Examination of the precious articles to be received into the treasury
विश्वास-प्रस्तुतिः - 01
01 कोशाध्यक्षः कोशप्रवेश्यं रत्नं सारं फल्गुं कुप्यं वा तज्जातकरणाधिष्ठितः प्रतिगृह्णीयात्
मूलम् - 01
01 कोशाध्यक्षः कोशप्रवेश्यं रत्नं सारं फल्गुं कुप्यं वा तज्जातकरणाधिष्ठितः प्रतिगृह्णीयात्
विश्वास-प्रस्तुतिः - 02
02 ताम्रपर्णिकं पाण्ड्यकवाटकं पाशिक्यं कौलेयं चौर्णेयं माहेन्द्रं कार्दमिकं स्रौतसीयं ह्रादीयं हैमवतं च मौक्तिकम्
मूलम् - 02
02 ताम्रपर्णिकं पाण्ड्यकवाटकं पाशिक्यं कौलेयं चौर्णेयं माहेन्द्रं कार्दमिकं स्रौतसीयं ह्रादीयं हैमवतं च मौक्तिकम्
विश्वास-प्रस्तुतिः - 03
03 शुक्तिः शङ्खः प्रकीर्णकं च योनयः
मूलम् - 03
03 शुक्तिः शङ्खः प्रकीर्णकं च योनयः
विश्वास-प्रस्तुतिः - 04
04 मसूरकं त्रिपुटकं कूर्मकं अर्धचन्द्रकं कञ्चुकितं यमकं कर्तकं खरकं सिक्तकं कामण्डलुकं श्यावं नीलं दुर्विद्धं चाप्रशस्तम्
मूलम् - 04
04 मसूरकं त्रिपुटकं कूर्मकं अर्धचन्द्रकं कञ्चुकितं यमकं कर्तकं खरकं सिक्तकं कामण्डलुकं श्यावं नीलं दुर्विद्धं चाप्रशस्तम्
विश्वास-प्रस्तुतिः - 05
05 स्थूलं वृत्तं निस्तलं भ्राजिष्णु श्वेतं गुरु स्निग्धं देशविद्धं च प्रशस्तम्
मूलम् - 05
05 स्थूलं वृत्तं निस्तलं भ्राजिष्णु श्वेतं गुरु स्निग्धं देशविद्धं च प्रशस्तम्
विश्वास-प्रस्तुतिः - 06
06 शीर्षकं उपशीर्षकं प्रकाण्डकं अवघाटकं तरलप्रतिबद्धं च इति यष्टिप्रभेदाः
मूलम् - 06
06 शीर्षकं उपशीर्षकं प्रकाण्डकं अवघाटकं तरलप्रतिबद्धं च इति यष्टिप्रभेदाः
विश्वास-प्रस्तुतिः - 07
07 यष्टीनां अष्टसहस्रं इन्द्रच्छन्दः
मूलम् - 07
07 यष्टीनां अष्टसहस्रं इन्द्रच्छन्दः
विश्वास-प्रस्तुतिः - 08
08 ततोऽर्धं विजयच्छन्दः
मूलम् - 08
08 ततोऽर्धं विजयच्छन्दः
विश्वास-प्रस्तुतिः - 09
09 चतुष्षष्टिरर्धहारः
मूलम् - 09
09 चतुष्षष्टिरर्धहारः
विश्वास-प्रस्तुतिः - 10
10 चतुष्पञ्चाशद् रश्मिकलापः
मूलम् - 10
10 चतुष्पञ्चाशद् रश्मिकलापः
विश्वास-प्रस्तुतिः - 11
11 द्वात्रिंशद् गुच्छः
मूलम् - 11
11 द्वात्रिंशद् गुच्छः
विश्वास-प्रस्तुतिः - 12
12 सप्तविंशतिर्नक्षत्रमाला
मूलम् - 12
12 सप्तविंशतिर्नक्षत्रमाला
विश्वास-प्रस्तुतिः - 13
13 चतुर्विंशतिरर्धगुच्छः
मूलम् - 13
13 चतुर्विंशतिरर्धगुच्छः
विश्वास-प्रस्तुतिः - 14
14 विंशतिर्माणवकः
मूलम् - 14
14 विंशतिर्माणवकः
विश्वास-प्रस्तुतिः - 15
15 ततोऽर्धं अर्धमाणवकः
मूलम् - 15
15 ततोऽर्धं अर्धमाणवकः
विश्वास-प्रस्तुतिः - 16
16 एत एव मणिमध्याः तन्माणवका भवन्ति
मूलम् - 16
16 एत एव मणिमध्याः तन्माणवका भवन्ति
विश्वास-प्रस्तुतिः - 17
17 एकशीर्षकः शुद्धो हारः
मूलम् - 17
17 एकशीर्षकः शुद्धो हारः
विश्वास-प्रस्तुतिः - 18
18 तद्वत्शेषाः
मूलम् - 18
18 तद्वत्शेषाः
विश्वास-प्रस्तुतिः - 19
19 मणिमध्योऽर्धमाणवकः
मूलम् - 19
19 मणिमध्योऽर्धमाणवकः
विश्वास-प्रस्तुतिः - 20
20 त्रिफलकः फलकहारः, पञ्चफलको वा
मूलम् - 20
20 त्रिफलकः फलकहारः, पञ्चफलको वा
विश्वास-प्रस्तुतिः - 21
21 सूत्रं एकावली शुद्धा
मूलम् - 21
21 सूत्रं एकावली शुद्धा
विश्वास-प्रस्तुतिः - 22
22 सा एव मणिमध्या यष्टिः
मूलम् - 22
22 सा एव मणिमध्या यष्टिः
विश्वास-प्रस्तुतिः - 23
23 हेममणिचित्रा रत्नावली
मूलम् - 23
23 हेममणिचित्रा रत्नावली
विश्वास-प्रस्तुतिः - 24
24 हेममणिमुक्ताऽन्तरोऽपवर्तकः
मूलम् - 24
24 हेममणिमुक्ताऽन्तरोऽपवर्तकः
विश्वास-प्रस्तुतिः - 25
25 सुवर्णसूत्रान्तरं सोपानकम्
मूलम् - 25
25 सुवर्णसूत्रान्तरं सोपानकम्
विश्वास-प्रस्तुतिः - 26
26 मणिमध्यं वा मणिसोपानकम्
मूलम् - 26
26 मणिमध्यं वा मणिसोपानकम्
विश्वास-प्रस्तुतिः - 27
27 तेन शिरोहस्तपादकटीकलापजालकविकल्पा व्याख्याताः
मूलम् - 27
27 तेन शिरोहस्तपादकटीकलापजालकविकल्पा व्याख्याताः
विश्वास-प्रस्तुतिः - 28
28 मणिः कौटोमालेयकः पारसमुद्रकश्च
मूलम् - 28
28 मणिः कौटोमालेयकः पारसमुद्रकश्च
विश्वास-प्रस्तुतिः - 29
29 सौगन्धिकः पद्मरागोऽनवद्यरागः पारिजातपुष्पको बालसूर्यकः
मूलम् - 29
29 सौगन्धिकः पद्मरागोऽनवद्यरागः पारिजातपुष्पको बालसूर्यकः
विश्वास-प्रस्तुतिः - 30
30 वैडूर्यं उत्पलवर्णः शिरीषपुष्पक उदकवर्णो वंशरागः शुकपत्त्रवर्णः पुष्यरागो गोमूत्रको गोमेदकः
मूलम् - 30
30 वैडूर्यं उत्पलवर्णः शिरीषपुष्पक उदकवर्णो वंशरागः शुकपत्त्रवर्णः पुष्यरागो गोमूत्रको गोमेदकः
विश्वास-प्रस्तुतिः - 31
31 इन्द्रनीलो नीलावलीयः कलायपुष्पको महानीलो जम्ब्व्।आभो जीमूतप्रभो नन्दकः स्रवन्मध्यः
मूलम् - 31
31 इन्द्रनीलो नीलावलीयः कलायपुष्पको महानीलो जम्ब्व्।आभो जीमूतप्रभो नन्दकः स्रवन्मध्यः
विश्वास-प्रस्तुतिः - 32
32 शुद्धस्फटिको मूलाटवर्णः शीतवृष्टिः सूर्यकान्तश्च । इति मणयः
मूलम् - 32
32 शुद्धस्फटिको मूलाटवर्णः शीतवृष्टिः सूर्यकान्तश्च । इति मणयः
विश्वास-प्रस्तुतिः - 33
33 षड्ऽश्रश्चतुर्ऽश्रो वृत्तो वा तीव्ररागः संस्थानवान् अछः स्निग्धो गुरुरर्चिष्मान् अन्तर्गतप्रभः प्रभाऽनुलेपी च इति मणिगुणाः
मूलम् - 33
33 षड्ऽश्रश्चतुर्ऽश्रो वृत्तो वा तीव्ररागः संस्थानवान् अछः स्निग्धो गुरुरर्चिष्मान् अन्तर्गतप्रभः प्रभाऽनुलेपी च इति मणिगुणाः
विश्वास-प्रस्तुतिः - 34
34 मन्दरागप्रभः स-शर्करः पुष्पच्छिद्रः खण्डो दुर्विद्धो लेखाकीर्ण इति दोषाः
मूलम् - 34
34 मन्दरागप्रभः स-शर्करः पुष्पच्छिद्रः खण्डो दुर्विद्धो लेखाकीर्ण इति दोषाः
विश्वास-प्रस्तुतिः - 35
35 विमलकः सस्यकोऽञ्जनमूलकः पित्तकः सुलभको लोहिताक्षो मृगाश्मको ज्योतीरसको मालेयकोऽहिच्छत्रकः कूर्पः प्रतिकूर्पः सुगन्धिकूर्पः क्षीरवकः श्शुक्तिचूर्णकः शिलाप्रवालकः पुलकः शुक्लपुलक इत्यन्तरजातयः
मूलम् - 35
35 विमलकः सस्यकोऽञ्जनमूलकः पित्तकः सुलभको लोहिताक्षो मृगाश्मको ज्योतीरसको मालेयकोऽहिच्छत्रकः कूर्पः प्रतिकूर्पः सुगन्धिकूर्पः क्षीरवकः श्शुक्तिचूर्णकः शिलाप्रवालकः पुलकः शुक्लपुलक इत्यन्तरजातयः
विश्वास-प्रस्तुतिः - 36
36 शेषाः काचमणयः
मूलम् - 36
36 शेषाः काचमणयः
विश्वास-प्रस्तुतिः - 37
37 सभाराष्ट्रकं तज्जमाराष्ट्रकं कास्तीरराष्ट्रकं श्रीकटनकं मणिमन्तकं इन्द्रवानकं च वज्रम्
मूलम् - 37
37 सभाराष्ट्रकं तज्जमाराष्ट्रकं कास्तीरराष्ट्रकं श्रीकटनकं मणिमन्तकं इन्द्रवानकं च वज्रम्
विश्वास-प्रस्तुतिः - 38
38 खनिः स्रोतः प्रकीर्णकं च योनयः
मूलम् - 38
38 खनिः स्रोतः प्रकीर्णकं च योनयः
विश्वास-प्रस्तुतिः - 39
39 मार्जाराक्षकं शिरीषपुष्पकं गोमूत्रकं गोमेदकं शुद्धस्फटिकं मूलाटीवर्णं मणिवर्णानां अन्यतमवर्णं इति वज्रवर्णाः
मूलम् - 39
39 मार्जाराक्षकं शिरीषपुष्पकं गोमूत्रकं गोमेदकं शुद्धस्फटिकं मूलाटीवर्णं मणिवर्णानां अन्यतमवर्णं इति वज्रवर्णाः
विश्वास-प्रस्तुतिः - 40
40 स्थूलं गुरु प्रहारसहं समकोटिकं भाजनलेखि तर्कुभ्रामि भ्राजिष्णु च प्रशस्तम्
मूलम् - 40
40 स्थूलं गुरु प्रहारसहं समकोटिकं भाजनलेखि तर्कुभ्रामि भ्राजिष्णु च प्रशस्तम्
विश्वास-प्रस्तुतिः - 41
41 नष्टकोणं निराश्रि पार्श्वापवृत्तं चाप्रशस्तम्
मूलम् - 41
41 नष्टकोणं निराश्रि पार्श्वापवृत्तं चाप्रशस्तम्
विश्वास-प्रस्तुतिः - 42
42 प्रवालकं आलकन्दकं वैवर्णिकं च, रक्तं पद्मरागं च करटगर्भिणिकावर्जं इति
मूलम् - 42
42 प्रवालकं आलकन्दकं वैवर्णिकं च, रक्तं पद्मरागं च करटगर्भिणिकावर्जं इति
विश्वास-प्रस्तुतिः - 43
43 चन्दनं सातनं रक्तं भूमिगन्धि
मूलम् - 43
43 चन्दनं सातनं रक्तं भूमिगन्धि
विश्वास-प्रस्तुतिः - 44
44 गोशीर्षकं कालताम्रं मत्स्यगन्धि
मूलम् - 44
44 गोशीर्षकं कालताम्रं मत्स्यगन्धि
विश्वास-प्रस्तुतिः - 45
45 हरिचन्दनं शुकपत्त्रवर्णं आम्रगन्धि, तार्णसं च
मूलम् - 45
45 हरिचन्दनं शुकपत्त्रवर्णं आम्रगन्धि, तार्णसं च
विश्वास-प्रस्तुतिः - 46
46 ग्रामेरुकं रक्तं रक्तकालं वा बस्तमूत्रगन्धि
मूलम् - 46
46 ग्रामेरुकं रक्तं रक्तकालं वा बस्तमूत्रगन्धि
विश्वास-प्रस्तुतिः - 47
47 दैवसभेयं रक्तं पद्मगन्धि, जापकं च
मूलम् - 47
47 दैवसभेयं रक्तं पद्मगन्धि, जापकं च
विश्वास-प्रस्तुतिः - 48
48 जोङ्गकं रक्तं रक्तकालं वा स्निग्धं, तौरूपं च
मूलम् - 48
48 जोङ्गकं रक्तं रक्तकालं वा स्निग्धं, तौरूपं च
विश्वास-प्रस्तुतिः - 49
49 मालेयकं पाण्डुरक्तम्
मूलम् - 49
49 मालेयकं पाण्डुरक्तम्
विश्वास-प्रस्तुतिः - 50
50 कुचन्दनं रूक्षं अगुरुकालं रक्तं रक्तकालं वा
मूलम् - 50
50 कुचन्दनं रूक्षं अगुरुकालं रक्तं रक्तकालं वा
विश्वास-प्रस्तुतिः - 51
51 कालपर्वतकं रक्तकालं अनवद्यवर्णं वा
मूलम् - 51
51 कालपर्वतकं रक्तकालं अनवद्यवर्णं वा
विश्वास-प्रस्तुतिः - 52
52 कोशागारपर्वतकं कालं कालचित्रं वा
मूलम् - 52
52 कोशागारपर्वतकं कालं कालचित्रं वा
विश्वास-प्रस्तुतिः - 53
53 शीत उदकीयं पद्माभं कालस्निग्धं वा
मूलम् - 53
53 शीत उदकीयं पद्माभं कालस्निग्धं वा
विश्वास-प्रस्तुतिः - 54
54 नागपर्वतकं रूक्षं शैवलवर्णं वा
मूलम् - 54
54 नागपर्वतकं रूक्षं शैवलवर्णं वा
विश्वास-प्रस्तुतिः - 55
55 शाकलं कपिलम् । इति
मूलम् - 55
55 शाकलं कपिलम् । इति
विश्वास-प्रस्तुतिः - 56
56 लघु स्निग्धं अश्यानं सर्पिःस्नेहलेपि गन्धसुखं त्वग्ऽनुसार्यनुल्बणं अविराग्युष्णसहं दाहग्राहि सुखस्पर्शनं इति चन्दनगुणाः
मूलम् - 56
56 लघु स्निग्धं अश्यानं सर्पिःस्नेहलेपि गन्धसुखं त्वग्ऽनुसार्यनुल्बणं अविराग्युष्णसहं दाहग्राहि सुखस्पर्शनं इति चन्दनगुणाः
विश्वास-प्रस्तुतिः - 57
57 अगुरु जोङ्गकं कालं कालचित्रं मण्डलचित्रं वा
मूलम् - 57
57 अगुरु जोङ्गकं कालं कालचित्रं मण्डलचित्रं वा
विश्वास-प्रस्तुतिः - 58
58 श्यामं दोङ्गकम्
मूलम् - 58
58 श्यामं दोङ्गकम्
विश्वास-प्रस्तुतिः - 59
59 पारसमुद्रकं चित्ररूपं उशीरगन्धि नवमालिकागन्धि वा । इति
मूलम् - 59
59 पारसमुद्रकं चित्ररूपं उशीरगन्धि नवमालिकागन्धि वा । इति
विश्वास-प्रस्तुतिः - 60
60 गुरु स्निग्धं पेशलगन्धि निर्हार्यग्निसहं असम्प्लुतधूमं विमर्दसहं इत्यगुरुगुणाः
मूलम् - 60
60 गुरु स्निग्धं पेशलगन्धि निर्हार्यग्निसहं असम्प्लुतधूमं विमर्दसहं इत्यगुरुगुणाः
विश्वास-प्रस्तुतिः - 61
61 तैलपर्णिकं अशोकग्रामिकं मांसवर्णं पद्मगन्धि
मूलम् - 61
61 तैलपर्णिकं अशोकग्रामिकं मांसवर्णं पद्मगन्धि
विश्वास-प्रस्तुतिः - 62
62 जोङ्गकं रक्तपीतकं उत्पलगन्धि गोमूत्रगन्धि वा
मूलम् - 62
62 जोङ्गकं रक्तपीतकं उत्पलगन्धि गोमूत्रगन्धि वा
विश्वास-प्रस्तुतिः - 63
63 ग्रामेरुकं स्निग्धं गोमूत्रगन्धि
मूलम् - 63
63 ग्रामेरुकं स्निग्धं गोमूत्रगन्धि
विश्वास-प्रस्तुतिः - 64
64 सौवर्णकुड्यकं रक्तपीतं मातुलुङ्गगन्धि
मूलम् - 64
64 सौवर्णकुड्यकं रक्तपीतं मातुलुङ्गगन्धि
विश्वास-प्रस्तुतिः - 65
65 पूर्णकद्वीपकं पद्मगन्धि नवनीतगन्धि वा
मूलम् - 65
65 पूर्णकद्वीपकं पद्मगन्धि नवनीतगन्धि वा
विश्वास-प्रस्तुतिः - 66
66 भद्रश्रियं पारलौहित्यकं जातीवर्णम्
मूलम् - 66
66 भद्रश्रियं पारलौहित्यकं जातीवर्णम्
विश्वास-प्रस्तुतिः - 67
67 आन्तरवत्यं उशीरवर्णम्
मूलम् - 67
67 आन्तरवत्यं उशीरवर्णम्
विश्वास-प्रस्तुतिः - 68
68 उभयं कुष्ठगन्धि च । इति
मूलम् - 68
68 उभयं कुष्ठगन्धि च । इति
विश्वास-प्रस्तुतिः - 69
69 कालेयकः स्वर्णभूमिजः स्निग्धपीतकः
मूलम् - 69
69 कालेयकः स्वर्णभूमिजः स्निग्धपीतकः
विश्वास-प्रस्तुतिः - 70
70 औत्तरपर्वतको रक्तपीतकः इति साराः ।
मूलम् - 70
70 औत्तरपर्वतको रक्तपीतकः इति साराः ।
विश्वास-प्रस्तुतिः - 71
71 पिण्डक्वाथधूमसहं अविरागि योगानुविधायि च
मूलम् - 71
71 पिण्डक्वाथधूमसहं अविरागि योगानुविधायि च
विश्वास-प्रस्तुतिः - 72
72 चन्दनागुरुवच्च तेषां गुणाः
मूलम् - 72
72 चन्दनागुरुवच्च तेषां गुणाः
विश्वास-प्रस्तुतिः - 73
73 कान्तनावकं प्रैयकं च उत्तरपर्वतकं चर्म
मूलम् - 73
73 कान्तनावकं प्रैयकं च उत्तरपर्वतकं चर्म
विश्वास-प्रस्तुतिः - 74
74 कान्तनावकं मयूरग्रीवाभम्
मूलम् - 74
74 कान्तनावकं मयूरग्रीवाभम्
विश्वास-प्रस्तुतिः - 75
75 प्रैयकं नीलपीतश्वेतलेखाबिन्दुचित्रम्
मूलम् - 75
75 प्रैयकं नीलपीतश्वेतलेखाबिन्दुचित्रम्
विश्वास-प्रस्तुतिः - 76
76 तद्।उभयं अष्टाङ्गुलायामम्
मूलम् - 76
76 तद्।उभयं अष्टाङ्गुलायामम्
विश्वास-प्रस्तुतिः - 77
77 बिसी महाबिसी च द्वादशग्रामीये
मूलम् - 77
77 बिसी महाबिसी च द्वादशग्रामीये
विश्वास-प्रस्तुतिः - 78
78 अव्यक्तरूपा दुहिलितिका चित्रा वा बिसी
मूलम् - 78
78 अव्यक्तरूपा दुहिलितिका चित्रा वा बिसी
विश्वास-प्रस्तुतिः - 79
79 परुषा श्वेतप्राया महाबिसी
मूलम् - 79
79 परुषा श्वेतप्राया महाबिसी
विश्वास-प्रस्तुतिः - 80
80 द्वादशाङ्गुलायामं उभयम्
मूलम् - 80
80 द्वादशाङ्गुलायामं उभयम्
विश्वास-प्रस्तुतिः - 81
81 श्यामिका कालिका कदली चन्द्र उत्तरा शाकुला चारोहजाः
मूलम् - 81
81 श्यामिका कालिका कदली चन्द्र उत्तरा शाकुला चारोहजाः
विश्वास-प्रस्तुतिः - 82
82 कपिला बिन्दुचित्रा वा श्यामिका
मूलम् - 82
82 कपिला बिन्दुचित्रा वा श्यामिका
विश्वास-प्रस्तुतिः - 83
83 कालिका कपिला कपोतवर्णा वा
मूलम् - 83
83 कालिका कपिला कपोतवर्णा वा
विश्वास-प्रस्तुतिः - 84
84 तद् उभयं अष्टाङ्गुलायामम्
मूलम् - 84
84 तद् उभयं अष्टाङ्गुलायामम्
विश्वास-प्रस्तुतिः - 85
85 परुषा कदली हस्तायता
मूलम् - 85
85 परुषा कदली हस्तायता
विश्वास-प्रस्तुतिः - 86
86 सा एव चन्द्रचित्रा चन्द्र उत्तरा
मूलम् - 86
86 सा एव चन्द्रचित्रा चन्द्र उत्तरा
विश्वास-प्रस्तुतिः - 87
87 कदलीत्रिभागा शाकुला कोठमण्डलचित्रा कृतकर्णिकाऽजिनचित्रा वा । इति
मूलम् - 87
87 कदलीत्रिभागा शाकुला कोठमण्डलचित्रा कृतकर्णिकाऽजिनचित्रा वा । इति
विश्वास-प्रस्तुतिः - 88
88 सामूरं चीनसी सामूली च बाह्लवेयाः
मूलम् - 88
88 सामूरं चीनसी सामूली च बाह्लवेयाः
विश्वास-प्रस्तुतिः - 89
89 षट्त्रिंशद्ऽङ्गुलं अञ्जनवर्णं सामूरम्
मूलम् - 89
89 षट्त्रिंशद्ऽङ्गुलं अञ्जनवर्णं सामूरम्
विश्वास-प्रस्तुतिः - 90
90 चीनसी रक्तकाली पाण्डुकाली वा
मूलम् - 90
90 चीनसी रक्तकाली पाण्डुकाली वा
विश्वास-प्रस्तुतिः - 91
91 सामूली गोधूमवर्णा । इति
मूलम् - 91
91 सामूली गोधूमवर्णा । इति
विश्वास-प्रस्तुतिः - 92
92 सान्तिना नलतूला वृत्तपृच्छा चौद्राः
मूलम् - 92
92 सान्तिना नलतूला वृत्तपृच्छा चौद्राः
विश्वास-प्रस्तुतिः - 93
93 सातिना कृष्णा
मूलम् - 93
93 सातिना कृष्णा
विश्वास-प्रस्तुतिः - 94
94 नलतूला नलतूलवर्णा
मूलम् - 94
94 नलतूला नलतूलवर्णा
विश्वास-प्रस्तुतिः - 95
95 कपिला वृत्तपुच्छा च इति चर्मजातयः ।
मूलम् - 95
95 कपिला वृत्तपुच्छा च इति चर्मजातयः ।
विश्वास-प्रस्तुतिः - 96
96 चर्मणां मृदु स्निग्धं बहुलरोम च श्रेष्ठम्
मूलम् - 96
96 चर्मणां मृदु स्निग्धं बहुलरोम च श्रेष्ठम्
विश्वास-प्रस्तुतिः - 97
97 शुद्धं शुद्धरक्तं पक्षरक्तं चाविकं, खचितं वानचित्रं खण्डसङ्घात्यं तन्तुविच्छिन्नं च
मूलम् - 97
97 शुद्धं शुद्धरक्तं पक्षरक्तं चाविकं, खचितं वानचित्रं खण्डसङ्घात्यं तन्तुविच्छिन्नं च
विश्वास-प्रस्तुतिः - 98
98 कम्बलः कौचपकः कुलमितिका सौमितिका तुरगास्तरणं वर्णकं तलिच्छकं वारवाणः परिस्तोमः समन्तभद्रकं चाविकम्
मूलम् - 98
98 कम्बलः कौचपकः कुलमितिका सौमितिका तुरगास्तरणं वर्णकं तलिच्छकं वारवाणः परिस्तोमः समन्तभद्रकं चाविकम्
विश्वास-प्रस्तुतिः - 99
99 पिच्छिलं आर्द्रं इव च सूक्ष्मं मृदु च श्रेष्ठम्
मूलम् - 99
99 पिच्छिलं आर्द्रं इव च सूक्ष्मं मृदु च श्रेष्ठम्
विश्वास-प्रस्तुतिः - 10
100 अष्टप्रोतिसङ्घात्या कृष्णा भिङ्गिसी वर्षवारणं अपसारक इति नैपालकम्
101 सम्पुटिका चतुर्ऽश्रिका लम्बरा कटवानकं प्रावरकः सत्तलिका इति मृगरोम
102 वाङ्गकं श्वेतं स्निग्धं दुकूलम्
103 पौण्ड्रकं श्यामं मणिस्निग्धम्
104 सौवर्णकुड्यकं सूर्यवर्णं मणिस्निग्ध उदकवानं चतुर्ऽश्रवानं व्यामिश्रवानं च
105 एतेषां एकांशुकं अध्यर्धद्वित्रिचतुर्ऽंशुकं इति
106 तेन काशिकं पौण्ड्रकं च क्षौमं व्याख्यातम्
107 मागधिका पौण्ड्रिका सौवर्णकुड्यका च पत्त्र ऊर्णा
108 नागवृक्षो लिकुचो बकुलो वटश्च योनयः
109 पीतिका नागवृक्षिका

110 गोधूमवर्णा लैकुची
111 श्वेता बाकुली
112 शेषा नवनीतवर्णा
113 तासां सौवर्णकुड्यका श्रेष्ठा
114 तया कौशेयं चीनपट्टाश्च चीनभूमिजा व्याख्याताः
115 माधुरं आपरान्तकं कालिङ्गं काशिकं वाङ्गकं वात्सकं माहिषकं च कार्पासिकं श्रेष्ठम् । इति
116 अतः परेषां रत्नानां प्रमाणं मूल्यलक्षणम् ।
117 जातिं रूपं च जानीयान्निधानं नवकर्म च
118 पुराणप्रतिसंस्कारं कर्म गुह्यं उपस्करान् ।
119 देशकालपरीभोगं हिंस्राणां च प्रतिक्रियाम् (इति)