०३

Construction of forts

विश्वास-प्रस्तुतिः - 01

01 चतुर्दिशं जनपदान्ते साम्परायिकं दैवकृतं दुर्गं कारयेत्, अन्तर्द्वीपं स्थलं वा निम्नावरुद्धं औदकं, प्रास्तरं गुहां वा पार्वतं, निरुदकस्तम्बं इरिणं वा धान्वनं, खञ्जन उदकं स्तम्बगहनं वा वनदुर्गम्

मूलम् - 01

विश्वास-प्रस्तुतिः - 02

02 तेषां नदीपर्वतदुर्गं जनपदारक्षस्थानं, धान्वनवनदुर्गं अटवीस्थानं आपद्यपसारो वा

मूलम् - 02

02 तेषां नदीपर्वतदुर्गं जनपदारक्षस्थानं, धान्वनवनदुर्गं अटवीस्थानं आपद्यपसारो वा

विश्वास-प्रस्तुतिः - 03

03 जनपदमध्ये समुदयस्थानं स्थानीयं निवेशयेत्, वास्तुकप्रशस्ते देशे नदीसङ्गमे ह्रदस्याविशोषस्याङ्के सरसः तटाकस्य वा, वृत्तं दीर्घं चतुर्ऽश्रं वा वास्तुवशेन वा प्रदक्षिण उदकं पण्यपुटभेदनं अंसपथवारिपथाभ्यां उपेतम्

मूलम् - 03

विश्वास-प्रस्तुतिः - 04

04 तस्य परिखाः तिस्रो दण्डान्तराः कारयेत् चतुर्दश द्वादश दश इति दण्डान् विस्तीर्णाः, विस्ताराद् अवगाढाः पाद ऊनं अर्धं वा, त्रिभागमूलाः, मूलचतुर्ऽश्रा वा, पाषाण उपहिताः पाषाण इष्टकाबद्धपार्श्वा वा, तोयान्तिकीरागन्तुतोयपूर्णा वा सपरिवाहाः पद्मग्राहवतीश्च

मूलम् - 04

विश्वास-प्रस्तुतिः - 05

05 चतुर्दण्डापकृष्टं परिखायाः षड्दण्ड उच्छ्रितं अवरुद्धं तद्द्विगुणविष्कम्भं खाताद् वप्रं कारयेद् ऊर्ध्वचयं मञ्चपृष्ठं कुम्भकुक्षिकं वा हस्तिभिर्गोभिश्च क्षुण्णं कण्टकिगुल्मविषवल्लीप्रतानवन्तम्

मूलम् - 05

विश्वास-प्रस्तुतिः - 06

06 पांसुशेषेण वास्तुच्छिद्रं राजभवनं वा पूरयेत्

मूलम् - 06

06 पांसुशेषेण वास्तुच्छिद्रं राजभवनं वा पूरयेत्

विश्वास-प्रस्तुतिः - 07

07a वप्रस्य उपरि प्राकारं विष्कम्भद्विगुण उत्सेधं ऐष्टकं द्वादशहस्ताद् ऊर्ध्वं ओजं युग्मं वा आ चतुर्विंशतिहस्ताद् इति कारयेत्
07b रथचर्यासञ्चारं तालमूलं मुरजकैः कपिशीर्षकैश्चाचिताग्रम्

मूलम् - 07

विश्वास-प्रस्तुतिः - 08

08 पृथुशिलासंहतं वा शैलं कारयेत्, न त्वेव काष्टमयम्

मूलम् - 08

08 पृथुशिलासंहतं वा शैलं कारयेत्, न त्वेव काष्टमयम्

विश्वास-प्रस्तुतिः - 09

09 अग्निरवहितो हि तस्मिन् वसति

मूलम् - 09

09 अग्निरवहितो हि तस्मिन् वसति

विश्वास-प्रस्तुतिः - 10

10 विष्कम्भचतुर्ऽश्रं अट्टालकं उत्सेधसमावक्षेपसोपानं कारयेत् त्रिंशद्दण्डान्तरं च

मूलम् - 10

10 विष्कम्भचतुर्ऽश्रं अट्टालकं उत्सेधसमावक्षेपसोपानं कारयेत् त्रिंशद्दण्डान्तरं च

विश्वास-प्रस्तुतिः - 11

11 द्वयोरट्टालकयोर्मध्ये सहर्म्यद्वितलां अध्यर्धायायामां प्रतोलीं कारयेत्

मूलम् - 11

11 द्वयोरट्टालकयोर्मध्ये सहर्म्यद्वितलां अध्यर्धायायामां प्रतोलीं कारयेत्

विश्वास-प्रस्तुतिः - 12

12 अट्टालकप्रतोलीमध्ये त्रिधानुष्काधिष्ठानं स-अपिधानच्छिद्रफलकसंहतं इन्द्रकोशं कारयेत्

मूलम् - 12

12 अट्टालकप्रतोलीमध्ये त्रिधानुष्काधिष्ठानं स-अपिधानच्छिद्रफलकसंहतं इन्द्रकोशं कारयेत्

विश्वास-प्रस्तुतिः - 13

13 अन्तरेषु द्विहस्तविष्कम्भं पार्श्वे चतुर्गुणायामं देवपथं कारयेत्

मूलम् - 13

13 अन्तरेषु द्विहस्तविष्कम्भं पार्श्वे चतुर्गुणायामं देवपथं कारयेत्

विश्वास-प्रस्तुतिः - 14

14 दण्डान्तरा द्विदण्डान्तरा वा चर्याः कारयेत्, अग्राह्ये देशे प्रधावनिकां निष्किरद्वारं च

मूलम् - 14

14 दण्डान्तरा द्विदण्डान्तरा वा चर्याः कारयेत्, अग्राह्ये देशे प्रधावनिकां निष्किरद्वारं च

विश्वास-प्रस्तुतिः - 15

15 बहिर्जानुभञ्जनीशूलप्रकरकूपकूटावपातकण्टकप्रतिसराहिपृष्ठतालपत्त्रशृङ्गाटकश्वदंष्ट्रार्गल उपस्कन्दनपादुकाम्बरीष उदपानकैः प्रतिच्छन्नं छन्नपथं कारयेत्

मूलम् - 15

विश्वास-प्रस्तुतिः - 16

16 प्राकारं उभयतो मेण्ढकं अध्यर्धदण्डं कृत्वा प्रतोलीषट्तुलाऽन्तरं द्वारं निवेशयेत् पञ्चदण्डाद् एक उत्तरं आऽष्टदण्डाद् इति चतुर्ऽश्रं षड्भागं आयामाद्ऽधिकं अष्टभागं वा

मूलम् - 16

विश्वास-प्रस्तुतिः - 17

17 पञ्चदशहस्ताद् एक उत्तरं आऽष्टादशहस्ताद् इति तल उत्सेधः

मूलम् - 17

17 पञ्चदशहस्ताद् एक उत्तरं आऽष्टादशहस्ताद् इति तल उत्सेधः

विश्वास-प्रस्तुतिः - 18

18 स्तम्भस्य परिक्षेपः षड्।आयामो, द्विगुणो निखातः, चूलिकायाश्चतुर्भागः

मूलम् - 18

18 स्तम्भस्य परिक्षेपः षड्।आयामो, द्विगुणो निखातः, चूलिकायाश्चतुर्भागः

विश्वास-प्रस्तुतिः - 19

19 आदितलस्य पञ्चभागाः शाला वापी सीमागृहं च

मूलम् - 19

19 आदितलस्य पञ्चभागाः शाला वापी सीमागृहं च

विश्वास-प्रस्तुतिः - 20

20 दशभागिकौ द्वौ प्रतिमञ्चौ, अन्तरं आणीहर्म्यं च

मूलम् - 20

20 दशभागिकौ द्वौ प्रतिमञ्चौ, अन्तरं आणीहर्म्यं च

विश्वास-प्रस्तुतिः - 21

21 समुच्छ्रयाद् अर्धतले स्थूणाबन्धश्च

मूलम् - 21

21 समुच्छ्रयाद् अर्धतले स्थूणाबन्धश्च

विश्वास-प्रस्तुतिः - 22

22 अर्धवास्तुकं उत्तमागारं, त्रिभागान्तरं वा, इष्टकाऽवबद्धपार्श्वं, वामतः प्रदक्षिणसोपानं गूढभित्तिसोपानं इतरतः

मूलम् - 22

विश्वास-प्रस्तुतिः - 23

23 द्विहस्तं तोरणशिरः

मूलम् - 23

23 द्विहस्तं तोरणशिरः

विश्वास-प्रस्तुतिः - 24

24 त्रिपञ्चभागिकौ द्वौ कपाटयोगौ

मूलम् - 24

24 त्रिपञ्चभागिकौ द्वौ कपाटयोगौ

विश्वास-प्रस्तुतिः - 25

25 द्वौ परिघौ

मूलम् - 25

25 द्वौ परिघौ

विश्वास-प्रस्तुतिः - 26

26 अरत्निरिन्द्रकीलः

मूलम् - 26

26 अरत्निरिन्द्रकीलः

विश्वास-प्रस्तुतिः - 27

27 पञ्चहस्तं आणिद्वारम्

मूलम् - 27

27 पञ्चहस्तं आणिद्वारम्

विश्वास-प्रस्तुतिः - 28

28 चत्वारो हस्तिपरिघाः

मूलम् - 28

28 चत्वारो हस्तिपरिघाः

विश्वास-प्रस्तुतिः - 29

29 निवेशार्धं हस्तिनखम्

मूलम् - 29

29 निवेशार्धं हस्तिनखम्

विश्वास-प्रस्तुतिः - 30

30 मुखसमः सङ्क्रमः संहार्यो भूमिमयो वा निरुदके

मूलम् - 30

30 मुखसमः सङ्क्रमः संहार्यो भूमिमयो वा निरुदके

विश्वास-प्रस्तुतिः - 31

31 प्राकारसमं मुखं अवस्थाप्य त्रिभागगोधामुखं गोपुरं कारयेत्

मूलम् - 31

31 प्राकारसमं मुखं अवस्थाप्य त्रिभागगोधामुखं गोपुरं कारयेत्

विश्वास-प्रस्तुतिः - 32

32 प्राकारमध्ये वापीं कृत्वा पुष्करिणीद्वारं, चतुःशालं अध्यर्धान्तरं साणिकं कुमारीपुरं, मुण्डहर्म्यद्वितलं मुण्डकद्वारं, भूमिद्रव्यवशेन वा निवेशयेत्

मूलम् - 32

विश्वास-प्रस्तुतिः - 33

33 त्रिभागाधिकायामा भाण्डवाहिनीः कुल्याः कारयेत्

मूलम् - 33

33 त्रिभागाधिकायामा भाण्डवाहिनीः कुल्याः कारयेत्

विश्वास-प्रस्तुतिः - 34

34ab तासु पाषाणकुद्दालाः कुठारीकाण्डकल्पनाः ।
34chd मुषुण्ढीमुद्गरा दण्डाश्चक्रयन्त्रशतघ्नयः

मूलम् - 34

34ab तासु पाषाणकुद्दालाः कुठारीकाण्डकल्पनाः ।
34chd मुषुण्ढीमुद्गरा दण्डाश्चक्रयन्त्रशतघ्नयः

विश्वास-प्रस्तुतिः - 35

35ab कार्याः कार्मारिकाः शूला वेधनाग्राश्च वेणवः ।
35chd उष्ट्रग्रीव्योऽग्निसम्योगाः कुप्यकल्पे च यो विधिः (इति)

मूलम् - 35