Starting ore mines and factories
विश्वास-प्रस्तुतिः - 01
01 आकराध्यक्षः शुल्बधातुशास्त्ररसपाकमणिरागज्ञः तज्ज्ञसखो वा तज्जातकर्मकर उपकरणसम्पन्नः किट्टमूषाङ्गारभस्मलिङ्गं वाऽऽकरं भूतपूर्वं अभुतपूर्वं वा भूमिप्रस्तररसधातुं अत्यर्थवर्णगौरवं उग्रगन्धरसं परीक्षेत
मूलम् - 01

विश्वास-प्रस्तुतिः - 02
02 पर्वतानां अभिज्ञात उद्देशानां बिलगुह उपत्यकालयनगूढखातेष्वन्तः प्रस्यन्दिनो जम्बूचूततालफलपक्वहरिद्राभेदगुड(गूड?)हरितालमनःशिलाक्षौद्रहिङ्गुलुकपुण्डरीकशुकमयूरपत्त्रवर्णाः सवर्ण उदकोषधिपर्यन्ताश्चिक्कणा विशदा भारिकाश्च रसाः काञ्चनिकाः
मूलम् - 02

विश्वास-प्रस्तुतिः - 03
03 अप्सु निष्ठ्यूताः तैलवद्विसर्पिणः षङ्कमलग्राहिणश्च ताम्ररूप्ययोः शताद् उपरि वेद्धारः
मूलम् - 03
03 अप्सु निष्ठ्यूताः तैलवद्विसर्पिणः षङ्कमलग्राहिणश्च ताम्ररूप्ययोः शताद् उपरि वेद्धारः
विश्वास-प्रस्तुतिः - 04
04 तत्प्रतिरूपकं उग्रगन्धरसं शिलाजतु विद्यात्
मूलम् - 04
04 तत्प्रतिरूपकं उग्रगन्धरसं शिलाजतु विद्यात्
विश्वास-प्रस्तुतिः - 05
05 पीतकास्ताम्रकाः ताम्रपीतका वा भूमिप्रस्तरधातवो भिन्ना नीलराजीवन्तो मुद्गमाषकृसरवर्णा वा दधिबिन्दुपिण्डचित्रा हरिद्राहरीतकीपद्मपत्त्रशैवलयकृत्प्लीहानवद्यवर्णा भिन्नाश्चुञ्चुवालुकालेखाबिन्दुस्वस्तिकवन्तः सुगुलिका अर्चिष्मन्तः ताप्यमाना न भिद्यन्ते बहुफेनधूमाश्च सुवर्णधातवः प्रतीवापार्थाः ताम्ररूप्यवेधनाः
मूलम् - 05

विश्वास-प्रस्तुतिः - 06
06 शङ्खकर्पूरस्फटिकनवनीतकपोतपारावतविमलकमयूरग्रीवावर्णाः सस्यकगोमेदकगुडमत्स्यण्डिकावर्णाः कोविदारपद्मपाटलीकलायक्षौमातसीपुष्पवर्णाः स-सीसाः साञ्जना विस्रा भिन्नाः श्वेताभाः कृष्णाः कृष्णाभाः श्वेताः सर्वे वा लेखाबिन्दुचित्रा मृदवो ध्मायमाना न स्फुटन्ति बहुफेनधूमाश्च रूप्यधातवः
मूलम् - 06

विश्वास-प्रस्तुतिः - 07
07 सर्वधातूनां गौरववृद्धौ सत्त्ववृद्धिः
मूलम् - 07
07 सर्वधातूनां गौरववृद्धौ सत्त्ववृद्धिः
विश्वास-प्रस्तुतिः - 08
08 तेषां अशुद्धा मूढगर्भा वा तीक्ष्णमूत्रक्षरभाविता राजवृक्षवटपीलुगोपित्तरोचनामहिषखरकरभमूत्रलेण्डपिण्डबद्धाः तत्प्रतीवापाः तद्ऽवलेपा वा विशुद्धाः स्रवन्ति
मूलम् - 08

विश्वास-प्रस्तुतिः - 09
09 यवमाषतिलपलाशपीलुक्षारैर्गोक्षीराजक्षीरैर्वा कदलीवज्रकन्दप्रतीवपो मार्दवकरः
मूलम् - 09
09 यवमाषतिलपलाशपीलुक्षारैर्गोक्षीराजक्षीरैर्वा कदलीवज्रकन्दप्रतीवपो मार्दवकरः
विश्वास-प्रस्तुतिः - 10
10ab मधुमधुकं अजापयः स-तैलं घृतगुडकिण्वयुतं स-कन्दलीकम् ।
10chd यद् अपि शतसहस्रधा विभिन्नं भवति मृदु त्रिभिरेव तन्निषेकैः
मूलम् - 10

विश्वास-प्रस्तुतिः - 11
11 गोदन्तशृङ्गप्रतीवापो मृदुस्तम्भनः
मूलम् - 11
11 गोदन्तशृङ्गप्रतीवापो मृदुस्तम्भनः
विश्वास-प्रस्तुतिः - 12
12 भारिकः स्निग्धो मृदुश्च प्रस्तरधातुर्भूमिभागो वा पिङ्गलो हरितः पाटलो लोहितो वा ताम्रधातुः
मूलम् - 12
12 भारिकः स्निग्धो मृदुश्च प्रस्तरधातुर्भूमिभागो वा पिङ्गलो हरितः पाटलो लोहितो वा ताम्रधातुः
विश्वास-प्रस्तुतिः - 13
13 काकमोचकः कपोतरोचनावर्णः श्वेतराजिनद्धो वा विस्रः सीसधातुः
मूलम् - 13
13 काकमोचकः कपोतरोचनावर्णः श्वेतराजिनद्धो वा विस्रः सीसधातुः
विश्वास-प्रस्तुतिः - 14
14 ऊषरकर्बुरः पक्वलोष्ठवर्णो वा त्रपुधातुः
मूलम् - 14
14 ऊषरकर्बुरः पक्वलोष्ठवर्णो वा त्रपुधातुः
विश्वास-प्रस्तुतिः - 15
15 खरुम्बः पाण्डुरोहितः सिन्दुवारपुष्पवर्णो वा तीक्ष्णधातुः
मूलम् - 15
15 खरुम्बः पाण्डुरोहितः सिन्दुवारपुष्पवर्णो वा तीक्ष्णधातुः
विश्वास-प्रस्तुतिः - 16
16 काकाण्डभुजपत्त्रवर्णो वा वैकृन्तकधातुः
मूलम् - 16
16 काकाण्डभुजपत्त्रवर्णो वा वैकृन्तकधातुः
विश्वास-प्रस्तुतिः - 17
17 अच्छः स्निग्धः स-प्रभो घोषवान् शीतः तीव्रः तनुरागश्च मणिधातुः
मूलम् - 17
17 अच्छः स्निग्धः स-प्रभो घोषवान् शीतः तीव्रः तनुरागश्च मणिधातुः
विश्वास-प्रस्तुतिः - 18
18 धातुसमुत्थं तज्जातकर्मान्तेषु प्रयोजयेत्
मूलम् - 18
18 धातुसमुत्थं तज्जातकर्मान्तेषु प्रयोजयेत्
विश्वास-प्रस्तुतिः - 19
19 कृतभाण्डव्यवहारं एकमुखं, अत्ययं चान्यत्र कर्तृक्रेतृविक्रेतॄणां स्थापयेत्
मूलम् - 19
19 कृतभाण्डव्यवहारं एकमुखं, अत्ययं चान्यत्र कर्तृक्रेतृविक्रेतॄणां स्थापयेत्
विश्वास-प्रस्तुतिः - 20
20 आकरिकं अपहरन्तं अष्टगुणं दापयेद् अन्यत्र रत्नेभ्यः
मूलम् - 20
20 आकरिकं अपहरन्तं अष्टगुणं दापयेद् अन्यत्र रत्नेभ्यः
विश्वास-प्रस्तुतिः - 21
21 स्तेनं अनिसृष्ट उपजीविनं च बद्धं कर्म कारयेत्, दण्ड उपकारिणं च
मूलम् - 21
21 स्तेनं अनिसृष्ट उपजीविनं च बद्धं कर्म कारयेत्, दण्ड उपकारिणं च
विश्वास-प्रस्तुतिः - 22
22 व्ययक्रियाभारिकं आकरं भागेन प्रक्रयेण वा दद्यात्, लाघविकं आत्मना कारयेत्
मूलम् - 22
22 व्ययक्रियाभारिकं आकरं भागेन प्रक्रयेण वा दद्यात्, लाघविकं आत्मना कारयेत्
विश्वास-प्रस्तुतिः - 23
23 लोहाध्यक्षः ताम्रसीसत्रपुवैकृन्तकारकूटवृत्तकंसताललोहकर्मान्तान् कारयेत्, लोहभाण्डव्यवहारं च
मूलम् - 23
23 लोहाध्यक्षः ताम्रसीसत्रपुवैकृन्तकारकूटवृत्तकंसताललोहकर्मान्तान् कारयेत्, लोहभाण्डव्यवहारं च
विश्वास-प्रस्तुतिः - 24
24 लक्षणाध्यक्षश्चतुर्भागताम्रं रूप्यरूपं तीक्ष्णत्रपुसीसाञ्जनानां अन्यतममाषबीजयुक्तं कारयेत् - पणं अर्धपणं पादं, अष्टभागं इति, पादाजीवं ताम्ररूपं - माषकं अर्धमाषकं काकणीं अर्धकाकणीं इति
मूलम् - 24

विश्वास-प्रस्तुतिः - 25
25 रूपदर्शकः पणयात्रां व्यावहारिकीं कोशप्रवेश्यां च स्थापयेत्
मूलम् - 25
25 रूपदर्शकः पणयात्रां व्यावहारिकीं कोशप्रवेश्यां च स्थापयेत्
विश्वास-प्रस्तुतिः - 26
26 रूपिकं अष्टकं शतं, पञ्चकं शतं व्याजीं, पारीक्षिकं अष्टभागिकं, शतं, पञ्चविंशतिपणं अत्ययं च अन्यत्रकर्तृक्रेतृविक्रेतृपरीक्षितृभ्यः
मूलम् - 26

विश्वास-प्रस्तुतिः - 27
27 खन्य्ऽध्यक्षः शङ्खवज्रमणिमुक्ताप्रवालक्षारकर्मान्तान् कारयेत्, पणनव्यवहारं च
मूलम् - 27
27 खन्य्ऽध्यक्षः शङ्खवज्रमणिमुक्ताप्रवालक्षारकर्मान्तान् कारयेत्, पणनव्यवहारं च
विश्वास-प्रस्तुतिः - 28
28 लवणाध्यक्षः पाकमुक्तं लवणभागं प्रक्रयं च यथाकालं सङ्गृह्णीयाद्, विक्रयाच्च मूल्यं रूपं व्याजीं च
मूलम् - 28
28 लवणाध्यक्षः पाकमुक्तं लवणभागं प्रक्रयं च यथाकालं सङ्गृह्णीयाद्, विक्रयाच्च मूल्यं रूपं व्याजीं च
विश्वास-प्रस्तुतिः - 29
29 आगन्तुलवणं षड्भागं दद्यात्
मूलम् - 29
29 आगन्तुलवणं षड्भागं दद्यात्
विश्वास-प्रस्तुतिः - 30
30 दत्तभागविभागस्य विक्रयः, पञ्चकं शतं व्याजीं रूपं रूपिकं च
मूलम् - 30
30 दत्तभागविभागस्य विक्रयः, पञ्चकं शतं व्याजीं रूपं रूपिकं च
विश्वास-प्रस्तुतिः - 31
31 क्रेता शुल्कं राजपण्यच्छेदानुरूपं च वैधरणं दद्यात्, अन्यत्र क्रेता षट्छतं अत्ययं च
मूलम् - 31
31 क्रेता शुल्कं राजपण्यच्छेदानुरूपं च वैधरणं दद्यात्, अन्यत्र क्रेता षट्छतं अत्ययं च
विश्वास-प्रस्तुतिः - 32
32 विलवणं उत्तमं दण्डं दद्याद्, अनिषृष्ट उपजीवी चान्यत्र वानप्रस्थेभ्यः
मूलम् - 32
32 विलवणं उत्तमं दण्डं दद्याद्, अनिषृष्ट उपजीवी चान्यत्र वानप्रस्थेभ्यः
विश्वास-प्रस्तुतिः - 33
33 श्रोत्रियाः तपस्विनो विष्टयश्च भक्तलवणं हरेयुः
मूलम् - 33
33 श्रोत्रियाः तपस्विनो विष्टयश्च भक्तलवणं हरेयुः
विश्वास-प्रस्तुतिः - 34
34 अतोऽन्यो लवणक्षारवर्गः शुल्कं दद्यात्
मूलम् - 34
34 अतोऽन्यो लवणक्षारवर्गः शुल्कं दद्यात्
विश्वास-प्रस्तुतिः - 35
35ab एवं मूल्यं च भागं च व्याजीं परिघं अत्ययम् ।
35chd शुल्कं वैधरणं दण्डं रूपं रूपिकं एव च
मूलम् - 35
35ab एवं मूल्यं च भागं च व्याजीं परिघं अत्ययम् ।
35chd शुल्कं वैधरणं दण्डं रूपं रूपिकं एव च
विश्वास-प्रस्तुतिः - 36
36ab खनिभ्यो द्वादशविधं धातुं पण्यं च संहरेत् ।
36chd एवं सर्वेषु पण्येषु स्थापयेन् मुखसङ्ग्रहम्
मूलम् - 36
36ab खनिभ्यो द्वादशविधं धातुं पण्यं च संहरेत् ।
36chd एवं सर्वेषु पण्येषु स्थापयेन् मुखसङ्ग्रहम्
विश्वास-प्रस्तुतिः - 37
37ab आकरप्रभः कोशः कोशाद् दण्डः प्रजायते ।
37chd पृथिवी कोशदण्डाभ्यां प्राप्यते कोशभूषणा (इति)
मूलम् - 37