On edicts
विश्वास-प्रस्तुतिः - 01
01 शासने शासनं इत्याचक्षते
मूलम् - 01
01 शासने शासनं इत्याचक्षते
विश्वास-प्रस्तुतिः - 02
02 शासनप्रधाना हि राजानः, तन्मूलत्वात् सन्धिविग्रहयोः
मूलम् - 02
02 शासनप्रधाना हि राजानः, तन्मूलत्वात् सन्धिविग्रहयोः
विश्वास-प्रस्तुतिः - 03
03 तस्माद् अमात्यसम्पदा उपेतः सर्वसमयविद् आशुग्रन्थश्चारुऽक्षरो लेखनवाचनसमर्थो लेखकः स्यात्
मूलम् - 03
03 तस्माद् अमात्यसम्पदा उपेतः सर्वसमयविद् आशुग्रन्थश्चारुऽक्षरो लेखनवाचनसमर्थो लेखकः स्यात्
विश्वास-प्रस्तुतिः - 04
04 सोऽव्यग्रमना राज्ञः सन्देशं श्रुत्वा निश्चितार्थं लेखं विदध्यात् देशाइश्वर्यवंशनामधेय उपचारं ईश्वरस्य, देशनामधेय उपचारं अनीश्वरस्य
मूलम् - 04

विश्वास-प्रस्तुतिः - 05
05ab जातिं कुलं स्थानवयःश्रुतानि कर्म।ऋद्धिशीलान्यथ देशकालौ ।
05chd यौनानुबन्धं च समीक्ष्य कार्ये लेखं विदध्यात् पुरुषानुरूपम्
मूलम् - 05

विश्वास-प्रस्तुतिः - 06
06 अर्थक्रमः सम्बन्धः परिपूर्णता माधुर्यं औदार्यं स्पष्टत्वं इति लेखसम्पत्
मूलम् - 06
06 अर्थक्रमः सम्बन्धः परिपूर्णता माधुर्यं औदार्यं स्पष्टत्वं इति लेखसम्पत्
विश्वास-प्रस्तुतिः - 07
07 तत्र यथावद् अनुपूर्वक्रिया प्रधानस्यार्थस्य पूर्वं अभिनिवेश इत्यर्थक्रमः
मूलम् - 07
07 तत्र यथावद् अनुपूर्वक्रिया प्रधानस्यार्थस्य पूर्वं अभिनिवेश इत्यर्थक्रमः
विश्वास-प्रस्तुतिः - 08
08 प्रस्तुतस्यार्थस्यानुपरोधाद् उत्तरस्य विधानं आसमाप्तेरिति सम्बन्धः
मूलम् - 08
08 प्रस्तुतस्यार्थस्यानुपरोधाद् उत्तरस्य विधानं आसमाप्तेरिति सम्बन्धः
विश्वास-प्रस्तुतिः - 09
09 अर्थपदाक्षराणां अन्यूनातिरिक्तता हेतु।उदाहरणदृष्टान्तैरर्थ उपवर्णनाऽश्रान्तपदता इति परिपूर्णता
मूलम् - 09
09 अर्थपदाक्षराणां अन्यूनातिरिक्तता हेतु।उदाहरणदृष्टान्तैरर्थ उपवर्णनाऽश्रान्तपदता इति परिपूर्णता
विश्वास-प्रस्तुतिः - 10
10 सुख उपनीतचारुऽर्थशब्दाभिधानं माधुर्यम्
मूलम् - 10
10 सुख उपनीतचारुऽर्थशब्दाभिधानं माधुर्यम्
विश्वास-प्रस्तुतिः - 11
11 अग्राम्यशब्दाभिधानं औदार्यम्
मूलम् - 11
11 अग्राम्यशब्दाभिधानं औदार्यम्
विश्वास-प्रस्तुतिः - 12
12 प्रतीतशब्दप्रयोगः स्पष्टत्वं इति
मूलम् - 12
12 प्रतीतशब्दप्रयोगः स्पष्टत्वं इति
विश्वास-प्रस्तुतिः - 13
13 अकारादयो वर्णाः त्रिषष्टिः
मूलम् - 13
13 अकारादयो वर्णाः त्रिषष्टिः
विश्वास-प्रस्तुतिः - 14
14 वर्णसङ्घातः पदम्
मूलम् - 14
14 वर्णसङ्घातः पदम्
विश्वास-प्रस्तुतिः - 15
15 तच्चतुर्विधं नामाख्यात उपसर्गनिपाताश्च इति
मूलम् - 15
15 तच्चतुर्विधं नामाख्यात उपसर्गनिपाताश्च इति
विश्वास-प्रस्तुतिः - 16
16 तत्र नाम सत्त्वाभिधायि
मूलम् - 16
16 तत्र नाम सत्त्वाभिधायि
विश्वास-प्रस्तुतिः - 17
17 अविशिष्टलिङ्गं आख्यातं क्रियावाचि
मूलम् - 17
17 अविशिष्टलिङ्गं आख्यातं क्रियावाचि
विश्वास-प्रस्तुतिः - 18
18 क्रियाविशेषकाः प्रादय उपसर्गाः
मूलम् - 18
18 क्रियाविशेषकाः प्रादय उपसर्गाः
विश्वास-प्रस्तुतिः - 19
19 अव्ययाश्चादयो निपाताः
मूलम् - 19
19 अव्ययाश्चादयो निपाताः
विश्वास-प्रस्तुतिः - 20
20 पदसमूहो वाक्यं अर्थपरिसमाप्तौ
मूलम् - 20
20 पदसमूहो वाक्यं अर्थपरिसमाप्तौ
विश्वास-प्रस्तुतिः - 21
21 एकपदावरः त्रिपदपरः परपदार्थानुपरोधेन वर्गः कार्यः
मूलम् - 21
21 एकपदावरः त्रिपदपरः परपदार्थानुपरोधेन वर्गः कार्यः
विश्वास-प्रस्तुतिः - 22
22 लेखपरिसंहरणार्थ इतिशब्दो वाचिकं अस्य इति च
मूलम् - 22
22 लेखपरिसंहरणार्थ इतिशब्दो वाचिकं अस्य इति च
विश्वास-प्रस्तुतिः - 23
23ab निन्दा प्रशंसा पृच्छा च तथाऽऽख्यानं अथार्थना ।
23chd प्रत्याख्यानं उपालम्भः प्रतिषेधोऽथ चोदना
मूलम् - 23
23ab निन्दा प्रशंसा पृच्छा च तथाऽऽख्यानं अथार्थना ।
23chd प्रत्याख्यानं उपालम्भः प्रतिषेधोऽथ चोदना
विश्वास-प्रस्तुतिः - 24
24ab सान्त्वं अभ्युपपत्तिश्च भर्त्सनानुनयौ तथा ।
24chd एतेष्वर्थाः प्रवर्तन्ते त्रयोदशसु लेखजाः
मूलम् - 24
24ab सान्त्वं अभ्युपपत्तिश्च भर्त्सनानुनयौ तथा ।
24chd एतेष्वर्थाः प्रवर्तन्ते त्रयोदशसु लेखजाः
विश्वास-प्रस्तुतिः - 25
25 तत्राभिजनशरीरकर्मणां दोषवचनं निन्दा
मूलम् - 25
25 तत्राभिजनशरीरकर्मणां दोषवचनं निन्दा
विश्वास-प्रस्तुतिः - 26
26 गुणवचनं एतेषां एव प्रशंसा
मूलम् - 26
26 गुणवचनं एतेषां एव प्रशंसा
विश्वास-प्रस्तुतिः - 27
27 कथं एतद् इति पृच्छा
मूलम् - 27
27 कथं एतद् इति पृच्छा
विश्वास-प्रस्तुतिः - 28
28 एवम् इत्याख्यानम्
मूलम् - 28
28 एवम् इत्याख्यानम्
विश्वास-प्रस्तुतिः - 29
29 देहि इत्यर्थना
मूलम् - 29
29 देहि इत्यर्थना
विश्वास-प्रस्तुतिः - 30
30 न प्रयच्छामि इति प्रत्याख्यानम्
मूलम् - 30
30 न प्रयच्छामि इति प्रत्याख्यानम्
विश्वास-प्रस्तुतिः - 31
31 अननुरूपं भवतः इत्युपालम्भः
मूलम् - 31
31 अननुरूपं भवतः इत्युपालम्भः
विश्वास-प्रस्तुतिः - 32
32 मा कार्षीः इति प्रतिषेधः
मूलम् - 32
32 मा कार्षीः इति प्रतिषेधः
विश्वास-प्रस्तुतिः - 33
33 इदं क्रियताम् इति चोदना
मूलम् - 33
33 इदं क्रियताम् इति चोदना
विश्वास-प्रस्तुतिः - 34
34 योऽहं स भवान्, यन् मम द्रव्यं तद् भवतः इत्युपग्रहः सान्त्वम्
मूलम् - 34
34 योऽहं स भवान्, यन् मम द्रव्यं तद् भवतः इत्युपग्रहः सान्त्वम्
विश्वास-प्रस्तुतिः - 35
35 व्यसनसाहाय्यं अभ्युपपत्तिः
मूलम् - 35
35 व्यसनसाहाय्यं अभ्युपपत्तिः
विश्वास-प्रस्तुतिः - 36
36 सदोषं आयतिप्रदर्शनं अभिभर्त्सनम्
मूलम् - 36
36 सदोषं आयतिप्रदर्शनं अभिभर्त्सनम्
विश्वास-प्रस्तुतिः - 37
37 अनुनयः त्रिविधोऽर्थकृतावतिक्रमे पुरुषादिव्यसने च इति
मूलम् - 37
37 अनुनयः त्रिविधोऽर्थकृतावतिक्रमे पुरुषादिव्यसने च इति
विश्वास-प्रस्तुतिः - 38
38ab प्रज्ञापनाज्ञापरिदानलेखाः तथा परीहारनिसृष्टिलेखौ ।
38chd प्रावृत्तिकश्च प्रतिलेख एव सर्वत्रगश्च इति हि शासनानि
मूलम् - 38

विश्वास-प्रस्तुतिः - 39
39ab अनेन विज्ञापितं एवं आह तद् दीयतां चेद् यदि तत्त्वं अस्ति ।
39chd राज्ञः समीपे वरकारं आह प्रज्ञापना एषा विविधा उपदिष्टा
मूलम् - 39

विश्वास-प्रस्तुतिः - 40
40ab भर्तुराज्ञा भवेद् यत्र निग्रहानुग्रहौ प्रति ।
40chd विशेषेण तु भृत्येषु तद्।आज्ञालेखलक्षणम्
मूलम् - 40
40ab भर्तुराज्ञा भवेद् यत्र निग्रहानुग्रहौ प्रति ।
40chd विशेषेण तु भृत्येषु तद्।आज्ञालेखलक्षणम्
विश्वास-प्रस्तुतिः - 41
41ab यथाऽर्हगुणसम्युक्ता पूजा यत्र उपलक्ष्यते ।
41chd अप्याधौ परिदाने वा भवतः तावुपग्रहौ
मूलम् - 41
41ab यथाऽर्हगुणसम्युक्ता पूजा यत्र उपलक्ष्यते ।
41chd अप्याधौ परिदाने वा भवतः तावुपग्रहौ
विश्वास-प्रस्तुतिः - 42
42ab जातेर्विशेषेषु परेषु चैव ग्रामेषु देशेषु च तेषु तेषु ।
42chd अनुग्रहो यो नृप्तेर्निदेशात् तज्ज्ञः परीहार इति व्यवस्येत्
मूलम् - 42

विश्वास-प्रस्तुतिः - 43
43ab निसृष्टिस्थाऽऽपना कार्यकरणे वचने तथा ।
43chd एष वाचिकलेखः स्याद् भवेन्नैसृष्टिकोऽपि वा
मूलम् - 43
43ab निसृष्टिस्थाऽऽपना कार्यकरणे वचने तथा ।
43chd एष वाचिकलेखः स्याद् भवेन्नैसृष्टिकोऽपि वा
विश्वास-प्रस्तुतिः - 44
44ab विविधां दैवसम्युक्तां तत्त्वजां चैव मानुषीम् ।
44chd द्विविधां तां व्यवस्यन्ति प्रवृत्तिं शासनं प्रति
मूलम् - 44

विश्वास-प्रस्तुतिः - 45
45ab दृष्ट्वा लेखं यथातत्त्वं ततः प्रत्यनुभाष्य च ।
45chd प्रतिलेखो भवेत् कार्यो यथा राजवचः तथा
मूलम् - 45
45ab दृष्ट्वा लेखं यथातत्त्वं ततः प्रत्यनुभाष्य च ।
45chd प्रतिलेखो भवेत् कार्यो यथा राजवचः तथा
विश्वास-प्रस्तुतिः - 46
46ab यत्र ईश्वरांश्चाधिकृतांश्च राजा रक्षा उपकारौ पथिकार्थं आह ।
46chd सर्वत्रगो नाम भवेत् स मार्गे देशे च सर्वत्र च वेदितव्यः
मूलम् - 46

विश्वास-प्रस्तुतिः - 47
47 उपायाः साम उपप्रदानभेददण्डाः
मूलम् - 47
47 उपायाः साम उपप्रदानभेददण्डाः
विश्वास-प्रस्तुतिः - 48
48 तत्र साम पञ्चविधं - गुणसङ्कीर्तनं, सम्बन्ध उपाख्यानं, परस्पर उपकारसन्दर्शनं, आयतिप्रदर्शनं, आत्म उपनिधानं इति
मूलम् - 48

विश्वास-प्रस्तुतिः - 49
49 तत्राभिजनशरीरकर्मप्रकृतिश्रुतद्रव्यादीनां गुणग्रहणं प्रशंसा स्तुतिर्गुणसङ्कीर्तनम्
मूलम् - 49
49 तत्राभिजनशरीरकर्मप्रकृतिश्रुतद्रव्यादीनां गुणग्रहणं प्रशंसा स्तुतिर्गुणसङ्कीर्तनम्
विश्वास-प्रस्तुतिः - 50
50 ज्ञातियौनमौखस्रौवकुलहृदयमित्रसङ्कीर्तनं सम्बन्ध उपाख्यानम्
मूलम् - 50
50 ज्ञातियौनमौखस्रौवकुलहृदयमित्रसङ्कीर्तनं सम्बन्ध उपाख्यानम्
विश्वास-प्रस्तुतिः - 51
51 स्वपक्षपरपक्षयोरन्योन्य उपकारसङ्कीर्तनं परस्पर उपकारसन्दर्शनम्
मूलम् - 51
51 स्वपक्षपरपक्षयोरन्योन्य उपकारसङ्कीर्तनं परस्पर उपकारसन्दर्शनम्
विश्वास-प्रस्तुतिः - 52
52 अस्मिन्न् एवं कृत इदं आवयोर्भवति इत्याशाजननं आयतिप्रदर्शनम्
मूलम् - 52
52 अस्मिन्न् एवं कृत इदं आवयोर्भवति इत्याशाजननं आयतिप्रदर्शनम्
विश्वास-प्रस्तुतिः - 53
53 योऽहं स भवान्, यन् मम द्रव्यं तद् भवता स्वकृत्येषु प्रयोज्यताम् इत्यात्म उपनिधानम् । इति
मूलम् - 53
53 योऽहं स भवान्, यन् मम द्रव्यं तद् भवता स्वकृत्येषु प्रयोज्यताम् इत्यात्म उपनिधानम् । इति
विश्वास-प्रस्तुतिः - 54
54 उपप्रदानं अर्थ उपकारः
मूलम् - 54
54 उपप्रदानं अर्थ उपकारः
विश्वास-प्रस्तुतिः - 55
55 शङ्काजननं निर्भर्त्सनं च भेदः
मूलम् - 55
55 शङ्काजननं निर्भर्त्सनं च भेदः
विश्वास-प्रस्तुतिः - 56
56 वधः परिक्लेशोऽर्थहरणं दण्डः । इति
मूलम् - 56
56 वधः परिक्लेशोऽर्थहरणं दण्डः । इति
विश्वास-प्रस्तुतिः - 57
57 अकान्तिर्व्याघातः पुनर्।उक्तं अपशब्दः सम्प्लव इति लेखदोषः
मूलम् - 57
57 अकान्तिर्व्याघातः पुनर्।उक्तं अपशब्दः सम्प्लव इति लेखदोषः
विश्वास-प्रस्तुतिः - 58
58 तत्र कालपत्त्रकं अचारुविषं अविरागाक्षरत्वं अकान्तिः
मूलम् - 58
58 तत्र कालपत्त्रकं अचारुविषं अविरागाक्षरत्वं अकान्तिः
विश्वास-प्रस्तुतिः - 59
59 पूर्वेण पश्चिमस्यानुपपत्तिर्व्याघातः
मूलम् - 59
59 पूर्वेण पश्चिमस्यानुपपत्तिर्व्याघातः
विश्वास-प्रस्तुतिः - 60
60 उक्तस्याविशेषेण द्वितीयं उच्चारणं पुनर्।उक्तम्
मूलम् - 60
60 उक्तस्याविशेषेण द्वितीयं उच्चारणं पुनर्।उक्तम्
विश्वास-प्रस्तुतिः - 61
61 लिङ्गवचनकालकारकाणां अन्यथाप्रयोगोऽपशब्दः
मूलम् - 61
61 लिङ्गवचनकालकारकाणां अन्यथाप्रयोगोऽपशब्दः
विश्वास-प्रस्तुतिः - 62
62 अवर्गे वर्गकरणं चावर्गक्रिया गुणविपर्यासः सम्प्लवः । इति
मूलम् - 62
62 अवर्गे वर्गकरणं चावर्गक्रिया गुणविपर्यासः सम्प्लवः । इति
विश्वास-प्रस्तुतिः - 63
63ab सर्वशास्त्राण्यनुक्रम्य प्रयोगं उपलभ्य च ।
63chd कौटिल्येन नर इन्द्रार्थे शासनस्य विधिः कृतः (इति)
मूलम् - 63