Sec, 19: Settlement of the countryside
विश्वास-प्रस्तुतिः - 01
01 भूतपूर्वं अभूतपूर्वं वा जनपदं परदेशापवाहनेन स्वदेशाभिष्यन्दवमनेन वा निवेशयेत्
मूलम् - 01
01 भूतपूर्वं अभूतपूर्वं वा जनपदं परदेशापवाहनेन स्वदेशाभिष्यन्दवमनेन वा निवेशयेत्
विश्वास-प्रस्तुतिः - 02
02 शूद्रकर्षकप्रायं कुलशतावरं पञ्चकुलशतपरं ग्रामं क्रोशद्विक्रोशसीमानं अन्योन्यारक्षं निवेशयेत्
मूलम् - 02
02 शूद्रकर्षकप्रायं कुलशतावरं पञ्चकुलशतपरं ग्रामं क्रोशद्विक्रोशसीमानं अन्योन्यारक्षं निवेशयेत्
विश्वास-प्रस्तुतिः - 03
03 नलीशैलवनभृष्टिदरीसेतुबन्धशमीशाल्मलीक्षीरवृक्षान् अन्तेषु सीम्नां स्थापयेत्
मूलम् - 03
03 नलीशैलवनभृष्टिदरीसेतुबन्धशमीशाल्मलीक्षीरवृक्षान् अन्तेषु सीम्नां स्थापयेत्
विश्वास-प्रस्तुतिः - 04
04 अष्टशतग्राम्या मध्ये स्थानीयं, चतुह्शतग्राम्या द्रोणमुखं, द्विशतग्राम्याः कार्वटिकं, दशग्रामीसङ्ग्रहेण सङ्ग्रहं स्थापयेत्
मूलम् - 04

विश्वास-प्रस्तुतिः - 05
05 अन्तेष्वन्तपालदुर्गाणि जनपदद्वाराण्यन्तपालाधिष्ठितानि स्थापयेत्
मूलम् - 05
05 अन्तेष्वन्तपालदुर्गाणि जनपदद्वाराण्यन्तपालाधिष्ठितानि स्थापयेत्
विश्वास-प्रस्तुतिः - 06
06 तेषां अन्तराणि वागुरिकशबरपुलिन्दचण्डालारण्यचरा रक्षेयुः
मूलम् - 06
06 तेषां अन्तराणि वागुरिकशबरपुलिन्दचण्डालारण्यचरा रक्षेयुः
विश्वास-प्रस्तुतिः - 07
07a ऋत्विग्।आचार्यपुरोहितश्रोत्रियेभ्यो ब्रह्मदेयान्यदण्डकराण्यभिरूपदायादकानि प्रयच्छेत्
07b अध्यक्षसङ्ख्यायकादिभ्यो गोपस्थानिकानीकस्थचिकित्सकाश्वदमकजङ्घाकारिकेभ्यश्च विक्रयाधानवर्जानि
मूलम् - 07

विश्वास-प्रस्तुतिः - 08
08 करदेभ्यः कृतक्षेत्राण्यैकपुरुषिकाणि प्रयच्छेत्
मूलम् - 08
08 करदेभ्यः कृतक्षेत्राण्यैकपुरुषिकाणि प्रयच्छेत्
विश्वास-प्रस्तुतिः - 09
09 अकृतानि कर्तृभ्यो नादेयानि
मूलम् - 09
09 अकृतानि कर्तृभ्यो नादेयानि
विश्वास-प्रस्तुतिः - 10
10 अकृषतां आछिद्यान्येभ्यः प्रयच्छेत्
मूलम् - 10
10 अकृषतां आछिद्यान्येभ्यः प्रयच्छेत्
विश्वास-प्रस्तुतिः - 11
11 ग्रामभृतकवैदेहका वा कृषेयुः
मूलम् - 11
11 ग्रामभृतकवैदेहका वा कृषेयुः
विश्वास-प्रस्तुतिः - 12
12 अकृषन्तो वाऽवहीनं दद्युः
मूलम् - 12
12 अकृषन्तो वाऽवहीनं दद्युः
विश्वास-प्रस्तुतिः - 13
13 धान्यपशुहिरण्यैश्च एतान् अनुगृह्णीयात्
मूलम् - 13
13 धान्यपशुहिरण्यैश्च एतान् अनुगृह्णीयात्
विश्वास-प्रस्तुतिः - 14
14 तान्यनु सुखेन दद्युः
मूलम् - 14
14 तान्यनु सुखेन दद्युः
विश्वास-प्रस्तुतिः - 15
15 अनुग्रहपरिहारौ च एतेब्भ्यः कोशवृद्धिकरौ दद्यात्, कोश उपघातकौ वर्जयेत्
मूलम् - 15
15 अनुग्रहपरिहारौ च एतेब्भ्यः कोशवृद्धिकरौ दद्यात्, कोश उपघातकौ वर्जयेत्
विश्वास-प्रस्तुतिः - 16
16 अल्पकोशो हि राजा पौरजानपदान् एव ग्रसते
मूलम् - 16
16 अल्पकोशो हि राजा पौरजानपदान् एव ग्रसते
विश्वास-प्रस्तुतिः - 17
17 निवेशसमकालं यथाऽऽगतकं वा परिहारं दद्यात्
मूलम् - 17
17 निवेशसमकालं यथाऽऽगतकं वा परिहारं दद्यात्
विश्वास-प्रस्तुतिः - 18
18 निवृत्तपरिहारान् पिता इवानुगृह्णीयात्
मूलम् - 18
18 निवृत्तपरिहारान् पिता इवानुगृह्णीयात्
विश्वास-प्रस्तुतिः - 19
19 आकरकर्मान्तद्रव्यहस्तिवनव्रजवणिक्पथप्रचारान् वारिस्थलपथपण्यपत्तनानि च निवेशयेत्
मूलम् - 19
19 आकरकर्मान्तद्रव्यहस्तिवनव्रजवणिक्पथप्रचारान् वारिस्थलपथपण्यपत्तनानि च निवेशयेत्
विश्वास-प्रस्तुतिः - 20
20 सह उदकं आहार्य उदकं वा सेतुं बन्धयेत्
मूलम् - 20
20 सह उदकं आहार्य उदकं वा सेतुं बन्धयेत्
विश्वास-प्रस्तुतिः - 21
21 अन्येषां वा बध्नतां भूमिमार्गवृक्ष उपकरणानुग्रहं कुर्यात्, पुण्यस्थानारामाणां च
मूलम् - 21
21 अन्येषां वा बध्नतां भूमिमार्गवृक्ष उपकरणानुग्रहं कुर्यात्, पुण्यस्थानारामाणां च
विश्वास-प्रस्तुतिः - 22
22 सम्भूयसेतुबन्धाद् अपक्रामतः कर्मकरबलीवर्दाः कर्म कुर्युः
मूलम् - 22
22 सम्भूयसेतुबन्धाद् अपक्रामतः कर्मकरबलीवर्दाः कर्म कुर्युः
विश्वास-प्रस्तुतिः - 23
23 व्ययकर्मणि च भागी स्यात्, न चांशं लभेत
मूलम् - 23
23 व्ययकर्मणि च भागी स्यात्, न चांशं लभेत
विश्वास-प्रस्तुतिः - 24
24 मत्स्यप्लवहरितपण्यानां सेतुषु राजा स्वाम्यं गच्छेत्
मूलम् - 24
24 मत्स्यप्लवहरितपण्यानां सेतुषु राजा स्वाम्यं गच्छेत्
विश्वास-प्रस्तुतिः - 25
25 दासाहितकबन्धून् अशृण्वतो राजा विनयं ग्राहयेत्
मूलम् - 25
25 दासाहितकबन्धून् अशृण्वतो राजा विनयं ग्राहयेत्
विश्वास-प्रस्तुतिः - 26
26 बालवृद्धव्यसन्य्ऽनाथांश्च राजा बिभृयात्, स्त्रियं अप्रजातां प्रजातायश्च पुत्रान्
मूलम् - 26
26 बालवृद्धव्यसन्य्ऽनाथांश्च राजा बिभृयात्, स्त्रियं अप्रजातां प्रजातायश्च पुत्रान्
विश्वास-प्रस्तुतिः - 27
27 बालद्रव्यं ग्रामवृद्धा वर्धयेयुरा व्यवहारप्रापणात्, देवद्रव्यं च
मूलम् - 27
27 बालद्रव्यं ग्रामवृद्धा वर्धयेयुरा व्यवहारप्रापणात्, देवद्रव्यं च
विश्वास-प्रस्तुतिः - 28
28 अपत्यदारं मातापितरौ भ्रातॄन् अप्राप्तव्यवहारान् भगिनीः कन्या विधवाश्चाबिभ्रतः शक्तिमतो द्वादशपणो दण्डः, अन्यत्र पतितेभ्यः, अन्यत्र मातुः
मूलम् - 28

विश्वास-प्रस्तुतिः - 29
29 पुत्रदारं अप्रतिविधाय प्रव्रजतः पूर्वः साहसदण्डः, स्त्रियं च प्रव्राजयतः
मूलम् - 29
29 पुत्रदारं अप्रतिविधाय प्रव्रजतः पूर्वः साहसदण्डः, स्त्रियं च प्रव्राजयतः
विश्वास-प्रस्तुतिः - 30
30 लुप्तव्यायामः प्रव्रजेद् आपृच्छ्य धर्मस्थान्
मूलम् - 30
30 लुप्तव्यायामः प्रव्रजेद् आपृच्छ्य धर्मस्थान्
विश्वास-प्रस्तुतिः - 31
31 अन्यथा नियम्येत
मूलम् - 31
31 अन्यथा नियम्येत
विश्वास-प्रस्तुतिः - 32
32 वानप्रस्थाद् अन्यः प्रव्रजितभावः, सजाताद् अन्यः सङ्घः, सामुत्थायिकाद् अन्यः समयानुबन्धो वा नास्य जनपदं उपनिविशेत
मूलम् - 32

विश्वास-प्रस्तुतिः - 33
33 न च तत्रारामा विहारार्था वा शालाः स्युः
मूलम् - 33
33 न च तत्रारामा विहारार्था वा शालाः स्युः
विश्वास-प्रस्तुतिः - 34
34 नटनर्तकगायनवादकवाग्जीवनकुशीलवा न कर्मविघ्नं कुर्युः
मूलम् - 34
34 नटनर्तकगायनवादकवाग्जीवनकुशीलवा न कर्मविघ्नं कुर्युः
विश्वास-प्रस्तुतिः - 35
35 निराश्रयत्वाद् ग्रामाणां क्षेत्राभिरतत्वाच्च पुरुषाणां कोशविष्टिद्रव्यधान्यरसवृद्धिर्भवति
मूलम् - 35
35 निराश्रयत्वाद् ग्रामाणां क्षेत्राभिरतत्वाच्च पुरुषाणां कोशविष्टिद्रव्यधान्यरसवृद्धिर्भवति
विश्वास-प्रस्तुतिः - 36
36ab परचक्राटवीग्रस्तं व्याधिदुर्भिक्षपीडितम् ।
36chd देशं परिहरेद् राजा व्ययक्रीडाश्च वारयेत्
मूलम् - 36
36ab परचक्राटवीग्रस्तं व्याधिदुर्भिक्षपीडितम् ।
36chd देशं परिहरेद् राजा व्ययक्रीडाश्च वारयेत्
विश्वास-प्रस्तुतिः - 37
37ab दण्डविष्टिकराबाधै रक्षेद् उपहतां कृषिम् ।
37chd स्तेनव्यालविषग्राहैर्व्याधिभिश्च पशुव्रजान्
मूलम् - 37
37ab दण्डविष्टिकराबाधै रक्षेद् उपहतां कृषिम् ।
37chd स्तेनव्यालविषग्राहैर्व्याधिभिश्च पशुव्रजान्
विश्वास-प्रस्तुतिः - 38
38ab वल्लभैः कार्मिकैः स्तेनैरन्तपालैश्च पीडितम् ।
38chd शोधयेत् पशुसङ्घैश्च क्षीयमाणं वणिक्पथम्
मूलम् - 38
38ab वल्लभैः कार्मिकैः स्तेनैरन्तपालैश्च पीडितम् ।
38chd शोधयेत् पशुसङ्घैश्च क्षीयमाणं वणिक्पथम्
विश्वास-प्रस्तुतिः - 39
39ab एवं द्रव्यद्विपवनं सेतुबन्धं अथाकरान् ।
39chd रक्षेत् पूर्वकृतान् राजा नवांश्चाभिप्रवर्तयेत् (इति)
मूलम् - 39