्रपक्वं सैन्धविकया उज्ज्वालितं नीलपीतश्वेतहरितशुकपत्त्रवर्णानां प्रकृतिर्भवति
मूलम् - 47

विश्वास-प्रस्तुतिः - 48
48 तीक्ष्णं चास्य मयूरग्रीवाभं श्वेतभङ्गं चिमिचिमायितं पीतचूर्णितं काकणिकः सुवर्णरागः
मूलम् - 48
48 तीक्ष्णं चास्य मयूरग्रीवाभं श्वेतभङ्गं चिमिचिमायितं पीतचूर्णितं काकणिकः सुवर्णरागः
विश्वास-प्रस्तुतिः - 49
49 तारं उपशुद्धं वा - अस्थितुत्थे चतुः समसीसे चतुः शुष्कतुत्थे चतुः कपाले त्रिर्गोमये द्विरेवं सप्तदशतुत्थातिक्रान्तं सैन्धविकया उज्ज्वालितम्
मूलम् - 49

विश्वास-प्रस्तुतिः - 50
50 एतस्मात् काकण्य्।उत्तरमाद् विमाषाद् इति सुवर्णे देयं, पश्चाद् रागयोगः, श्वेततारं भवति ।
मूलम् - 50
50 एतस्मात् काकण्य्।उत्तरमाद् विमाषाद् इति सुवर्णे देयं, पश्चाद् रागयोगः, श्वेततारं भवति ।
विश्वास-प्रस्तुतिः - 51
51 त्रयोऽंशाः तपनीयस्य द्वात्रिंशद्भागश्वेततारं ऊर्च्छिताः तत् श्वेतलोहितकं भवति
मूलम् - 51
51 त्रयोऽंशाः तपनीयस्य द्वात्रिंशद्भागश्वेततारं ऊर्च्छिताः तत् श्वेतलोहितकं भवति
विश्वास-प्रस्तुतिः - 52
52 ताम्रं पीतकं करोति
मूलम् - 52
52 ताम्रं पीतकं करोति
विश्वास-प्रस्तुतिः - 53
53 तपनीयं उज्ज्वाल्य रागत्रिभागं दद्यात्, पीतरागं भवति
मूलम् - 53
53 तपनीयं उज्ज्वाल्य रागत्रिभागं दद्यात्, पीतरागं भवति
विश्वास-प्रस्तुतिः - 54
54 श्वेततारभागौ द्वावेकः तपनीयस्य मुद्गवर्णं करोति
मूलम् - 54
54 श्वेततारभागौ द्वावेकः तपनीयस्य मुद्गवर्णं करोति
विश्वास-प्रस्तुतिः - 55
55 कालायसस्यार्धभागाभ्यक्तं कृष्णं भवति
मूलम् - 55
55 कालायसस्यार्धभागाभ्यक्तं कृष्णं भवति
विश्वास-प्रस्तुतिः - 56
56 प्रतिलेपिना रसेन द्विगुणाभ्यक्तं तपनीयं शुकपत्त्रवर्णं भवति
मूलम् - 56
56 प्रतिलेपिना रसेन द्विगुणाभ्यक्तं तपनीयं शुकपत्त्रवर्णं भवति
विश्वास-प्रस्तुतिः - 57
57 तस्यारम्भे रागविशेषेषु प्रतिवर्णिकां गृह्णीयात्
मूलम् - 57
57 तस्यारम्भे रागविशेषेषु प्रतिवर्णिकां गृह्णीयात्
विश्वास-प्रस्तुतिः - 58
58 तीक्ष्णताम्रसंस्कारं च बुध्येत
मूलम् - 58
58 तीक्ष्णताम्रसंस्कारं च बुध्येत
विश्वास-प्रस्तुतिः - 59
59 तस्माद् वज्रमणिमुक्ताप्रवालरूपाणां अपनेयिमानं च रूप्यसुवर्णभाण्डबन्धप्रमाणानि च
मूलम् - 59
59 तस्माद् वज्रमणिमुक्ताप्रवालरूपाणां अपनेयिमानं च रूप्यसुवर्णभाण्डबन्धप्रमाणानि च
विश्वास-प्रस्तुतिः - 60
60ab समरागं समद्वन्द्वं असक्तपृषतं स्थिरम् ।
60chd सुप्रमृष्टं असम्पीतं विभक्तं धारणे सुखम्
मूलम् - 60
60ab समरागं समद्वन्द्वं असक्तपृषतं स्थिरम् ।
60chd सुप्रमृष्टं असम्पीतं विभक्तं धारणे सुखम्
विश्वास-प्रस्तुतिः - 61
61ab अभिनीतं प्रभायुक्तं संस्थानं अधुरं समम् ।
61chd मनोनेत्राभिरामं च तपनीयगुणाः स्मृताः (इति)
मूलम् - 61