The topic of accounts in the records and audit office
विश्वास-प्रस्तुतिः - 01
01 अक्षपटलं अध्यक्षः प्रान्मुखं उदन्मुखं वा विभक्त उपस्थानं निबन्धपुस्तकस्थानं कारयेत्
मूलम् - 01
01 अक्षपटलं अध्यक्षः प्रान्मुखं उदन्मुखं वा विभक्त उपस्थानं निबन्धपुस्तकस्थानं कारयेत्
विश्वास-प्रस्तुतिः - 02
02 तत्राधिकरणानां सङ्ख्याप्रचारसञ्जाताग्रं, कर्मान्तानां द्रव्यप्रयोगवृद्धिक्षयव्ययप्रयामव्याजीयोगस्थानवेतनविष्टिप्रमाणं, रत्नसारफल्गुकुप्यानां अर्घप्रतिवर्णकमानप्रतिमान उन्मानावमानभाण्डं, देशग्रामजातिकुलसङ्घानां धर्मव्यवहारचरित्रसंस्थानं, राज उपजीविनां प्रग्रहप्रदेशभोगपरिहारभक्तवेतनलाभं, राज्ञश्च पत्नीपुत्राणां रत्नभूमिलाभं निर्देश उत्पातिकप्रतीकारलाभं, मित्रामित्राणां च सन्धिविग्रहप्रदानादानं निबन्धपुस्तकस्थं कारयेत्
मूलम् - 02

विश्वास-प्रस्तुतिः - 03
03 ततः सर्वाधिकरणानां करणीयं सिद्धं शेषं आयव्ययौ नीवीं उपस्थानं प्रचारं चरित्रं संस्थानं च निबन्धेन प्रयच्छेत्
मूलम् - 03

विश्वास-प्रस्तुतिः - 04
04 उत्तममध्यमावरेषु च कर्मसु तज्जातिकं अध्यक्षं कुर्यात्, सामुदयिकेष्ववक्लृप्तिकम्(अवकॢप्तिकम्) यं उपहत्य राजा नानुतप्येत
मूलम् - 04

विश्वास-प्रस्तुतिः - 05
05 सहग्राहिणः प्रतिभुवः कर्म उपजीविनः पुत्रा भ्रातरो भार्या दुहितरो भृत्याश्चास्य कर्मच्छेदं वहेयुः
मूलम् - 05
05 सहग्राहिणः प्रतिभुवः कर्म उपजीविनः पुत्रा भ्रातरो भार्या दुहितरो भृत्याश्चास्य कर्मच्छेदं वहेयुः
विश्वास-प्रस्तुतिः - 06
06 त्रिशतं चतुःपञ्चाशत् चाहोरात्राणां कर्मसंवत्सरः
मूलम् - 06
06 त्रिशतं चतुःपञ्चाशत् चाहोरात्राणां कर्मसंवत्सरः
विश्वास-प्रस्तुतिः - 07
07 तं आषाढीपर्यवसानं ऊनं पूर्णं वा दद्यात्
मूलम् - 07
07 तं आषाढीपर्यवसानं ऊनं पूर्णं वा दद्यात्
विश्वास-प्रस्तुतिः - 08
08 करणाधिष्ठितं अधिमासकं कुर्यात्
मूलम् - 08
08 करणाधिष्ठितं अधिमासकं कुर्यात्
विश्वास-प्रस्तुतिः - 09
09 अपसर्पाधिष्ठितञ्च प्रचारम्
मूलम् - 09
09 अपसर्पाधिष्ठितञ्च प्रचारम्
विश्वास-प्रस्तुतिः - 10
10 प्रचारचरित्रसंस्थानान्यनुपलभमानो हि प्रकृतः समुदयं अज्ञानेन परिहापयति, उत्थानक्लेशासहत्वाद् आलस्येन, शब्दादिष्विन्द्रियार्थेषु प्रसक्तः प्रमादेन, सङ्क्रोशाधर्मानर्थभीरुभायेन, कार्यार्थिष्वनुग्रहबुद्धिः कामेन, हिंसाबुद्धिः कोपेन, विद्याद्रव्यवल्लभापाश्रयाद् दर्पेण, तुलामानतर्कगणितान्तर उपधानात् लोभेन
मूलम् - 10

विश्वास-प्रस्तुतिः - 11
11 तेषां आनुपूर्व्या यावान् अर्थ उपघातः तावान् एक उत्तरो दण्डः इति मानवाः
मूलम् - 11
11 तेषां आनुपूर्व्या यावान् अर्थ उपघातः तावान् एक उत्तरो दण्डः इति मानवाः
विश्वास-प्रस्तुतिः - 12
12 सर्वत्राष्टगुणः इति पाराशराः
मूलम् - 12
12 सर्वत्राष्टगुणः इति पाराशराः
विश्वास-प्रस्तुतिः - 13
13 दशगुणः इति बार्हस्पत्याः
मूलम् - 13
13 दशगुणः इति बार्हस्पत्याः
विश्वास-प्रस्तुतिः - 14
14 विंशतिगुणः इत्यौशनसाः
मूलम् - 14
14 विंशतिगुणः इत्यौशनसाः
विश्वास-प्रस्तुतिः - 15
15 यथाऽपराधं इति कौटिल्यः
मूलम् - 15
15 यथाऽपराधं इति कौटिल्यः
विश्वास-प्रस्तुतिः - 16
16 गाणनिक्यानि आषाढीं आगच्छेयुः
मूलम् - 16
16 गाणनिक्यानि आषाढीं आगच्छेयुः
विश्वास-प्रस्तुतिः - 17
17 आगतानां समुद्रपुस्तकभाण्डनीवीकानां एकत्रासम्भाषाऽवरोधं कारयेत्
मूलम् - 17
17 आगतानां समुद्रपुस्तकभाण्डनीवीकानां एकत्रासम्भाषाऽवरोधं कारयेत्
विश्वास-प्रस्तुतिः - 18
18 आयव्ययनीवीनां अग्राणि श्रुत्वा नीवीं अवहारयेत्
मूलम् - 18
18 आयव्ययनीवीनां अग्राणि श्रुत्वा नीवीं अवहारयेत्
विश्वास-प्रस्तुतिः - 19
19 यच्चाग्राद् आयस्यान्तरपर्णे नीव्यां वर्धेत व्ययस्य वा यत् परिहापयेत्, तद् अष्टगुणं अध्यक्षं दापयेत्
मूलम् - 19

विश्वास-प्रस्तुतिः - 20
20 विपर्यये तं एव प्रति स्यात्
मूलम् - 20
20 विपर्यये तं एव प्रति स्यात्
विश्वास-प्रस्तुतिः - 21
21 यथाकालं अनागतानां अपुस्तकभाण्डनीवीकानां वा देयदशबन्धो दण्डः
मूलम् - 21
21 यथाकालं अनागतानां अपुस्तकभाण्डनीवीकानां वा देयदशबन्धो दण्डः
विश्वास-प्रस्तुतिः - 22
22 कार्मिके च उपस्थिते कारणिकस्याप्रतिबध्नतः पूर्वः साहसदण्डः
मूलम् - 22
22 कार्मिके च उपस्थिते कारणिकस्याप्रतिबध्नतः पूर्वः साहसदण्डः
विश्वास-प्रस्तुतिः - 23
23 विपर्यये कार्मिकस्य द्विगुणः
मूलम् - 23
23 विपर्यये कार्मिकस्य द्विगुणः
विश्वास-प्रस्तुतिः - 24
24 प्रचारसमं महामात्राः समग्राः श्रावयेयुरविषममन्त्राः
मूलम् - 24
24 प्रचारसमं महामात्राः समग्राः श्रावयेयुरविषममन्त्राः
विश्वास-प्रस्तुतिः - 25
25 पृथग्भूतो मिथ्यावादी च एषां उत्तमं दण्डं दद्यात्
मूलम् - 25
25 पृथग्भूतो मिथ्यावादी च एषां उत्तमं दण्डं दद्यात्
विश्वास-प्रस्तुतिः - 26
26 अकृताहोरूपहरं मासं आकाङ्क्षेत
मूलम् - 26
26 अकृताहोरूपहरं मासं आकाङ्क्षेत
विश्वास-प्रस्तुतिः - 27
27 मासाद् ऊर्ध्वं मासद्विशत उत्तरं दण्डं दद्यात्
मूलम् - 27
27 मासाद् ऊर्ध्वं मासद्विशत उत्तरं दण्डं दद्यात्
विश्वास-प्रस्तुतिः - 28
28 अल्पशेसलेख्यनीवीकं पञ्चरात्रं आकाङ्क्षेत
मूलम् - 28
28 अल्पशेसलेख्यनीवीकं पञ्चरात्रं आकाङ्क्षेत
विश्वास-प्रस्तुतिः - 29
29 ततः परं कोशपूर्वं अहोरूपहरं धर्मव्यवहारचरित्रसंस्थानसङ्कलननिर्वर्तनानुमानचारप्रयोगैरवेक्षेत
मूलम् - 29
29 ततः परं कोशपूर्वं अहोरूपहरं धर्मव्यवहारचरित्रसंस्थानसङ्कलननिर्वर्तनानुमानचारप्रयोगैरवेक्षेत
विश्वास-प्रस्तुतिः - 30
30 दिवसपञ्चरात्रपक्षमासचातुर्मास्यसंवत्सरैश्च प्रतिसमानयेत्
मूलम् - 30
30 दिवसपञ्चरात्रपक्षमासचातुर्मास्यसंवत्सरैश्च प्रतिसमानयेत्
विश्वास-प्रस्तुतिः - 31
31 व्युष्टदेशकालमुख उत्पत्तिऽनुवृत्तिप्रमाणदायकदापकनिबन्धकप्रतिग्राहकैश्चायं समानयेत्
मूलम् - 31
31 व्युष्टदेशकालमुख उत्पत्तिऽनुवृत्तिप्रमाणदायकदापकनिबन्धकप्रतिग्राहकैश्चायं समानयेत्
विश्वास-प्रस्तुतिः - 32
32 व्युष्टदेशकालमुखलाभकारणदेययोगप्रमाणाज्ञापक उद्धारकविधातृकप्रतिग्राहकैश्च व्ययं समानयेत्
मूलम् - 32
32 व्युष्टदेशकालमुखलाभकारणदेययोगप्रमाणाज्ञापक उद्धारकविधातृकप्रतिग्राहकैश्च व्ययं समानयेत्
विश्वास-प्रस्तुतिः - 33
33 व्युष्टदेशकालमुखानुवर्तनरूपलक्षणप्रमाणनिक्षेपभाजनगोपायकैश्च नीवीं समानयेत्
मूलम् - 33
33 व्युष्टदेशकालमुखानुवर्तनरूपलक्षणप्रमाणनिक्षेपभाजनगोपायकैश्च नीवीं समानयेत्
विश्वास-प्रस्तुतिः - 34
34 राजार्थे कारणिकस्याप्रतिबध्नतः प्रतिषेधयतो वाऽऽज्ञां निबन्धाद् आयव्ययं अन्यथा नीवीं अवलिखतो द्विगुणः
मूलम् - 34

विश्वास-प्रस्तुतिः - 35
35 क्रमावहीनं उत्क्रमं अविज्ञातं पुनर्।उक्तं वा वस्तुकं अवलिखतो द्वादशपणो दण्डः
मूलम् - 35
35 क्रमावहीनं उत्क्रमं अविज्ञातं पुनर्।उक्तं वा वस्तुकं अवलिखतो द्वादशपणो दण्डः
विश्वास-प्रस्तुतिः - 36
36 नीवीं अवलिखतो द्विगुणः
मूलम् - 36
36 नीवीं अवलिखतो द्विगुणः
विश्वास-प्रस्तुतिः - 37
37 भक्षयतोऽष्टगुणः
मूलम् - 37
37 भक्षयतोऽष्टगुणः
विश्वास-प्रस्तुतिः - 38
38 नाशयतः पञ्चबन्धः प्रतिदानं च
मूलम् - 38
38 नाशयतः पञ्चबन्धः प्रतिदानं च
विश्वास-प्रस्तुतिः - 39
39 मिथ्यावादे स्तेयदण्डः
मूलम् - 39
39 मिथ्यावादे स्तेयदण्डः
विश्वास-प्रस्तुतिः - 40
40 पश्चात्प्रतिज्ञाते द्विगुणः, प्रस्मृत उत्पन्ने च
मूलम् - 40
40 पश्चात्प्रतिज्ञाते द्विगुणः, प्रस्मृत उत्पन्ने च
विश्वास-प्रस्तुतिः - 41
41ab अपराधं सहेताल्पं तुष्येद् अल्पेऽपि च उदये ।
41chd महा उपकारं चाध्यक्षं प्रग्रहेणाभिपूजयेत् (इति)
मूलम् - 41