०४

Lay-out of the fortified city

विश्वास-प्रस्तुतिः - 01

01 त्रयः प्राचीना राजमार्गाः त्रय उदीचीना इति वास्तुविभागः

मूलम् - 01

01 त्रयः प्राचीना राजमार्गाः त्रय उदीचीना इति वास्तुविभागः

विश्वास-प्रस्तुतिः - 02

02 स द्वादशद्वारो युक्त उदकभ्रमच्छन्नपथः

मूलम् - 02

02 स द्वादशद्वारो युक्त उदकभ्रमच्छन्नपथः

विश्वास-प्रस्तुतिः - 03

03 चतुर्दण्डान्तरा रथ्याः

मूलम् - 03

03 चतुर्दण्डान्तरा रथ्याः

विश्वास-प्रस्तुतिः - 04

04 राजमार्गद्रोणमुखस्थानीयराष्ट्रविवीतपथाः सम्यानीयव्यूहश्मशानग्रामपथाश्चाष्टदण्डाः

मूलम् - 04

04 राजमार्गद्रोणमुखस्थानीयराष्ट्रविवीतपथाः सम्यानीयव्यूहश्मशानग्रामपथाश्चाष्टदण्डाः

विश्वास-प्रस्तुतिः - 05

05 चतुर्दण्डः सेतुवनपथः, द्विदण्डो हस्तिक्षेत्रपथः, पञ्चारत्नयो रथपथः, चत्वारः पशुपथः, द्वौ क्षुद्रपशुमनुष्यपथः

मूलम् - 05

विश्वास-प्रस्तुतिः - 06

06 प्रवीरे वास्तुनि राजनिवेशश्चातुर्वर्ण्यसमाजीवे

मूलम् - 06

06 प्रवीरे वास्तुनि राजनिवेशश्चातुर्वर्ण्यसमाजीवे

विश्वास-प्रस्तुतिः - 07

07 वास्तुहृदयाद् उत्तरे नवभागे यथा उक्तविधानं अन्तःपुरं प्रान्मुखं उदन्मुखं वा कारयेत्

मूलम् - 07

07 वास्तुहृदयाद् उत्तरे नवभागे यथा उक्तविधानं अन्तःपुरं प्रान्मुखं उदन्मुखं वा कारयेत्

विश्वास-प्रस्तुतिः - 08

08 तस्य पूर्व उत्तरं भागं आचार्यपुरोहित इज्यातोयस्थानं मन्त्रिणश्चावसेयुः, पूर्वदक्षिणं भाँ महानसं हस्तिशाला कोष्ठागारं च

मूलम् - 08

विश्वास-प्रस्तुतिः - 09

09 ततः परं गन्धमाल्यरसपण्याः प्रसाधनकारवः क्षत्रियाश्च पूर्वां दिशं अधिवसेयुः

मूलम् - 09

09 ततः परं गन्धमाल्यरसपण्याः प्रसाधनकारवः क्षत्रियाश्च पूर्वां दिशं अधिवसेयुः

विश्वास-प्रस्तुतिः - 10

10 दक्षिणपूर्वं भागं भाण्डागारं अक्षपटलं कर्मनिषद्याश्च, दक्षिणपश्चिमं भागं कुप्यगृहं आयुधागारं च

मूलम् - 10

10 दक्षिणपूर्वं भागं भाण्डागारं अक्षपटलं कर्मनिषद्याश्च, दक्षिणपश्चिमं भागं कुप्यगृहं आयुधागारं च

विश्वास-प्रस्तुतिः - 11

11 ततः परं नगरधान्यव्यावहारिककार्मान्तिकबलाध्यक्षाः पक्वान्नसुरामांसपण्या रूपाजीवाः तालावचरा वैश्याश्च दक्षिणां दिशं अधिवसेयुः

मूलम् - 11

विश्वास-प्रस्तुतिः - 12

12 पश्चिमदक्षिणं भागं खर उष्ट्रगुप्तिस्थानं कर्मगृहं च, पश्चिम उत्तरं भागं यानरथशालाः

मूलम् - 12

12 पश्चिमदक्षिणं भागं खर उष्ट्रगुप्तिस्थानं कर्मगृहं च, पश्चिम उत्तरं भागं यानरथशालाः

विश्वास-प्रस्तुतिः - 13

13 ततः परं ऊर्णासूत्रवेणुचर्मवर्मशस्त्रावरणकारवः शूद्राश्च पश्चिमां दिशं अधिवसेयुः

मूलम् - 13

13 ततः परं ऊर्णासूत्रवेणुचर्मवर्मशस्त्रावरणकारवः शूद्राश्च पश्चिमां दिशं अधिवसेयुः

विश्वास-प्रस्तुतिः - 14

14 उत्तरपश्चिमं भागं पण्यभैषज्यगृहं, उत्तरपूर्वं भागं कोशो गवाश्वं च

मूलम् - 14

14 उत्तरपश्चिमं भागं पण्यभैषज्यगृहं, उत्तरपूर्वं भागं कोशो गवाश्वं च

विश्वास-प्रस्तुतिः - 15

15 ततः परं नगरराजदेवतालोहमणिकारवो ब्राह्मणाश्च उत्तरां दिशं अधिवसेयुः

मूलम् - 15

15 ततः परं नगरराजदेवतालोहमणिकारवो ब्राह्मणाश्च उत्तरां दिशं अधिवसेयुः

विश्वास-प्रस्तुतिः - 16

16 वास्तुच्छिद्रानुशालेषु श्रेणीप्रपणिनिकाया आवसेयुः

मूलम् - 16

16 वास्तुच्छिद्रानुशालेषु श्रेणीप्रपणिनिकाया आवसेयुः

विश्वास-प्रस्तुतिः - 17

17 अपराजिताप्रतिहतजयन्तवैजयन्तकोष्ठान् शिववैश्रवणाश्विश्रीमदिरागृहाणि च पुरमध्ये कारयेत्

मूलम् - 17

17 अपराजिताप्रतिहतजयन्तवैजयन्तकोष्ठान् शिववैश्रवणाश्विश्रीमदिरागृहाणि च पुरमध्ये कारयेत्

विश्वास-प्रस्तुतिः - 18

18 यथा उद्देशं वास्तुदेवताः स्थापयेत्

मूलम् - 18

18 यथा उद्देशं वास्तुदेवताः स्थापयेत्

विश्वास-प्रस्तुतिः - 19

19 ब्राह्माइन्द्रयाम्यसैनापत्यानि द्वाराणि

मूलम् - 19

19 ब्राह्माइन्द्रयाम्यसैनापत्यानि द्वाराणि

विश्वास-प्रस्तुतिः - 20

20 बहिः परिखाया धनुःशतापकृष्टाश्चैत्यपुण्यस्थानवनसेतुबन्धाः कार्याः, यथादिशं च दिग्देवताः

मूलम् - 20

20 बहिः परिखाया धनुःशतापकृष्टाश्चैत्यपुण्यस्थानवनसेतुबन्धाः कार्याः, यथादिशं च दिग्देवताः

विश्वास-प्रस्तुतिः - 21

21 उत्तरः पूर्वो वा श्मशानभागो वर्ण उत्तमानां, दक्षिणेन श्मशानं वर्णावराणाम्

मूलम् - 21

21 उत्तरः पूर्वो वा श्मशानभागो वर्ण उत्तमानां, दक्षिणेन श्मशानं वर्णावराणाम्

विश्वास-प्रस्तुतिः - 22

22 तस्यातिक्रमे पूर्वः साहसदण्डः

मूलम् - 22

22 तस्यातिक्रमे पूर्वः साहसदण्डः

विश्वास-प्रस्तुतिः - 23

23 पाषण्डचण्डालानां श्मशानान्ते वासः

मूलम् - 23

23 पाषण्डचण्डालानां श्मशानान्ते वासः

विश्वास-प्रस्तुतिः - 24

24 कर्मान्तक्षेत्रवशेन कुटुम्बिनां सीमानं स्थापयेत्

मूलम् - 24

24 कर्मान्तक्षेत्रवशेन कुटुम्बिनां सीमानं स्थापयेत्

विश्वास-प्रस्तुतिः - 25

25 तेषु पुष्पफलवाटान् धान्यपण्यनिचयांश्चानुज्ञाताः कुर्युः

मूलम् - 25

25 तेषु पुष्पफलवाटान् धान्यपण्यनिचयांश्चानुज्ञाताः कुर्युः

विश्वास-प्रस्तुतिः - 26

26 दशकुलीवाटं कूपस्थानम्

मूलम् - 26

26 दशकुलीवाटं कूपस्थानम्

विश्वास-प्रस्तुतिः - 27

27 सर्वस्नेहधान्यक्षारलवणगन्धभैषज्यशुष्कशाकयवसवल्लूरतृणकाष्ठलोहचर्माङ्गारस्नायुविषविषाणवेणुवल्कलसारदारुप्रहरणावरणाश्मनिचयान् अनेकवर्ष उपभोगसहान् कारयेत्

मूलम् - 27

विश्वास-प्रस्तुतिः - 28

28 नवेनानवं शोधयेत्

मूलम् - 28

28 नवेनानवं शोधयेत्

विश्वास-प्रस्तुतिः - 29

29 हस्तिऽश्वरथपादातं अनेकमुख्यं अवस्थापयेत्

मूलम् - 29

29 हस्तिऽश्वरथपादातं अनेकमुख्यं अवस्थापयेत्

विश्वास-प्रस्तुतिः - 30

30 अनेकमुख्यं हि परस्परभयात् पर उपजापं न उपैति

मूलम् - 30

30 अनेकमुख्यं हि परस्परभयात् पर उपजापं न उपैति

विश्वास-प्रस्तुतिः - 31

31 एतेनान्तपालदुर्गसंस्कारा व्याख्याताः

मूलम् - 31

31 एतेनान्तपालदुर्गसंस्कारा व्याख्याताः

विश्वास-प्रस्तुतिः - 32

32ab न च बाहिरिकान् कुर्यात् पुरे राष्ट्र उपघातकान् ।
32chd क्षिपेज् जनपदे च एतान् सर्वान् वा दापयेत् करान् (इति)

मूलम् - 32