The work of store-keeping by the director of stories
विश्वास-प्रस्तुतिः - 01
01 सम्निधाता कोशगृहं पण्यगृहं कोष्ठागारं कुप्यगृहं आयुधागारं बन्धनागारं च कारयेत्
मूलम् - 01
01 सम्निधाता कोशगृहं पण्यगृहं कोष्ठागारं कुप्यगृहं आयुधागारं बन्धनागारं च कारयेत्
विश्वास-प्रस्तुतिः - 02
02 चतुर्ऽश्रां वापीं अन्-उदक उपस्नेहां खानयित्वा पृथुशिलाभिरुभयतः पार्श्वं मूलं च प्रचित्य सारदारुपञ्जरं भूमिसमं त्रितलं अनेकविधानं कुट्टिमदेशस्थानतलं एकद्वारं यन्त्रयुक्तसोपानं भूमिगृहं कारयेत्
मूलम् - 02

विश्वास-प्रस्तुतिः - 03
03 तस्य उपरि उभयतोनिषेधं स-प्रग्रीवं ऐष्टकं भाण्डवाहिनीपरिक्षिप्तं कोशगृहं कारयेत्, प्रासादं वा
मूलम् - 03
03 तस्य उपरि उभयतोनिषेधं स-प्रग्रीवं ऐष्टकं भाण्डवाहिनीपरिक्षिप्तं कोशगृहं कारयेत्, प्रासादं वा
विश्वास-प्रस्तुतिः - 04
04 जनपदान्ते ध्रुवनिधिं आपद्ऽर्थं अभित्यक्तैः कारयेत्
मूलम् - 04
04 जनपदान्ते ध्रुवनिधिं आपद्ऽर्थं अभित्यक्तैः कारयेत्
विश्वास-प्रस्तुतिः - 05
05a पक्व इष्टकास्तम्भं चतुःशालं एकद्वारं अनेकस्थानतलं विवृतस्तम्भापसारं उभयतः पण्यगृहं कोष्ठागारं च
05b दीर्घबहुशालं कक्ष्यावृतकुड्यं अन्तः कुप्यगृहं, तद् एव भूमिगृहयुक्तं आयुधागारं
05ch पृथग्धर्मस्थीयं महामात्रीयं विभक्तस्त्रीपुरुषस्थानं अपसारतः सुगुप्तकक्ष्यं बन्धनागारं कारयेत्
मूलम् - 05

विश्वास-प्रस्तुतिः - 06
06 सर्वेषां शालाः खात उदपानवर्चस्नानगृहाग्निविषत्राणमार्जारनकुलारक्षास्वदैवतपूजनयुक्ताः कारयेत्
मूलम् - 06
06 सर्वेषां शालाः खात उदपानवर्चस्नानगृहाग्निविषत्राणमार्जारनकुलारक्षास्वदैवतपूजनयुक्ताः कारयेत्
विश्वास-प्रस्तुतिः - 07
07 कोष्ठागारे वर्षमानं अरत्निमुखं कुण्डं स्थापयेत्
मूलम् - 07
07 कोष्ठागारे वर्षमानं अरत्निमुखं कुण्डं स्थापयेत्
विश्वास-प्रस्तुतिः - 08
08 तत्जातकरणाधिष्ठितः पुराणं नवं च रत्नं सारं फल्गु कुप्यं वा प्रतिगृह्णीयात्
मूलम् - 08
08 तत्जातकरणाधिष्ठितः पुराणं नवं च रत्नं सारं फल्गु कुप्यं वा प्रतिगृह्णीयात्
विश्वास-प्रस्तुतिः - 09
09 तत्र रत्न उपधावुत्तमो दण्डः कर्तुः कारयितुश्च सार उपधौ मध्यमः, फल्गुकुप्य उपधौ तत् च तावत् च दण्डः
मूलम् - 09

विश्वास-प्रस्तुतिः - 10
10 रूपदर्शकविशुद्धं हिरण्यं प्रतिगृह्णीयात्
मूलम् - 10
10 रूपदर्शकविशुद्धं हिरण्यं प्रतिगृह्णीयात्
विश्वास-प्रस्तुतिः - 11
11 अशुद्धं छेदयेत्
मूलम् - 11
11 अशुद्धं छेदयेत्
विश्वास-प्रस्तुतिः - 12
12 आहर्तुः पूर्वः साहसदण्डः
मूलम् - 12
12 आहर्तुः पूर्वः साहसदण्डः
विश्वास-प्रस्तुतिः - 13
13 शुद्धं पूर्णं अभिनवं च धान्यं प्रतिगृह्णीयात्
मूलम् - 13
13 शुद्धं पूर्णं अभिनवं च धान्यं प्रतिगृह्णीयात्
विश्वास-प्रस्तुतिः - 14
14 विपर्यये मूल्यद्विगुणो दण्डः
मूलम् - 14
14 विपर्यये मूल्यद्विगुणो दण्डः
विश्वास-प्रस्तुतिः - 15
15 तेन पण्यं कुप्यं आयुधं च व्याख्यातम्
मूलम् - 15
15 तेन पण्यं कुप्यं आयुधं च व्याख्यातम्
विश्वास-प्रस्तुतिः - 16
16 सर्वाधिकरणेषु युक्त उपयुक्ततत्पुरुषाणां पणादिचतुष्पणपरमापहारेषु पूर्वमध्यम उत्तमवधा दण्डाः
मूलम् - 16
16 सर्वाधिकरणेषु युक्त उपयुक्ततत्पुरुषाणां पणादिचतुष्पणपरमापहारेषु पूर्वमध्यम उत्तमवधा दण्डाः
विश्वास-प्रस्तुतिः - 17
17 कोशाधिष्ठितस्य कोशावच्छेदे घातः
मूलम् - 17
17 कोशाधिष्ठितस्य कोशावच्छेदे घातः
विश्वास-प्रस्तुतिः - 18
18 तद्वैयावृत्यकराणां अर्धदण्डाः
मूलम् - 18
18 तद्वैयावृत्यकराणां अर्धदण्डाः
विश्वास-प्रस्तुतिः - 19
19 परिभाषणं अविज्ञाते
मूलम् - 19
19 परिभाषणं अविज्ञाते
विश्वास-प्रस्तुतिः - 20
20 चोराणां अभिप्रधर्षणे चित्रो घातः
मूलम् - 20
20 चोराणां अभिप्रधर्षणे चित्रो घातः
विश्वास-प्रस्तुतिः - 21
21 तस्माद् आप्तपुरुवाधिष्ठितः सम्निधाता निचयान् अनुतिष्ठेत्
मूलम् - 21
21 तस्माद् आप्तपुरुवाधिष्ठितः सम्निधाता निचयान् अनुतिष्ठेत्
विश्वास-प्रस्तुतिः - 22
22a बाह्यं अभ्यन्तरं चायं विद्याद् वर्षशताद् अपि ।
22b यथा पृष्टो न सज्जेत व्यये शेषे च सञ्चये (इति)
मूलम् - 22