Disposal of non-agricultural land
विश्वास-प्रस्तुतिः - 01
01 अकृष्यायां भूमौ पशुभ्यो विवीतानि प्रयच्छेत्
मूलम् - 01
01 अकृष्यायां भूमौ पशुभ्यो विवीतानि प्रयच्छेत्
विश्वास-प्रस्तुतिः - 02
02 प्रदिष्टाभयस्थावरजङ्गमानि च ब्रह्मसोमारण्यानि तपस्विभ्यो गोरुतपराणि प्रयच्छेत्
मूलम् - 02
02 प्रदिष्टाभयस्थावरजङ्गमानि च ब्रह्मसोमारण्यानि तपस्विभ्यो गोरुतपराणि प्रयच्छेत्
विश्वास-प्रस्तुतिः - 03
03 तावन्मात्रं एकद्वारं खातगुप्तं स्वादुफलगुल्मगुच्छं अकण्टकिद्रुमं उत्तानतोयाशयं दान्तमृगचतुष्पदं भग्ननखदंष्ट्रव्यालं मार्गयुकहस्तिहस्तिनीकलभं मृगवनं विहारार्थं राज्ञः कारयेत्
मूलम् - 03

विश्वास-प्रस्तुतिः - 04
04 सर्वातिथिमृगं प्रत्यन्ते चान्यन्मृगवनं भूमिवशेन वा निवेशयेत्
मूलम् - 04
04 सर्वातिथिमृगं प्रत्यन्ते चान्यन्मृगवनं भूमिवशेन वा निवेशयेत्
विश्वास-प्रस्तुतिः - 05
05 कुप्यप्रदिष्टानां च द्रव्याणां एक एकशो वनानि निवेशयेत्, द्रव्यवनकर्मान्तान् अटवीश्च द्रव्यवनापाश्रयाः
मूलम् - 05

विश्वास-प्रस्तुतिः - 06
06 प्रत्यन्ते हस्तिवनं अटव्य्।आरक्षं निवेशयेत्
मूलम् - 06
06 प्रत्यन्ते हस्तिवनं अटव्य्।आरक्षं निवेशयेत्
विश्वास-प्रस्तुतिः - 07
07 नागवनाध्यक्षः पार्वतं नादेयं सारसमानूपं च नागवनं विदितपर्यन्तप्रवेशनिष्कासं नागवनपालैः पालयेत्
मूलम् - 07
07 नागवनाध्यक्षः पार्वतं नादेयं सारसमानूपं च नागवनं विदितपर्यन्तप्रवेशनिष्कासं नागवनपालैः पालयेत्
विश्वास-प्रस्तुतिः - 08
08 हस्तिघातिनं हन्युः
मूलम् - 08
08 हस्तिघातिनं हन्युः
विश्वास-प्रस्तुतिः - 09
09 दन्तयुगं स्वयम्मृतस्याहरतः सपादचतुष्पणो लाभः
मूलम् - 09
09 दन्तयुगं स्वयम्मृतस्याहरतः सपादचतुष्पणो लाभः
विश्वास-प्रस्तुतिः - 10
10 नागवनपाला हस्तिपकपादपाशिकसैमिकवनचरकपारिकर्मिकसखा हस्तिमूत्रपुरीषच्छन्नगन्धा भल्लातकीशाखाप्रच्छन्नाः पञ्चभिः सप्तभिर्वा हस्तिबन्धकीभिः सह चरन्तः शय्यास्थानपद्यालेण्डकूलघात उद्देशेन हस्तिकुलपर्यग्रं विद्युः
मूलम् - 10

विश्वास-प्रस्तुतिः - 11
11 यूथचरं एकचरं निर्यूथं यूथपतिं हस्तिनं व्यालं मत्तं पोतं बन्धमुक्तं च निबन्धेन विद्युः
मूलम् - 11
11 यूथचरं एकचरं निर्यूथं यूथपतिं हस्तिनं व्यालं मत्तं पोतं बन्धमुक्तं च निबन्धेन विद्युः
विश्वास-प्रस्तुतिः - 12
12 अनीकस्थप्रमाणैः प्रशस्तव्यञ्जनाचारान् हस्तिनो गृह्णीयुः
मूलम् - 12
12 अनीकस्थप्रमाणैः प्रशस्तव्यञ्जनाचारान् हस्तिनो गृह्णीयुः
विश्वास-प्रस्तुतिः - 13
13 हस्तिप्रधानं विजयो राज्ञः
मूलम् - 13
13 हस्तिप्रधानं विजयो राज्ञः
विश्वास-प्रस्तुतिः - 14
14 परानीकव्यूहदुर्गस्कन्धावारप्रमर्दना ह्यतिप्रमाणशरीराः प्राणहरकर्माणो हस्तिनः
मूलम् - 14
14 परानीकव्यूहदुर्गस्कन्धावारप्रमर्दना ह्यतिप्रमाणशरीराः प्राणहरकर्माणो हस्तिनः
विश्वास-प्रस्तुतिः - 15
15ab कालिङ्गाङ्गरजाः श्रेष्ठाः प्राच्याश्चेदिकरूषजाः ।
15chd दाशार्णाश्चापरान्ताश्च द्विपानां मध्यमा मताः
मूलम् - 15

विश्वास-प्रस्तुतिः - 16
16ab सौराष्ट्रिकाः पाञ्चनदाः तेषां प्रत्यवराः स्मृताः ।
16chd सर्वेषां कर्मणा वीर्यं जवः तेजश्च वर्धते (इति)
मूलम् - 16