Inspection of the Rork of officers
विश्वास-प्रस्तुतिः - 01
01 अमात्यसम्पदा उपेताः सर्वाध्यक्षाः शक्तितः कर्मसु नियोज्याः
मूलम् - 01
01 अमात्यसम्पदा उपेताः सर्वाध्यक्षाः शक्तितः कर्मसु नियोज्याः
विश्वास-प्रस्तुतिः - 02
02 कर्मसु च एषां नित्यं परीक्षां कारयेत्, चित्तानित्यत्वात् मनुष्यानाम्
मूलम् - 02
02 कर्मसु च एषां नित्यं परीक्षां कारयेत्, चित्तानित्यत्वात् मनुष्यानाम्
विश्वास-प्रस्तुतिः - 03
03 अश्वसधर्माणो हि मनुष्या नियुक्ताः कर्मसु विकुर्वते
मूलम् - 03
03 अश्वसधर्माणो हि मनुष्या नियुक्ताः कर्मसु विकुर्वते
विश्वास-प्रस्तुतिः - 04
04 तस्मात् कर्तारं करणं देशं कालं कार्यं प्रक्षेपं उदयं च एषु विद्यात्
मूलम् - 04
04 तस्मात् कर्तारं करणं देशं कालं कार्यं प्रक्षेपं उदयं च एषु विद्यात्
विश्वास-प्रस्तुतिः - 05
05 ते यथासन्देशं असंहता अविगृहीताः कर्माणि कुर्युः
मूलम् - 05
05 ते यथासन्देशं असंहता अविगृहीताः कर्माणि कुर्युः
विश्वास-प्रस्तुतिः - 06
06 संहता भक्षयेयुः, विगृहीता विनाशयेयुः
मूलम् - 06
06 संहता भक्षयेयुः, विगृहीता विनाशयेयुः
विश्वास-प्रस्तुतिः - 07
07 न चानिवेद्य भर्तुः कञ्चिद् आरम्भं कुर्युः, अन्यत्रापत्प्रतीकारेभ्यः
मूलम् - 07
07 न चानिवेद्य भर्तुः कञ्चिद् आरम्भं कुर्युः, अन्यत्रापत्प्रतीकारेभ्यः
विश्वास-प्रस्तुतिः - 08
08 प्रमादस्थानेषु च एषां अत्ययं स्थापयेद् दिवसवेतनव्ययद्विगुणम्
मूलम् - 08
08 प्रमादस्थानेषु च एषां अत्ययं स्थापयेद् दिवसवेतनव्ययद्विगुणम्
विश्वास-प्रस्तुतिः - 09
09 यश्च एषां यथाऽऽदिष्टं अर्थं सविशेषं वा करोति स स्थानमानौ लभेत
मूलम् - 09
09 यश्च एषां यथाऽऽदिष्टं अर्थं सविशेषं वा करोति स स्थानमानौ लभेत
विश्वास-प्रस्तुतिः - 10
10 अल्पायतिश्चेत् महाव्ययो भक्षयति
मूलम् - 10
10 अल्पायतिश्चेत् महाव्ययो भक्षयति
विश्वास-प्रस्तुतिः - 11
11 विपर्यये यथाऽऽयतिव्ययश्च न भक्षयति इत्याचार्याः
मूलम् - 11
11 विपर्यये यथाऽऽयतिव्ययश्च न भक्षयति इत्याचार्याः
विश्वास-प्रस्तुतिः - 12
12 अपसर्पेण एव उपलभ्येत इति कौटिल्यः
मूलम् - 12
12 अपसर्पेण एव उपलभ्येत इति कौटिल्यः
विश्वास-प्रस्तुतिः - 13
13 यः समुदयं परिहापयति स राजार्थं भक्षयति
मूलम् - 13
13 यः समुदयं परिहापयति स राजार्थं भक्षयति
विश्वास-प्रस्तुतिः - 14
14 स चेद् अज्ञानादिभिः परिहापयति तद् एनं यथागुणं दापयेत्
मूलम् - 14
14 स चेद् अज्ञानादिभिः परिहापयति तद् एनं यथागुणं दापयेत्
विश्वास-प्रस्तुतिः - 15
15 यः समुदयं द्विगुणं उद्भावयति स जनपदं भक्षयति
मूलम् - 15
15 यः समुदयं द्विगुणं उद्भावयति स जनपदं भक्षयति
विश्वास-प्रस्तुतिः - 16
16 स चेद् राजार्थं उपनयत्यल्पापराधे वारयितव्यः, महति यथाऽपराधं दण्डयितव्यः
मूलम् - 16
16 स चेद् राजार्थं उपनयत्यल्पापराधे वारयितव्यः, महति यथाऽपराधं दण्डयितव्यः
विश्वास-प्रस्तुतिः - 17
17 यः समुदयं व्ययं उपनयति स पुरुषकर्माणि भक्षयति
मूलम् - 17
17 यः समुदयं व्ययं उपनयति स पुरुषकर्माणि भक्षयति
विश्वास-प्रस्तुतिः - 18
18 स कर्मदिवसद्रव्यमूल्यपुरुषवेतनापहारेषु यथाऽपराधं दण्डयितव्यः
मूलम् - 18
18 स कर्मदिवसद्रव्यमूल्यपुरुषवेतनापहारेषु यथाऽपराधं दण्डयितव्यः
विश्वास-प्रस्तुतिः - 19
19 तस्माद् अस्य यो यस्मिन्न् अधिकरणे शासनस्थः स तस्य कर्मणो याथातथ्यं आयव्ययौ च व्याससमासाभ्यां आचक्षीत
मूलम् - 19

विश्वास-प्रस्तुतिः - 20
20 मूलहरतादात्विककदर्यांश्च प्रतिषेधयेत्
मूलम् - 20
20 मूलहरतादात्विककदर्यांश्च प्रतिषेधयेत्
विश्वास-प्रस्तुतिः - 21
21 यः पितृपैतामहं अर्थं अन्यायेन भक्षयति स मूलहरः
मूलम् - 21
21 यः पितृपैतामहं अर्थं अन्यायेन भक्षयति स मूलहरः
विश्वास-प्रस्तुतिः - 22
22 यो यद् यद् उत्पद्यते तत् तद् भक्षयति स तादात्विकः
मूलम् - 22
22 यो यद् यद् उत्पद्यते तत् तद् भक्षयति स तादात्विकः
विश्वास-प्रस्तुतिः - 23
23 यो भृत्यात्मपीडाभ्यां उपचिनोत्यर्थं स कदर्यः
मूलम् - 23
23 यो भृत्यात्मपीडाभ्यां उपचिनोत्यर्थं स कदर्यः
विश्वास-प्रस्तुतिः - 24
24 स पक्षवांश्चेद् अनादेयः, विपर्यये पर्यादातव्यः
मूलम् - 24
24 स पक्षवांश्चेद् अनादेयः, विपर्यये पर्यादातव्यः
विश्वास-प्रस्तुतिः - 25
25 यो महत्यर्थसमुदये स्थितः कदर्यः सम्निधत्तेऽवनिधत्तेऽवस्रावयति वा - सम्निधत्ते स्ववेश्मनि, अवनिधत्ते पौरजानपदेषु, अवस्रावयति परविषये - तस्य सत्त्री मन्त्रिमित्रभृत्यबन्धुपक्षं आगतिं गतिं च द्रव्याणां उपलभेत
मूलम् - 25

विश्वास-प्रस्तुतिः - 26
26 यश्चास्य परविषये सञ्चारं कुर्यात् तं अनुप्रविश्य मन्त्रं विद्यात्
मूलम् - 26
26 यश्चास्य परविषये सञ्चारं कुर्यात् तं अनुप्रविश्य मन्त्रं विद्यात्
विश्वास-प्रस्तुतिः - 27
27 सुविदिते शत्रुशासनापदेशेन एनं घातयेत्
मूलम् - 27
27 सुविदिते शत्रुशासनापदेशेन एनं घातयेत्
विश्वास-प्रस्तुतिः - 28
28 तस्माद् अस्याध्यक्षाः सङ्ख्यायकलेखकरूपदर्शकनीवीग्राहक उत्तराध्यक्षसखाः कर्मणि कुर्युः
मूलम् - 28
28 तस्माद् अस्याध्यक्षाः सङ्ख्यायकलेखकरूपदर्शकनीवीग्राहक उत्तराध्यक्षसखाः कर्मणि कुर्युः
विश्वास-प्रस्तुतिः - 29
29 उत्तराध्यक्षा हस्तिऽश्वरथारोहाः
मूलम् - 29
29 उत्तराध्यक्षा हस्तिऽश्वरथारोहाः
विश्वास-प्रस्तुतिः - 30
30 तेषां अन्तेवासिनः शिल्पशौचयुक्ताः सङ्ख्यायकादीनां अपसर्पाः
मूलम् - 30
30 तेषां अन्तेवासिनः शिल्पशौचयुक्ताः सङ्ख्यायकादीनां अपसर्पाः
विश्वास-प्रस्तुतिः - 31
31 बहुमुख्यं अनित्यं चाधिकरणं स्थापयेत्
मूलम् - 31
31 बहुमुख्यं अनित्यं चाधिकरणं स्थापयेत्
विश्वास-प्रस्तुतिः - 32
32ab यथा ह्यनास्वादयितुं न शक्यं जिह्वातलस्थं मधु७ वा विषं वा ।
32chd अर्थः तथा ह्यर्थचरेण राज्ञः स्वल्पोऽप्यनास्वादयितुं न शक्यः
मूलम् - 32

विश्वास-प्रस्तुतिः - 33
33ab मत्स्या यथाऽन्तः सलिले चरन्तो ज्ञातुं न शक्याः सलिलं पिबन्तः ।
33chd युक्ताः तथा कार्यविधौ नियुक्ता ज्ञातुं न शक्या धनं आददानाः
मूलम् - 33

विश्वास-प्रस्तुतिः - 34
34ab अपि शक्या गतिर्ज्ञातुं पततां खे पतत्रिणाम् ।
34chd न तु प्रच्छन्नभावानां युक्तानां चरतां गतिः
मूलम् - 34
34ab अपि शक्या गतिर्ज्ञातुं पततां खे पतत्रिणाम् ।
34chd न तु प्रच्छन्नभावानां युक्तानां चरतां गतिः
विश्वास-प्रस्तुतिः - 35
35ab आस्रावयेच्च उपचितान् विपर्यस्येच्च कर्मसु ।
35chd यथा न भक्षयन्त्यर्थं भक्षितं निर्वमन्ति वा
मूलम् - 35
35ab आस्रावयेच्च उपचितान् विपर्यस्येच्च कर्मसु ।
35chd यथा न भक्षयन्त्यर्थं भक्षितं निर्वमन्ति वा
विश्वास-प्रस्तुतिः - 36
36ab न भक्षयन्ति ये त्वर्थान्न्यायतो वर्धयन्ति च ।
36chd नित्याधिकाराः कार्याः ते राज्ञः प्रियहिते रताः (इति)
मूलम् - 36