chapter 24 The setting up of revenue by the administration
विश्वास-प्रस्तुतिः - 01
01 समाहर्ता दुर्गं राष्ट्रं खनिं सेतुं वनं व्रजं वणिक्पथं चावेक्षेत
मूलम् - 01
01 समाहर्ता दुर्गं राष्ट्रं खनिं सेतुं वनं व्रजं वणिक्पथं चावेक्षेत
विश्वास-प्रस्तुतिः - 02
02 शुल्कं दण्डः पौतवं नागरिको लक्षणाध्यक्षो मुद्राऽध्यक्षः सुरा सूना सूत्रं तैलं घृतं क्षारः सौवर्णिकः पण्यसंस्था वेश्या द्यूतं वास्तुकं कारुशिल्पिगणो देवताऽध्यक्षो द्वारबहिरिकाऽऽदेयं च दुर्गम्
मूलम् - 02

विश्वास-प्रस्तुतिः - 03
03 सीता भागो बलिः करो वणिक् नदीपालः तरो नावः पत्तनं विविचितं वर्तनी रज्जुश्चोररज्जुश्च राष्ट्रम्
मूलम् - 03
03 सीता भागो बलिः करो वणिक् नदीपालः तरो नावः पत्तनं विविचितं वर्तनी रज्जुश्चोररज्जुश्च राष्ट्रम्
विश्वास-प्रस्तुतिः - 04
04 सुवर्णरजतवज्रमणिमुक्ताप्रवालशङ्खलोहलवणभूमिप्रस्तररसधातवः खनिः
मूलम् - 04
04 सुवर्णरजतवज्रमणिमुक्ताप्रवालशङ्खलोहलवणभूमिप्रस्तररसधातवः खनिः
विश्वास-प्रस्तुतिः - 05
05 पुष्पफलवाटषण्डकेदारमूलवापाः सेतुः
मूलम् - 05
05 पुष्पफलवाटषण्डकेदारमूलवापाः सेतुः
विश्वास-प्रस्तुतिः - 06
06 पशुमृगद्रव्यहस्तिवनपरिग्रहो वनम्
मूलम् - 06
06 पशुमृगद्रव्यहस्तिवनपरिग्रहो वनम्
विश्वास-प्रस्तुतिः - 07
07 गोमहिषं अजाविकं खर उष्त्रं अश्वाश्वतरं च व्रजः
मूलम् - 07
07 गोमहिषं अजाविकं खर उष्त्रं अश्वाश्वतरं च व्रजः
विश्वास-प्रस्तुतिः - 08
08 स्थलपथो वारिपथश्च वणिक्पथः
मूलम् - 08
08 स्थलपथो वारिपथश्च वणिक्पथः
विश्वास-प्रस्तुतिः - 09
09 इत्यायशरीरम्
मूलम् - 09
09 इत्यायशरीरम्
विश्वास-प्रस्तुतिः - 10
10 मूल्यं भागो व्याजी परिघः क्ल्प्तम्(क्लृप्तम्) रूपिकं अत्ययश्चायमुखम्
मूलम् - 10
10 मूल्यं भागो व्याजी परिघः क्ल्प्तम्(क्लृप्तम्) रूपिकं अत्ययश्चायमुखम्
विश्वास-प्रस्तुतिः - 11
11 देवपितृपूजादानार्थं, स्वस्तिवाचनं, अन्तःपुरं, महानसं, दूतप्रावर्तिमं, कोष्ठागारं, आयुधागारं, पण्यगृहं, कुप्यगृहं, कर्मान्तो, विष्टिः, पत्तिऽश्वरथद्विपपरिग्रहो, गोमण्डलं, पशुमृगपक्षिव्यालवाटाः, काष्ठतृणवाटाश्च इति व्ययशरीरम्
मूलम् - 11

विश्वास-प्रस्तुतिः - 12
12 राजवर्षं मासः पक्षो दिवसश्च व्युष्टं, वर्षाहेमन्तग्रीष्माणां तृतीयसप्तमा दिवस ऊनाः पक्षाः शेषाः पूर्णाः, पृथग्ऽधिमासकः, इति कालः
मूलम् - 12

विश्वास-प्रस्तुतिः - 13
13 करणीयं सिद्धं शेषं आयव्ययौ नीवी च
मूलम् - 13
13 करणीयं सिद्धं शेषं आयव्ययौ नीवी च
विश्वास-प्रस्तुतिः - 14
14 संस्थानं प्रचारः शरीरावस्थापनं आदानं सर्वसमुदयपिण्डः सञ्जातं - एतत् करणीयम्
मूलम् - 14
14 संस्थानं प्रचारः शरीरावस्थापनं आदानं सर्वसमुदयपिण्डः सञ्जातं - एतत् करणीयम्
विश्वास-प्रस्तुतिः - 15
15 कोशार्पितं राजहारः पुरव्ययश्च प्रविष्टं परमसंवत्सरानुवृत्तं शासनमुक्तं मुखाज्ञप्तं चापातनीयं - एतत् सिद्धम्
मूलम् - 15

विश्वास-प्रस्तुतिः - 16
16 सिद्धिकर्मयोगः दण्डशेषं आहरणीयं बलात्कृतप्रतिष्टब्धं अवमृष्टं च प्रशोध्यं - एतत्शेषं, असारं अल्पसारं च
मूलम् - 16

विश्वास-प्रस्तुतिः - 17
17 वर्तमानः पर्युषितोऽन्यजातश्चायः
मूलम् - 17
17 वर्तमानः पर्युषितोऽन्यजातश्चायः
विश्वास-प्रस्तुतिः - 18
18 दिवसानुवृत्तो वर्तमानः
मूलम् - 18
18 दिवसानुवृत्तो वर्तमानः
विश्वास-प्रस्तुतिः - 19
19 परमसांवत्सरिकः परप्रचारसङ्क्रान्तो वा पर्युषितः
मूलम् - 19
19 परमसांवत्सरिकः परप्रचारसङ्क्रान्तो वा पर्युषितः
विश्वास-प्रस्तुतिः - 20
20 नष्टप्रस्मृतं आयुक्तदण्डः पार्श्वं पारिहीणिकं औपायनिकं डमरगतकस्वं अपुत्रकं निधिश्चान्यजातः
मूलम् - 20
20 नष्टप्रस्मृतं आयुक्तदण्डः पार्श्वं पारिहीणिकं औपायनिकं डमरगतकस्वं अपुत्रकं निधिश्चान्यजातः
विश्वास-प्रस्तुतिः - 21
21 विक्षेपव्याधितान्तरारम्भशेषं च व्ययप्रत्यायः
मूलम् - 21
21 विक्षेपव्याधितान्तरारम्भशेषं च व्ययप्रत्यायः
विश्वास-प्रस्तुतिः - 22
22 विक्रिये पण्यानां अर्घवृद्धिरुपजा, मान उन्मानविशेषो व्याजी, क्रयसङ्घर्षे वार्धवृद्धिः - इत्यायः
मूलम् - 22
22 विक्रिये पण्यानां अर्घवृद्धिरुपजा, मान उन्मानविशेषो व्याजी, क्रयसङ्घर्षे वार्धवृद्धिः - इत्यायः
विश्वास-प्रस्तुतिः - 23
23 नित्यो नित्य उत्पादिको लाभो लाभ उत्पादिक इति व्ययः
मूलम् - 23
23 नित्यो नित्य उत्पादिको लाभो लाभ उत्पादिक इति व्ययः
विश्वास-प्रस्तुतिः - 24
24 दिवसानुवृत्तो नित्यः
मूलम् - 24
24 दिवसानुवृत्तो नित्यः
विश्वास-प्रस्तुतिः - 25
25 पक्षमाससंवत्सरलाभो लाभः
मूलम् - 25
25 पक्षमाससंवत्सरलाभो लाभः
विश्वास-प्रस्तुतिः - 26
26 तयोरुत्पन्नो नित्य उत्पादिको लाभ उत्पादिक इति व्ययः
मूलम् - 26
26 तयोरुत्पन्नो नित्य उत्पादिको लाभ उत्पादिक इति व्ययः
विश्वास-प्रस्तुतिः - 27
27 सञ्जाताद् आयव्ययविशुद्धा नीवी, प्राप्ता चानुवृत्ता च
मूलम् - 27
27 सञ्जाताद् आयव्ययविशुद्धा नीवी, प्राप्ता चानुवृत्ता च
विश्वास-प्रस्तुतिः - 28
28ab एवं कुर्यात् समुदयं वृद्धिं चायस्य दर्शयेत् ।
28chd ह्रासं व्ययस्य च प्राज्ञः साधयेच्च विपर्ययम् (इति)
मूलम् - 28