Concerning the protection of (the kings) own person
विश्वास-प्रस्तुतिः - 01
01 शयनाद् उत्थितः स्त्रीगणैर्धन्विभिः परिगृह्यते, द्वितीयस्यां कक्ष्यायां कञ्चुक उष्णीषिभिर्वर्षधराभ्यागारिकैः, तृतीयस्यां कुब्जवामनकिरातैः, चतुर्थ्यां मन्त्रिभिः सम्बन्धिभिर्दौवारिकैश्च प्रासपाणिभिः
मूलम् - 01

विश्वास-प्रस्तुतिः - 02
02 पितृपैतामहं सम्बन्धानुबद्धं शिक्षितं अनुरक्तं कृतकर्माणं च जनं आसन्नं कुर्वीत, नान्यतोदेशीयं अकृतार्थमानं स्वदेशीयं वाऽप्यपकृत्य उपगृहीतम्
मूलम् - 02

विश्वास-प्रस्तुतिः - 03
03 अन्तर्वंशिकसैन्यं राजानं अन्तःपुरं च रक्षेत्
मूलम् - 03
03 अन्तर्वंशिकसैन्यं राजानं अन्तःपुरं च रक्षेत्
विश्वास-प्रस्तुतिः - 04
04 गुप्ते देशे माहानसिकः सर्वं आस्वादबाहुल्येन कर्म कारयेत्
मूलम् - 04
04 गुप्ते देशे माहानसिकः सर्वं आस्वादबाहुल्येन कर्म कारयेत्
विश्वास-प्रस्तुतिः - 05
05 तद् रजा तथैव प्रतिभुञ्जीत पूर्वं अग्नये वयोभ्यश्च बलिं कृत्वा
मूलम् - 05
05 तद् रजा तथैव प्रतिभुञ्जीत पूर्वं अग्नये वयोभ्यश्च बलिं कृत्वा
विश्वास-प्रस्तुतिः - 06
06 अग्नेर्ज्वालाधूमनीलता शब्दस्फोटनं च विषयुक्तस्य, वयसां विपत्तिश्च
मूलम् - 06
06 अग्नेर्ज्वालाधूमनीलता शब्दस्फोटनं च विषयुक्तस्य, वयसां विपत्तिश्च
विश्वास-प्रस्तुतिः - 07
07a अन्नस्य ऊष्मा मयूरग्रीवाभः शैत्यं आशु क्लिष्टस्य इव वैवर्ण्यं स-उदकत्वं अक्लिन्नत्वं च
07b व्यञ्जनानां आशु शुष्कत्वं च क्वाथध्यामफेनपटलविच्छिन्नभावो गन्धस्पर्शरसवधश्च
07ch द्रवेषु हीनातिरिक्तच्छायादर्शनं फेनपटलसीमन्त ऊर्ध्वराजीदर्शनं च
07d रसस्य मध्ये नीला राजी, पयसः ताम्रा, मद्यतोययोः काली, दध्नः श्यामा, मधुनः श्वेता, द्रव्याणां आर्द्राणां आशु प्रम्लानत्वं उत्पक्वभावः क्वाथनीलश्यावता च
07e शुष्काणां आशु शातनं वैवर्ण्यं च,
07f कठिनानां मृदुत्वं मृदूनां च कठिनत्वं, तद्ऽभ्याशे क्षुद्रसत्त्ववधश्च,
07g आस्तरणप्रवरणानां ध्याममण्डलता तन्तुरोमपक्ष्मशातनं च,
07h लोहमणिमयानां पङ्कमलोपदेहता स्नेहरागगौरवप्रभाववर्णस्पर्शवधश्च - इति विषयुक्तस्य लिङ्गानि
मूलम् - 07

विश्वास-प्रस्तुतिः - 08
08 विषप्रदस्य तु शुष्कश्याववक्त्रता वाक्सङ्गः स्वेदो विजृम्भणं चातिमात्रं वेपथुः प्रस्खलनं वाक्यविप्रेक्षणं आवेगः कर्मणि स्वभूमौ चानवस्थानं इति
मूलम् - 08

विश्वास-प्रस्तुतिः - 09
09 तस्माद् अस्य जाङ्गुलीविदो भिषजश्चासन्नाः स्युः
मूलम् - 09
09 तस्माद् अस्य जाङ्गुलीविदो भिषजश्चासन्नाः स्युः
विश्वास-प्रस्तुतिः - 10
10 भिषग्भैषज्यागाराद् आस्वादविशुद्धं औषधं गृहीत्वा पाचकपेषकाभ्यां आत्मना च प्रतिस्वाद्य राज्ञे प्रयच्छेत्
मूलम् - 10

विश्वास-प्रस्तुतिः - 11
11 पानं पानीयं चाउषधेन व्याख्यातम्
मूलम् - 11
11 पानं पानीयं चाउषधेन व्याख्यातम्
विश्वास-प्रस्तुतिः - 12
12 कल्पकप्रसाधकाः स्नानशुद्धवस्त्रहस्ताः समुद्रं उपकरणं अन्तर्वंशिकहस्ताद् आदाय परिचरेयुः
मूलम् - 12
12 कल्पकप्रसाधकाः स्नानशुद्धवस्त्रहस्ताः समुद्रं उपकरणं अन्तर्वंशिकहस्ताद् आदाय परिचरेयुः
विश्वास-प्रस्तुतिः - 13
13 स्नापकसंवाहकास्तरकरजकमालाकारकर्म दास्यः प्रसिद्धशौचाः कुर्युः, ताभिरधिष्ठिता वा शिल्पिनः
मूलम् - 13
13 स्नापकसंवाहकास्तरकरजकमालाकारकर्म दास्यः प्रसिद्धशौचाः कुर्युः, ताभिरधिष्ठिता वा शिल्पिनः
विश्वास-प्रस्तुतिः - 14
14 आत्मचक्षुषि निवेश्य वस्त्रमाल्यं दद्युः, स्नानानुलेपनप्रघर्षचूर्णवासस्नानीयानि च स्ववक्षोबाहुषु च
मूलम् - 14

विश्वास-प्रस्तुतिः - 15
15 एतेन परस्माद् आगतकं व्याख्यातम्
मूलम् - 15
15 एतेन परस्माद् आगतकं व्याख्यातम्
विश्वास-प्रस्तुतिः - 16
16 कुशीलवाः शस्त्राग्निरसक्रीडावर्जं नर्मयेयुः
मूलम् - 16
16 कुशीलवाः शस्त्राग्निरसक्रीडावर्जं नर्मयेयुः
विश्वास-प्रस्तुतिः - 17
17 आतोद्यानि च एषां अन्तः तिष्ठेयुः, अश्वरथद्विपालङ्काराश्च
मूलम् - 17
17 आतोद्यानि च एषां अन्तः तिष्ठेयुः, अश्वरथद्विपालङ्काराश्च
विश्वास-प्रस्तुतिः - 18
18 आप्तपुरुषाधिष्ठितं यानवाहनं आरोहेत्, नावं चाप्तनाविकाधिष्ठितम्
मूलम् - 18
18 आप्तपुरुषाधिष्ठितं यानवाहनं आरोहेत्, नावं चाप्तनाविकाधिष्ठितम्
विश्वास-प्रस्तुतिः - 19
19 अन्यनौप्रतिबद्धां वातवेगवशां च न उपेयात्
मूलम् - 19
19 अन्यनौप्रतिबद्धां वातवेगवशां च न उपेयात्
विश्वास-प्रस्तुतिः - 20
20 उदकान्ते सैन्यं आसीत
मूलम् - 20
20 उदकान्ते सैन्यं आसीत
विश्वास-प्रस्तुतिः - 21
21 मत्स्यग्राहविशुद्धं उदकं अवगाहेत
मूलम् - 21
21 मत्स्यग्राहविशुद्धं उदकं अवगाहेत
विश्वास-प्रस्तुतिः - 22
22 व्यालग्राहविशुद्धं उद्यानं गच्छेत्
मूलम् - 22
22 व्यालग्राहविशुद्धं उद्यानं गच्छेत्
विश्वास-प्रस्तुतिः - 23
23 लुब्धकश्वगणिभिरपास्तस्तेनव्यालपराबाधभयं चललक्ष्यपरिचयार्थं मृगारण्यं गच्छेत्
मूलम् - 23
23 लुब्धकश्वगणिभिरपास्तस्तेनव्यालपराबाधभयं चललक्ष्यपरिचयार्थं मृगारण्यं गच्छेत्
विश्वास-प्रस्तुतिः - 24
24 आप्तशस्त्रग्राहाधिष्ठितः सिद्धतापसं पश्येत्, मन्त्रिपरिषदा सह सामन्तदूतम्
मूलम् - 24
24 आप्तशस्त्रग्राहाधिष्ठितः सिद्धतापसं पश्येत्, मन्त्रिपरिषदा सह सामन्तदूतम्
विश्वास-प्रस्तुतिः - 25
25 सम्नद्धोऽश्वं हस्तिनं वाऽऽरूढः सम्नद्धं अनीकं पश्येत्
मूलम् - 25
25 सम्नद्धोऽश्वं हस्तिनं वाऽऽरूढः सम्नद्धं अनीकं पश्येत्
विश्वास-प्रस्तुतिः - 26
26 निर्याणेऽभियाने च राजमार्गं उभयतः कृतारक्षं शस्त्रिभिर्दण्डिभिश्चापास्तशस्त्रहस्तप्रव्रजितव्यङ्गं गच्छेत्
मूलम् - 26

विश्वास-प्रस्तुतिः - 27
27 न पुरुषसम्बाधं अवगाहेत
मूलम् - 27
27 न पुरुषसम्बाधं अवगाहेत
विश्वास-प्रस्तुतिः - 28
28 यात्रासमाज उत्सवप्रहवणानि च दशवर्गिकाधिष्ठितानि गच्छेत्
मूलम् - 28
28 यात्रासमाज उत्सवप्रहवणानि च दशवर्गिकाधिष्ठितानि गच्छेत्
विश्वास-प्रस्तुतिः - 29
29ab यथा च योगपुरुषैरन्यान् राजाऽधितिष्ठति ।
मूलम् - 29
29ab यथा च योगपुरुषैरन्यान् राजाऽधितिष्ठति ।
विश्वास-प्रस्तुतिः - 30
30chd तथाऽयं अन्याबाधेभ्यो रक्षेद् आत्मानं आत्मवान् (इति)
मूलम् - 30