०८

Recovery of revenue misappropriated by state employees

विश्वास-प्रस्तुतिः - 01

01 कोशपूर्वाः सर्वारम्भाः

मूलम् - 01

01 कोशपूर्वाः सर्वारम्भाः

विश्वास-प्रस्तुतिः - 02

02 तस्मात् पूर्वं कोशं अवेक्षेत

मूलम् - 02

02 तस्मात् पूर्वं कोशं अवेक्षेत

विश्वास-प्रस्तुतिः - 03

03 प्रचारसमृद्धिश्चरित्रानुग्रहश्चोरनिग्रहो युक्तप्रतिषेधः सस्यसम्पत् पण्यबाहुल्यं उपसर्गप्रमोक्षः परिहारक्षयो हिरण्य उपायनं इति कोशवृद्धिः

मूलम् - 03

विश्वास-प्रस्तुतिः - 04

04 प्रतिबन्धः प्रयोगो व्यवहारोऽवस्तारः परिहापणं उपभोगः परिवर्तनं अपहारश्च इति कोशक्षयः

मूलम् - 04

04 प्रतिबन्धः प्रयोगो व्यवहारोऽवस्तारः परिहापणं उपभोगः परिवर्तनं अपहारश्च इति कोशक्षयः

विश्वास-प्रस्तुतिः - 05

05 सिद्धीनां असाधनं अनवतारणं अप्रवेशनं वा प्रतिबन्धः

मूलम् - 05

05 सिद्धीनां असाधनं अनवतारणं अप्रवेशनं वा प्रतिबन्धः

विश्वास-प्रस्तुतिः - 06

06 तत्र दशबन्धो दण्डः

मूलम् - 06

06 तत्र दशबन्धो दण्डः

विश्वास-प्रस्तुतिः - 07

07 कोशद्रव्याणां वृद्धिप्रयोगाः प्रयोगः

मूलम् - 07

07 कोशद्रव्याणां वृद्धिप्रयोगाः प्रयोगः

विश्वास-प्रस्तुतिः - 08

08 पण्यव्यवहारो व्यवहारः

मूलम् - 08

08 पण्यव्यवहारो व्यवहारः

विश्वास-प्रस्तुतिः - 09

09 तत्र फलद्विगुणो दण्डः

मूलम् - 09

09 तत्र फलद्विगुणो दण्डः

विश्वास-प्रस्तुतिः - 10

10 सिद्धं कालं अप्राप्तं करोति अप्राप्तं प्राप्तं वा इत्यवस्तारः

मूलम् - 10

10 सिद्धं कालं अप्राप्तं करोति अप्राप्तं प्राप्तं वा इत्यवस्तारः

विश्वास-प्रस्तुतिः - 11

11 तत्र पञ्चबन्धो दण्डः

मूलम् - 11

11 तत्र पञ्चबन्धो दण्डः

विश्वास-प्रस्तुतिः - 12

12 क्लृप्तम्(कॢप्तम्) आयं परिहापयति व्ययं वा विवर्धयति इति परिहापणम्

मूलम् - 12

12 क्लृप्तम्(कॢप्तम्) आयं परिहापयति व्ययं वा विवर्धयति इति परिहापणम्

विश्वास-प्रस्तुतिः - 13

13 तत्र हीनचतुर्गुणो दण्डः

मूलम् - 13

13 तत्र हीनचतुर्गुणो दण्डः

विश्वास-प्रस्तुतिः - 14

14 स्वयं अन्यैर्वा राजद्रव्याणां उपभोजनं उपभोगः

मूलम् - 14

14 स्वयं अन्यैर्वा राजद्रव्याणां उपभोजनं उपभोगः

विश्वास-प्रस्तुतिः - 15

15 तत्र रत्न उपभोगे घातः, सार उपभोगे मध्यमः साहसदण्डः, फल्गुकुप्य उपभोगे तच्च तावत् च दण्डः

मूलम् - 15

15 तत्र रत्न उपभोगे घातः, सार उपभोगे मध्यमः साहसदण्डः, फल्गुकुप्य उपभोगे तच्च तावत् च दण्डः

विश्वास-प्रस्तुतिः - 16

16 राजद्रव्याणां अन्यद्रव्येनादानं परिवर्तनम्

मूलम् - 16

16 राजद्रव्याणां अन्यद्रव्येनादानं परिवर्तनम्

विश्वास-प्रस्तुतिः - 17

17 तद् उपभोगेन व्याख्यातम्

मूलम् - 17

17 तद् उपभोगेन व्याख्यातम्

विश्वास-प्रस्तुतिः - 18

18 सिद्धं आयं न प्रवेशयति, निबद्धं व्ययं न प्रयच्छति, प्राप्तां नीवीं विप्रतिजानीत इत्यपहारः

मूलम् - 18

18 सिद्धं आयं न प्रवेशयति, निबद्धं व्ययं न प्रयच्छति, प्राप्तां नीवीं विप्रतिजानीत इत्यपहारः

विश्वास-प्रस्तुतिः - 19

19 तत्र द्वादशगुणो दण्डः

मूलम् - 19

19 तत्र द्वादशगुणो दण्डः

विश्वास-प्रस्तुतिः - 20

20 तेषां हरण उपायाश्चत्वारिंशत्

मूलम् - 20

20 तेषां हरण उपायाश्चत्वारिंशत्

विश्वास-प्रस्तुतिः - 21

21a पूर्वं सिद्धं पश्चाद् अवतारितं, पश्चात् सिद्धं पूर्वं अवतारितं, साध्यं न सिद्धं, असाध्यं सिद्धं, सिद्धं असिद्धं कृतं, असिद्धं सिद्धं कृतं, अल्पसिद्धं बहु कृतं, बहुसिद्धं अल्पं कृतं, अन्यत् सिद्धं अन्यत् कृतं, अन्यतः सिद्धं अन्यतः कृतं,
21b देयं न दत्तं, अदेयं दत्तं, काले न दत्तं, अकाले दत्तं, अल्पं दत्तं बहु कृतं, बहु दत्तं अल्पं कृतं, अन्यद् दत्तं अन्यत् कृतं, अन्यतो दत्तं अन्यतः कृतं,
21ch प्रविष्टं अप्रविष्टं कृतं, अप्रविष्टं प्रविष्टं कृतं, कुप्यं अदत्तमूल्यं प्रविष्टं, दत्तमूल्यं न प्रविष्टं
21d सङ्क्षेपो विक्षेपः कृतः, विक्षेपः सङ्क्षेपो वा, महाऽर्घं अल्पार्घेण परिवर्तितं, अल्पार्घं महाऽर्घेण वा
21e समारोपितोऽर्घः, प्रत्यवरोपितो वा, संवत्सरो मासविषमः कृतः, मासो दिवसविषमो वा, समागमविषमः, मुखविषमः, कार्मिकविषमः
21f निर्वर्तनविषमः, पिण्डविषमः, वर्णविषमः, अर्घविषमः, मानविषमः, मापनविषमः, भाजनविषमः - इति हरण उपायाः

मूलम् - 21

विश्वास-प्रस्तुतिः - 22

22 तत्र उपयुक्तनिधायकनिबन्धकप्रतिग्राहकदायकदापकमन्त्रिवैयावृत्यकरान् एक एकशोऽनुयुञ्जीत

मूलम् - 22

22 तत्र उपयुक्तनिधायकनिबन्धकप्रतिग्राहकदायकदापकमन्त्रिवैयावृत्यकरान् एक एकशोऽनुयुञ्जीत

विश्वास-प्रस्तुतिः - 23

23 मिथ्यावादे च एषां युक्तसमो दण्डः

मूलम् - 23

23 मिथ्यावादे च एषां युक्तसमो दण्डः

विश्वास-प्रस्तुतिः - 24

24 प्रचारे चावघोषयेत् अमुना प्रकृतेन उपहताः प्रज्ञापयन्तु इति

मूलम् - 24

24 प्रचारे चावघोषयेत् अमुना प्रकृतेन उपहताः प्रज्ञापयन्तु इति

विश्वास-प्रस्तुतिः - 25

25 प्रज्ञापयतो यथा उपघातं दापयेत्

मूलम् - 25

25 प्रज्ञापयतो यथा उपघातं दापयेत्

विश्वास-प्रस्तुतिः - 26

26 अनेकेषु चाभियोगेष्वपव्ययमानः सकृद् एव पर उक्तः सर्वं भजेत

मूलम् - 26

26 अनेकेषु चाभियोगेष्वपव्ययमानः सकृद् एव पर उक्तः सर्वं भजेत

विश्वास-प्रस्तुतिः - 27

27 वैषम्ये सर्वत्रानुयोगं दद्यात्

मूलम् - 27

27 वैषम्ये सर्वत्रानुयोगं दद्यात्

विश्वास-प्रस्तुतिः - 28

28 महत्यर्थापहारे चाल्पेनापि सिद्धः सर्वं भजेत

मूलम् - 28

28 महत्यर्थापहारे चाल्पेनापि सिद्धः सर्वं भजेत

विश्वास-प्रस्तुतिः - 29

29 कृतप्रतिघातावस्थः सूचको निष्पन्नार्थः षष्ठं अंशं लभेत, द्वादशं अंशं भृतकः

मूलम् - 29

29 कृतप्रतिघातावस्थः सूचको निष्पन्नार्थः षष्ठं अंशं लभेत, द्वादशं अंशं भृतकः

विश्वास-प्रस्तुतिः - 30

30 प्रभूताभियोगाद् अल्पनिष्पत्तौ निष्पन्नस्यांशं लभेत

मूलम् - 30

30 प्रभूताभियोगाद् अल्पनिष्पत्तौ निष्पन्नस्यांशं लभेत

विश्वास-प्रस्तुतिः - 31

31 अनिष्पन्ने शारीरं हैरण्यं वा दण्डं लभेत, न चानुग्राह्यः

मूलम् - 31

31 अनिष्पन्ने शारीरं हैरण्यं वा दण्डं लभेत, न चानुग्राह्यः

विश्वास-प्रस्तुतिः - 32

32ab निष्पत्तौ निक्षिपेद् वादं आत्मानं वाऽपवाहयेत् ।
32chd अभियुक्त उपजापात् तु सूचको वधं आप्नुयात् (इति)

मूलम् - 32